मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टमः पटलः

3
आपस्तम्बगृह्यसूत्रम् · 8

एकविंशः खण्डः

मासि श्राद्धस्यापरपक्षे यथोपदेशं कालाः

॥१॥

शुचीन्मन्त्रवतो यो निगोत्रमन्त्रासम्बन्धानयुग्माँस्त्र्यवराननर्थावेक्षो भोजयेत्

॥२॥

अन्नस्योत्तराभिर्जुहोति

॥३॥

आज्याहुतीरुत्तराः

॥४॥

एतद्वा विपरीतम्

॥५॥

सर्वमुत्तरैरभिमृशेत्

॥६॥

कॢप्तान्वा प्रतिपूरुषम्

॥७॥

उत्तरेण यजुषोपस्पर्शयित्वा

॥८॥

भुक्तवतोऽनुव्रज्य प्रदक्षिणीकृत्य द्वैधं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषूत्तरैरपो दत्त्वोत्तरैर्दक्षिणापवर्गान्पिण्डान्दत्त्वा पूर्ववदुत्तरैरपो दत्त्वोत्तरैरुपस्थायोत्तरयोदपात्रेण त्रिः प्रसव्यं परिषिच्य न्युब्ज्य पात्राण्युत्तरं यजुरनवानं त्र्यवरार्ध्य मावर्तयित्वा प्रोक्ष्यपात्राणि द्वन्द्वमभ्युदाहृत्य सर्वतस्समवदायोत्तरेण यजुषाशेषस्य ग्रासवरार्ध्यं प्राश्नीयात्

॥९॥

या माघ्याः पौर्णमास्या उपरिष्टाद्व्यष्टका तस्यामष्टमी ज्येष्ठया सम्पद्यते तामेकाष्टकेत्याचक्षते

॥१०॥

तस्यास्सायमौपकार्यम्

॥११॥

अपूपं चतुश्शरावं श्रपयति

॥१२॥

अष्टाकपाल इत्येके

॥१३॥

द्वाविंशः खण्डः

पार्वणवदाज्यभागान्तेऽञ्जलिनोत्तरयाऽपूपाज्जुहोति

॥१॥

सिद्धश्शेषस्तमष्टधा कृत्वा ब्राह्मणेभ्य उपहरति

॥२॥

श्वोभूते दर्भेण गामुपाकरोति पितृभ्यस्त्वा जुष्टामुपाकरोमीति

॥३॥

तूष्णीं पञ्चाज्याहुतीर्हुत्वा तस्यै वपां श्रपयित्वोपस्तीर्णाभिघारितां मध्यमेनान्तमेन वा पलाशपर्णेनोत्तरया जुहोति

॥४॥

माँसोदनमुत्तराभिः

॥५॥

पिष्टान्नमुत्तरया

॥६॥

आज्याहुतीरुत्तराः

॥७॥

स्विष्टकृत्प्रभृति समानमापिण्डनिधानात्

॥८॥

अन्वष्टकायामेवैके पिण्डनिधानमुपदिशन्ति

॥९॥

अथैतदपरं दध्न एवाञ्जलिना जुहोति ययाऽपूपम्

॥१०॥

अत एव यथार्थं मासं शिष्ट्वा श्वोभूतेऽन्वष्टकाम्

॥११॥

तस्या मासिश्राद्धेन कल्पो व्याख्यातः

॥१२॥

सनिमित्वोत्तरान् जपित्वाऽर्थं ब्रूयात्

॥१३॥

रथं लब्ध्वा योजयित्वा प्राञ्चमवस्थाप्योत्तरया रथचक्रे अभिमृशति पक्षसी वा

॥१४॥

उत्तरेण यजुषाऽधिरुह्योत्तरया प्राचीमुदीचीं वा दिशमभिप्रयाय यथार्थं यायात्

॥१५॥

अश्वमुत्तरैरारोहेत्

॥१६॥

हस्तिनमुत्तरया

॥१७॥

ताभ्याँ रेषणे पूर्ववत्पृथिवीमभिमृशेत्

॥१८॥

संवादमेष्यन्सव्येन पाणिना छत्रं दण्डञ्चादत्ते

॥१९॥

त्रयोविंशः खण्डः

दक्षिणेन फलीकरणमुष्टिमुत्तरया हुत्वा गत्वोत्तरां जपेत्

॥१॥

क्रुद्धमुत्तराभ्यामभिमन्त्रयेत विक्रोधो भवति

॥२॥

असंभवेप्सुः परेषां स्थूलाढारिकाजीवचूर्णानि कारयित्वोत्तरया सुप्तायास्सम्बाध उपवपेत्

॥३॥

सिद्ध्यर्थे बभ्रुमूत्रेण प्रक्षालयीत

॥४॥

सिद्ध्यर्थे यदस्य गृहे पण्यं स्यात्तत उत्तरया जुहुयात्

॥५॥

यं कामयेत नायं मच्छिद्येतेति जीवविषाणे स्वं मूत्रमानीय सुप्तमुत्तराभ्यां त्रिः प्रसव्यं परिषिञ्चेत्

॥६॥

येन पथा दासकर्मकराः पलायेरन्तस्मिन्निण्वान्युपसमाधायोत्तरा आहुतीर्जुहुयात्

॥७॥

यद्येनं वृक्षात्फलमभिनिपतेद्वयो वाऽभिविक्षिपेदवर्षतर्क्ये वा बिन्दुरभिनिपतेत्तदुत्तरैर्यथालिङ्गं प्रक्षालयीत

॥८॥

आगारस्थूणाविरोहणे मधुन उपवेशने कुप्वां कपोतपददर्शनेऽमात्यानां शरीररेषणेऽन्येषु चाद्भुतोत्पातेष्वमावास्यायां निशायां यत्रापां न शृणुयात्तदग्नेरुपसमाधानाद्याज्यभागान्त उत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते

॥९॥

परिषेचनान्तं कृत्वाऽभिमृतेभ्य उत्तरया दक्षिणतोऽश्मानं परिधिं दधाति

॥१०॥