मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

पञ्चमः पटलः

3
आपस्तम्बगृह्यसूत्रम् · 5

द्वादशः खण्डः

वेदमधीत्य स्नास्यन्प्रागुदयाद्व्रजं प्रविश्यान्तर्लोम्ना चर्मणा द्वारमपिधायास्ते

॥१॥

नैनमेतदहरादित्योऽभितपेत्

॥२॥

मध्यन्दिनेऽग्नेरुपसमाधानाद्याज्यभागान्ते पालाशीं समिधमुत्तरयाधायापरेणाग्निं कट एरकायां वोपविश्योत्तरया क्षुरमभिमन्त्र्योत्तरेण यजुषा वप्त्रे प्रदायापां संसर्जनाद्याकेशनिधानात्समानम्

॥३॥

जघनार्धे व्रजस्योपविश्य विस्नस्य मेखलां ब्रह्मचारिणे प्रयच्छति

॥४॥

तां स उत्तरेण यजुषोदौम्बरमूले दर्भस्तम्बे वोपगूहति

॥५॥

एवं विहिताभिरेवाद्भिरुत्तराभिष्षड्भिस्स्नात्वोत्तरयोदुम्बरेण दतो धावते

॥६॥

स्नानीयोच्छादितस्स्नातः

॥७॥

उत्तरेन यजुषाऽहतमन्तरं वासः परिधाय सार्वसुरभिणा चन्दनेनोत्तरैर्देशताभ्यः प्रदायोत्तरयानुलिप्य मणिं सौवर्णं सोपधानं सूत्रोतमुत्तरयोदपात्रे त्रिः प्रदक्षिणं परिप्लाव्योत्तरया ग्रीवास्वाबध्यैवमेव बादरं मणिं मन्त्रवर्जं सव्ये पाणावाबध्याहतमुत्तरं वासो रेवतीस्त्वेति समानम्

॥८॥

तस्य दशायां प्रवर्तौ प्रबध्य दर्व्यामाधायाज्येनाभ्यानायन्नुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते

॥९॥

परिषेचनान्तं कृत्वताभिरेव दक्षिणे कर्ण आबध्नीतैताभिस्सव्ये

॥१०॥

एवमुत्तरैर्यथालिङ्गं स्रजश्शिरस्याञ्जनमादर्शावेक्षणमुपानहौ छत्रं दण्डमिति

॥११॥

वाचं यच्छत्यानक्षत्रेभ्यः

॥१२॥

उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तरेणार्धर्चेन दिश उपस्थायोत्तरेण नक्षत्राणि चन्द्रमसमिति

॥१३॥

रातिना सम्भाष्य यथार्थं गच्छति

॥१४॥

त्रयोदशः खण्डः

अथैतदपरं तूष्णीमेव तीर्थे स्नात्वा तूष्णीं समिधमादधाति

॥१॥

यत्रास्मा अपचितिं कुर्वन्ति तत्कूर्च उपविशति यथापुरस्तात्

॥२॥

एवमुत्तराभ्यां यथालिङ्गं राजा स्थपतिश्च

॥३॥

आपः पाद्या इति प्राह

॥४॥

उत्तरयाऽभिमन्त्र्य दक्षिणं पादं पूर्वं ब्राह्मणाय प्रयच्छेत्सव्यँ शूद्राय

॥५॥

प्रक्षालयितारमुपस्पृश्योत्तरेण यजुषात्मानं प्रत्यभिमृशेत्

॥६॥

कूर्चाभ्यां परिगृह्य मृन्मयेनार्हणीया आप इति प्राह

॥७॥

उत्तरयाऽभिमन्त्र्याञ्जलावेकदेश आनीयमान उत्तरं यजुर्जपेत्

॥८॥

शेषं पुरस्तान्निनीयमानमुत्तरयाऽनुमन्त्रयते

॥९॥

दधि मध्विति संसृज्य कांस्येन वर्षीयसा पिधाय कूर्चाभ्यां परिगृह्य मधुपर्क इति प्राह

॥१०॥

त्रिवृतमेके घृतं च

॥११॥

पाङ्क्तमेके धानास्सक्तूंश्च

॥१२॥

उत्तराभ्यामभिमन्त्र्य यजुर्भ्यामप आचामति पुरस्तादुपरिष्टाच्चोत्तरया त्रिः प्राश्यानुकम्प्याय प्रयच्छेत्

॥१३॥

प्रतिगृह्यैव राजा स्थपतिर्वा पुरोहिताय

॥१४॥

गौरिति गां प्राह

॥१५॥

उत्तरयाभिमन्त्र्य तस्यै वपाँ श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति

॥१६॥

यद्युत्सृजेदुपांशूत्तरां जपित्वोमुत्सृजतेत्युच्चैः

॥१७॥

अन्नं प्रोक्तमुपांशूत्तरैरभिमन्त्र्य ॐ कल्पयते त्युच्चैः

॥१८॥

आचार्यायर्त्विजे श्वशुराय राज्ञ इति परिसंवत्सरादुपतिष्ठद्भ्य एतत्कार्यम्

॥१९॥

सकृत्प्रवक्त्रे चित्राय

॥२०॥