सप्तदशः खण्डः
Devanāgarīदक्षिणाप्रत्यक्प्रवणमगरावकाशमुद्धत्य पलाशेन शमीमयेन वोदूहेनैतामेव दिशमुत्तरयोदूहति
॥१॥ IAST
IAST
Devanāgarīकॢप्तमुचरयाभिमृश्य प्रदक्षिणं स्थूणागर्तान्खानयित्वाऽभ्यन्तरं पाँसूनुदुप्योत्तराभ्यां दक्षिणं द्वारस्थूणामवदधाति
॥३॥ IAST
IAST
Devanāgarīयथाखातमितरा अन्ववधाय वँशमाधीयमानमुत्तरेण यजुषाऽभिमन्त्रयते
॥५॥ IAST
Devanāgarīसम्मितमुत्तरैर्यथालिङ्गम्
॥६॥ IAST
Devanāgarīपालाशं शमीमयं वेध्ममादीप्योत्तरयर्चाऽग्निमुद्धृत्योत्तरेण यजुषाऽगारं प्रपाद्योत्तरपूर्वदेशेऽगारस्योत्तरयाऽग्निं प्रतिष्ठापयति
॥७॥ IAST
Devanāgarīतस्माद्दक्षिणमुदधानायतनं भवति
॥८॥ IAST
Devanāgarīतस्मिन्विषूचीनाग्रान्दर्भान्संस्तीर्य तेषूत्तरया व्रीहियवान्न्युप्य तत्रोदधानं प्रतिष्ठापयति
॥९॥ IAST
Devanāgarīतस्मिन्नुत्तरेण यजुषा चतुर उदकुम्भानानयति
॥१०॥ IAST
Devanāgarīदीर्घमुत्तरयाऽनुमन्त्रयते
॥११॥ IAST
Devanāgarīअग्नेरुपसमाधानाद्याज्यभागान्ते उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते
॥१२॥ IAST
Devanāgarīपरिषेचनान्तं कृत्वोत्तरेण यजुषोदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान्भोजयेदपूपैस्सक्तुभिरोदनेनेति
॥१३॥ IAST
अष्टादशः खण्डः
Devanāgarīश्वग्रहगृहीतं कुमारं तपोयुक्तो जालेन प्रच्छाद्य कंसं किङ्किणिं वा ह्रादयन्नद्वारेण सभां प्रपाद्य सभाया मध्येऽधिदेवनमुद्धत्यावोक्ष्याक्षान्न्युप्याक्षेधूत्तानं निपात्य दध्ना लवणमिश्रेणाञ्जलिनोत्तरैरवोक्षेत्प्रातर्मध्यन्दिने सायम्
॥१॥ IAST
IAST
Devanāgarīशङ्खिनं कुमारं तपोयुक्त उत्तराभ्यामभिमन्त्र्योत्तरयोदकुम्भेन शिरस्तोऽवनयेत्प्रातर्मध्यन्दिने सायम्
॥३॥ IAST
IAST
Devanāgarīश्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाकः
॥५॥ IAST
Devanāgarīपार्वणवदाज्यभागान्ते स्थालीपाकाद्धुत्वाञ्जलिनोत्तरैः प्रतिमन्त्रं किशुकानि जुहोति
॥६॥ IAST
Devanāgarīउत्तराभिस्तिसृभिरारग्वधमय्यस्समिधः
॥७॥ IAST
Devanāgarīआज्याहुतीरुत्तराः
॥८॥ IAST
Devanāgarīजयादि प्रतिपद्यते
॥९॥ IAST
Devanāgarīपरिषेचनान्तं कृत्वा वाग्यतस्संभारानादाय प्राचीमुदीचीं वा दिशमुपनिष्क्रम्यस्थण्डिलं कल्पयित्वा तत्र प्राचीरुदीचीश्च तिस्रस्तिस्रो लेखा लिखित्वाऽद्भिरुपनिनीय तासूत्तरया सक्तून्निवपति
॥१०॥ IAST
Devanāgarīतूष्णीं सम्पुष्का धाना लाजानाञ्जनाभ्यञ्जने स्थगरोशीरमिति
॥११॥ IAST
Devanāgarīउत्तरैरुपस्थायापः परिषिच्याप्रतीक्षस्तूष्णीमेत्या पश्वेत पदेत्याभ्यामुदकुम्भेन त्रिः प्रदक्षिणमन्तरतोऽगारं निवेशनं वा परिषिच्य ब्राह्मणान्भोजयेत्
॥१२॥ IAST
एकोनविंशः खण्डः
Devanāgarīधानाः कुमारान् प्राशयन्ति
॥१॥ IAST
Devanāgarīएवमत ऊर्ध्वं यदशनीयस्य सक्तूनां वैतं बलिं हरेदामार्गशीर्ष्याः
॥२॥ IAST
Devanāgarīमार्गशीर्ष्यां पौर्णमास्यामस्तमिते स्थालीपाकः
॥३॥ IAST
Devanāgarīअहार्षमिति बलिमन्त्रस्य सन्नामः
॥४॥ IAST
Devanāgarīअत्रैनमुत्सृजति
॥५॥ IAST
Devanāgarīअनाहिताग्नेराग्रयणम्
॥६॥ IAST
Devanāgarīनवानां स्थालीपाकं श्रपयित्वाग्रयणदेवताभ्यः स्विष्टकृच्चतुर्थाभ्यो हुत्वा तण्डुलानां मुखं पूरयित्वा गीर्त्वाचम्यौदनपिण्डं संवृत्त्योत्तरेण यजुषागारस्तूप उद्विद्धेत्
॥७॥ IAST
Devanāgarīहेमन्तप्रत्यवरोहणम्
॥८॥ IAST
Devanāgarīउत्तरेण यजुषा प्रत्यवरुह्योत्तरैर्दक्षिणैः पार्श्वैः नवस्वस्तरे संविशन्ति
॥९॥ IAST
Devanāgarīदक्षिणतः पितोत्तरा मौतवमवशिष्टानां ज्येष्ठोज्येष्ठोऽनन्तरः
॥१०॥ IAST
Devanāgarīसंहायोत्तराभ्यां पृथिवीमभिमृशन्ति
॥११॥ IAST
Devanāgarīएवं संवेशनादि त्रिः
॥१२॥ IAST
Devanāgarīईशानाय स्थालीपाकं श्रपयित्वा क्षैत्रपत्यं च प्राचीमुदीचीं वा दिशमुपतिष्क्रम्य स्थण्डिलं कल्पयित्वाऽग्नेरुपसमाधानादि
॥१३॥ IAST
Devanāgarīअपरेणाग्निं द्वे कुटी कृत्वा
॥१४॥ IAST
विंशः खण्डः
Devanāgarīउत्तरया दक्षिणस्यामीशानमावाहयति
॥१॥ IAST
Devanāgarīलौकिक्या वाचोत्तरस्यां मीढुषीम्
॥२॥ IAST
Devanāgarīमध्ये जयन्तम्
॥३॥ IAST
Devanāgarīयथोढमुदकानि प्रदाय त्रीनोदनान्कल्पयित्वाग्निमभ्यानीयोत्तरैरुपस्पर्शयित्वा उत्तरैर्यथास्वमोदनेभ्यो हुत्वा सर्वतस्समवदायोत्तरेण यजुषाग्निं स्विष्टकृतम्
॥४॥ IAST
Devanāgarīउत्तरेण यजुषोपस्थायोत्तरैस्सहोदनानि पर्णान्येकैकेन द्वे द्वे दत्त्वा देवसेनाभ्यो दशोत्तराभ्यः
॥५॥ IAST
Devanāgarīपूर्ववदुत्तरैः
॥६॥ IAST
Devanāgarīओनपिण्डं संवृत्य पर्णपुटेऽवधायोत्तरेण यजुषा वृक्ष आसजति
॥७॥ IAST
Devanāgarīअत्र रुद्रान् जपेत्
॥८॥ IAST
Devanāgarīप्रथमोत्तमौ वा
॥९॥ IAST
Devanāgarīअभित एतमग्निं गास्स्थापयति यथैता धूमः प्राप्नुयात्
॥१०॥ IAST
Devanāgarīता गन्धैर्दर्भग्रुमुष्टिनावोक्षति वृषाणमेवाग्रे
॥११॥ IAST
Devanāgarīगवां मर्गेऽनग्नौ क्षेत्रस्य पतिं जयते
॥१२॥ IAST
Devanāgarīईशानवदावाहनम्
॥१३॥ IAST
Devanāgarīचतुर्षु सप्तसु वा पर्णेषु नामादेशं दधाति
॥१४॥ IAST
Devanāgarīक्षिप्रं यजेत पाको देवः
॥१५॥ IAST
Devanāgarīउत्तराभ्यामुपतिष्ठते
॥१६॥ IAST
Devanāgarīस्थालीपाकं ब्राह्मणान्भोजयेत्
॥१७॥ IAST
Devanāgarīक्षैत्रपत्यं प्राश्नन्ति ये सनाभयो भवन्ति
॥१८॥ IAST
Devanāgarīयथा वैषां कुलधर्मस्स्यात्
॥१९॥ IAST