अथात उपाकरणोत्सर्जने व्याख्यास्यामः
॥१॥श्रवणापक्ष ओषधीषु जातासु हस्तेन पौर्णमास्यां वाऽध्यायोपाकर्म
॥२॥अग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धेषु काण्डऋषिभ्यो जुहोति सदसस्पतये सावित्र्या ऋग्वेदाय यजुर्वेदाय सामवेदायाथर्वणवेदायेति हुत्वा उपहोमो वेदाहुतीनामुपरिष्टात्सदसस्पतिमित्येके
॥३॥परिषेचनान्तं कृत्वा त्रीननुवाकानादितोऽधीयीरन्
॥४॥प्रथमोत्तमावनुवाकौ वा
॥५॥त्र्यहमेकाहं वा क्षम्याधीयीरन्
॥६॥अथोपाकरणमध्यायः
॥७॥तैषीपक्षस्य रोहिण्यां पौर्णमास्यां वोत्सर्गः
॥८॥प्राचीमुदीचीं वा सगणो दिशमुपनिष्क्रम्य यत्रापः पुरस्तात्सुखाः सुखावगाहा अवकिन्यः शङ्खिन्यः तासामन्तं गत्वाऽभिषेकान्कृत्वा सुरभिमत्याब्लिङ्गाभिर्वारुणीभिर्हिरण्यवर्णाभिः पावमनीभिरिति मार्जयित्वान्तर्जलगतोऽघमर्षणेन त्रीन्प्राणायामान् धारयित्वोत्तीर्याचम्योपोत्थाय दर्भानन्योन्यस्मै सम्प्रदाय शुचौ देशे प्राक्कूलैर्दर्भैरासनानि कल्पयन्ति
॥९॥ब्रह्मणे प्रजापतये वृहस्पतयेऽग्नये वायवे सूर्याय चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यस्संवत्सराय इन्द्राय राज्ञे सोमाय राज्ञे यमाय राज्ञे वरुणाय राज्ञे वैश्रवणाय राज्ञे वसुभ्यो रुद्रेभ्य आदित्येभ्यो विश्वेभ्यो देवेभ्यस्साध्येभ्यो मरुद्भ्य ऋभुभ्यो भृगुभ्योऽङ्गिरोभ्य इति देवगणानाम्
॥१०॥अथर्षयःविश्वामित्रो जमदग्निर्भरद्वाजो गौतमोऽत्रिर्वसिष्ठः कश्यप इत्येते सप्तर्षयः सप्तर्षिभ्यः कल्पयित्वा दक्षिणतोऽगस्त्याय कल्पयन्ति
॥११॥ततो यावदेकवैद्यन्तैः कल्पयन्ति
॥१२॥प्राचीनावीतानि कृत्वा दक्षिणतो वैशम्पायनाय पैङ्गये तित्तिरये उखायात्रेयाय पदाकाराय कौण्डिन्याय वृत्तिकाराय बौधायनाय प्रवचनकाराय आपस्तम्बाय सूत्रकाराय भरद्वाजाय सूत्रकाराय सत्याषाढाय हिरण्यकेशाय आचार्येभ्य ऊर्ध्वरेतोभ्य एकपत्नीभ्यो वानप्रस्थेभ्यः कल्पयामीति
॥१३॥अथ यथास्वं पितृभ्यः कल्पयन्ति मातामहेभ्यश्च पृथक्
॥१४॥यज्ञोपवीतानि कृत्वा तेष्वेव देशेषु तथैवानुपूर्व्या तैरेव नामभिर्देवानृषींश्च तर्पयन्ति वैशम्पायनप्रभृतींस्तु मातुः प्रपितामहपर्यन्तान्प्राचीनावीतिनस्तर्पयन्ति अमुं तर्पयाम्यमुं तर्पयाम्यमुं तर्पयामीति
॥१५॥अभिप्यन्ते वान्योन्यम्
॥१६॥यज्ञोपवीतानि कृत्वा त्रीनादितोऽनुवाकानधीयीरन्
॥१७॥काण्डादीन्प्रथमोत्तमौ वा
॥१८॥काण्डात्काण्डात्प्ररोहन्तीतिद्वाभ्यामुपोदके दूर्वा रोपयन्ति
॥१९॥अपः प्रगाह्योदधिं कुर्वन्ति
॥२०॥सर्वतः परिवार्योर्मिमन्तः कुर्वन्ति
॥२१॥उद्गाह्यातमितोराजिं धावन्ति
॥२२॥प्रत्येत्याभिदानानि सक्तुभिरोदनेनेति ब्राह्मणान् भोजयित्वा वाचयति
॥२३॥एवं पारायणसमाप्तौ च काण्डादि दूर्वारोपणोदधिधावनवर्जम्
॥२४॥प्रत्येत्य ब्राह्मणभोजनादि कर्म प्रतिपद्यते
॥२५॥एवमेवाद्भिरहरहर्देवानृषीन्पितॄंश्च तर्पयेत्
॥२६॥