दशमः खण्डः
Devanāgarīउपनयनं व्याख्यास्यामः
॥१॥ IAST
Devanāgarīबर्भाष्टमेषु ब्राह्मणमुपनयीत
॥२॥ IAST
Devanāgarīगर्भैकादशेषु राजन्यं गर्भद्वादशेषु वैश्यम्
॥३॥ IAST
Devanāgarīवसन्तो ग्रीष्मश्शरदित्यृतवो वर्णानुपूर्व्येण
॥४॥ IAST
Devanāgarīब्राह्मणान्भोजयित्वाशिषो वाचयित्वा कुमारं भोजयित्वाऽनुवाकस्य प्रथमेन यजुषाऽपः संसृज्योष्णाश्शीतास्वानीयोत्तरया शिर उनत्ति
॥५॥ IAST
Devanāgarīत्रींस्त्रीन् दर्भानन्तर्धायोत्तराभिश्चतसृभिः प्रतिमन्त्रं प्रतिदिशं प्रवपति
॥६॥ IAST
Devanāgarīवपन्तमुत्तरयानुमन्त्रयते दक्षिणतो माता ब्रह्मचारी वा
॥७॥ IAST
Devanāgarīआनडुहे शकृत्पिण्डे यवान्निधाय तस्मिन्केशानुपयम्योत्तरयोदुम्बरमूले दर्भस्तम्बे वा निदधाति
॥८॥ IAST
Devanāgarīस्नातमग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाधाप्योत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति
॥९॥ IAST
Devanāgarīवासःसद्यःकृत्तोतमुत्तराभ्यामभिमन्त्र्योत्तराभिस्तिसृभिःपरिधाप्य परिहितमुत्तरयानुमन्त्रयते
॥१०॥ IAST
Devanāgarīमौञ्जीं मेखलां त्रिवृतां त्रिःप्रदक्षिणमुत्तराभ्यां परिवीयाजिनमुत्तरमुत्तरया
॥११॥ IAST
Devanāgarīउत्तरेणाग्निं दर्भान्संस्तीर्य तेष्वेनमुत्तरयावस्थाप्योदकाञ्जलिमस्मा अञ्जलावानीयोत्तरया त्रिः प्रोक्ष्योत्तरैर्दक्षिणे हस्ते गृहीत्वोत्तरैर्देवताभ्यः परीदायोत्तरेण यजुषोपनीय सुप्रजा इति दक्षिणे कर्णे जपति
॥१२॥ IAST
एकादशः खण्डः
Devanāgarīब्रह्मचर्यमागामिति कुमार आह
॥१॥ IAST
Devanāgarīप्रष्टं परस्य प्रतिवचनं कुमारस्य
॥२॥ IAST
Devanāgarīशेषं परो जपति
॥३॥ IAST
Devanāgarīप्रत्यगाशिषं चैनं वाचयति
॥४॥ IAST
Devanāgarīउक्तमाज्यभागान्तम्
॥५॥ IAST
Devanāgarīअत्रैनमुत्तरा आहुतीर्हावयित्वा जयादि प्रतिपद्यते
॥६॥ IAST
Devanāgarīपरिषेचनान्तं कृत्वापरेणाग्निमुदगग्रं कूर्चं निधाय तस्मिन्नुत्तरेण यजुषोपनेतोपविशति
॥७॥ IAST
Devanāgarīपुरस्तात् प्रत्यङ्ङासीनः कुमारो दक्षिणेन पाणिना दक्षिणं पादमन्वारभ्याह सावित्रीं भो अनुब्रूहि इति
॥८॥ IAST
Devanāgarīतस्मा अन्वाह तत्सवितुरिति
॥९॥ IAST
Devanāgarīपच्छोऽर्धर्चशस्ततस्सर्वाम्
॥१०॥ IAST
Devanāgarīव्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथार्धर्चयोरुत्तमां कृष्स्नायाम्
॥११॥ IAST
Devanāgarīकुमार उत्तरेण मन्त्रेणोत्तरमोष्टमुपस्पृशते
॥१२॥ IAST
Devanāgarīकर्णावुत्तरेण
॥१३॥ IAST
Devanāgarīदण्डमुत्तरेणाऽऽदत्ते
॥१४॥ IAST
Devanāgarīपालाशो दण्डो ब्राह्मणस्य नैय्यग्रोधस्स्कन्धजोऽवाङ्ग्रो राजन्यस्य बादर औदुम्बरो वा वैश्यस्य
॥१५॥ IAST
Devanāgarīवार्क्षो दण्ड इत्यवर्णसंयोगेनैक उपदिशन्ति
॥१६॥ IAST
Devanāgarīस्मृतं च म इत्येतद्वाचयित्वा गुरवे वरं दत्त्वोदायुषेत्युत्थाप्योत्तरैरादित्यमुपतिष्ठते
॥१७॥ IAST
Devanāgarīयं कामयेत नायमाच्छिद्येतेति तमुत्तरया दक्षिणे हस्ते गृह्णीयात्
॥१८॥ IAST
Devanāgarīत्र्यहमेतमग्निं धारयन्ति
॥१९॥ IAST
Devanāgarīक्षारलवणवर्जनं च
॥२०॥ IAST
Devanāgarīपरि त्वेति परिमृज्य तस्मिन्नुत्तरैर्मन्त्रैस्समिध आदध्यात्
॥२१॥ IAST
Devanāgarīएवमन्यस्मिन्नपि सदारण्यादेधानाहृत्य
॥२२॥ IAST
Devanāgarīउत्तरया सँशास्ति
॥२३॥ IAST
Devanāgarīवासश्चतुर्थीमुत्तरयादत्तेऽन्यत्परिधाप्य
॥२४॥ IAST