मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

द्वितीयः पटलः

3
आपस्तम्बगृह्यसूत्रम् · 2

चतुर्थः खण्डः

सुहृदस्समवेतान्मन्त्रवतो वरान्प्रहिणुयात्

॥१॥

तानादितो द्वाभ्यामभिमन्त्रयेत

॥२॥

स्वयं दृष्ट्वा तृतीयां जपेत्

॥३॥

चतुर्थ्या समीक्षेत

॥४॥

अङ्गुष्ठेनोपमध्यमया चाङ्गुल्या दर्भ संगृह्योत्तरेण यजुषा तस्या भ्रुवोरन्तरँ संमृज्य प्राचीनं निरस्येत्

॥५॥

प्राप्ते निमित्त उत्तरां जपेत्

॥६॥

युग्मान्समवेतान् मन्त्रवत उत्तरयाऽद्भ्यः प्रहिणुयात्

॥७॥

उत्तरेण यजुषा तस्याश्शिरसि दर्भेण्वं निधाय तस्मिन्नुत्तरया दक्षिणं युगच्छिद्रं प्रतिष्ठाप्य छिद्रे सुवर्णमुत्तरयान्तर्धायोत्तराभिः पञ्चभिस्स्नापयित्वोत्तरयाऽहतेन वाससाच्छाद्योत्तरया योक्त्रेण सन्नह्यति

॥८॥

अथैनामुत्तरया दक्षिणे हस्ते गृहीत्वाग्निमभ्यानीयापरेणाग्निमुदगग्रं कटमास्तीर्य तस्मिन्नुपविशत उत्तरो वरः

॥९॥

अग्नेरुपसमाधानाद्याज्यभागान्तेऽथैनामादितो द्वाभ्यामभिमन्त्रयेत

॥१०॥

अथास्यै दक्षिणेन नीचा हस्तेन दक्षिणमुत्तानँ हस्तं गृह्णीयात्

॥११॥

यदि कामयेत स्त्रीरेव जनयेयमित्यङ्गुलीरेव गृह्णीयात्

॥१२॥

यदि कामयेत पुंस एव जनयेयमित्यङ्गुष्ठमेव सोऽभीवाङ्गुष्ठमभीव लोमानि गृह्णाति

॥१३॥

गृभ्णामि त इत्येताभिश्चतसृभिः

॥१४॥

अथैनामुत्तेरणाग्निं दक्षिणेन पदा प्राचीमुदीचीं वा दिशमभि प्रक्रमयत्येकमिष इति

॥१५॥

सखेति सप्तमे पदे जपति

॥१६॥

पञ्चमः खण्डः

प्राग्घोमात्प्रदक्षिणमग्निं कृत्वा यथास्थानमुपविश्यान्वारब्धायामुत्तरा आहुतीर्जुहोति सोमाय जनिविदे स्वाहेत्येतैः प्रतिमन्त्रम्

॥१॥

अथैनामुत्तरेणाग्निं दक्षिणेन पदाऽश्मानमास्थापयत्यातिष्ठेति

॥२॥

अथास्या अञ्जलावुपस्तीर्य द्विर्लाजानोप्याभिघारयति

॥३॥

तस्यास्तोदर्यो लाजानावपतीत्येके

॥४॥

जुहोति यं नारीति

॥५॥

उत्तराभिस्तिसृभिः प्रदक्षिणमग्निं कृत्वाऽश्मानमास्थापयति यथा पुरस्तात्

॥६॥

होमश्चोत्तरया

॥७॥

पुनः परिक्रमणम्

॥८॥

आस्थापनम्

॥९॥

होमश्चोत्तरया

॥१०॥

पुनः परिक्रमणम्

॥११॥

जयादि प्रतिपद्यते

॥१२॥

परिषेचनान्तं कृत्वोत्तराभ्यां योक्त्रं विमुच्य तां ततः प्र वा वाहयेत् प्र वा हारयेत्

॥१३॥

समोप्यैतमग्निमनुहरन्ति

॥१४॥

नित्यः

॥१५॥

धार्यः

॥१६॥

अनुगतो मन्थ्यः

॥१७॥

श्रोत्रियागाराद्वाहार्यः

॥१८॥

उपवासश्चान्य तरस्य भार्यायाः पत्युर्वा

॥१९॥

अनुगतेऽपि वोत्तरया जुहुयान्नोपवसेत्

॥२०॥

उत्तरा रथस्योत्तम्भनी

॥२१॥

वाहावुत्तराभ्यां युनक्ति दक्षिणमग्रे

॥२२॥

आरोहतीमुत्तराभिरभिमन्त्रयते

॥२३॥

सूत्रे वर्त्मनोर्व्यवस्तृणात्त्युत्तरया नीलं दक्षिणस्यां लोहितमुत्तरस्याम्

॥२४॥

ते उत्तराभिरभियाति

॥२५॥

तीर्थस्थाणुचतुष्पथव्यतिक्रमे चोत्तरां जपेत्

॥२६॥

षष्ठः खण्डः

नावमुत्तरयाऽनुमन्त्रयते

॥१॥

न च नाव्याँस्तरती वधूः पश्येत्

॥२॥

तीर्त्वोत्तरां जपेत्

॥३॥

श्मशानादिव्यतिक्रमे भाण्डे रथे वा रिष्टेऽग्नेरुपसमाधानाद्यज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं करोति

॥४॥

क्षीरिणामन्येषां वा लक्ष्मण्यानां वृक्षाणां नदीनां धन्वनां च व्यतिक्रम उत्तरे यथालिङ्गं जपेत्

॥५॥

गृहानुत्तरया सङ्काशयति

॥६॥

वाहावुत्तराभ्यां विमुञ्चति दक्षिणमग्रे

॥७॥

लोहितं चर्माऽऽनडुहं प्राचीनग्रीवमुत्तरलोम मध्येऽगारस्योत्तरयाऽऽस्तीर्य गृहान्प्रपादन्नुत्तरां वाचयति दक्षिणेन पदा

॥८॥

न च देहलीमभि तिष्ठति

॥९॥

उत्तरपूर्वे देशेऽगारस्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वोत्तरया चर्मण्युपविशत उत्तरो वरः

॥१०॥

अथास्याः पुँस्वोर्जीवपुत्रायाः पुत्रमङ्क उत्तरयोपवेश्य तस्मै फलान्युत्तरेण यजुषा प्रदायोत्तरे जपित्वा वाचं यच्छत आ नक्षत्रेभ्यः

॥११॥

उदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्योत्तराभ्यां यथालिङ्गं ध्रुवमरुन्धतीं च दर्शयति

॥१२॥