चतुर्दशः खण्डः
Devanāgarīसीमन्तोन्नयनं प्रथमे गर्भे चतुर्थे मासि
॥१॥ IAST
Devanāgarīब्राह्मणान्भोजयित्वाशिषो वाचयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते
॥२॥ IAST
Devanāgarīपरिषेचनान्तं कृत्वापरेणाग्निं प्राचीनमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैश्शलालुग्लप्सेनेत्यूर्ध्वं सीमन्तमुन्नयति व्याहृतीभिरुत्तराभ्यां च
॥३॥ IAST
Devanāgarīगायतमिति वीणागायिनौ संशास्ति
॥४॥ IAST
Devanāgarīउत्तरयोः पूर्वा साल्वानां व्राह्मणानामितरा
॥५॥ IAST
Devanāgarīनदीनिर्देशश्च यस्यां वसन्ति
॥६॥ IAST
Devanāgarīयवान्विरूढानाबध्य वाचं यच्छत्यानक्षत्रेभ्यः
॥७॥ IAST
Devanāgarīउदितेषु नक्षत्रेषु प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य वत्समन्वारभ्य व्याहृतीश्च जपित्वा वाचं विसृजेत्
॥८॥ IAST
Devanāgarīपुँसवनं व्यक्ते गर्भे तिष्येण
॥९॥ IAST
Devanāgarīन्यग्रोधस्य या प्राच्युदीची वा शाखा ततस्सवृषणां शुङ्गामाहृत्य सीमन्तवदग्नेरुपसमाधानादि
॥१०॥ IAST
Devanāgarīअनवस्नातया कुमार्या दृषत्पुत्रे दृषत्पुत्रेण पेषयित्वा परिप्लाव्यापेरणाग्निं प्राचीमुत्तानां निपात्योत्तरेण यजुषाऽङ्गुष्ठेन दक्षिणे नासिकाच्छिद्रेऽपि नयति
॥११॥ IAST
Devanāgarīपुमांसं जनयति
॥१२॥ IAST
Devanāgarīक्षिप्रं सुवनम्
॥१३॥ IAST
Devanāgarīअनाप्रीतेन शरावेणानुस्रोतसमुदकमाहृत्य पत्तस्तूर्यन्तीं निधाय मूर्धञ्छोष्यन्तीमुत्तरेण यजुषाऽभिमृश्यैताभिरद्भिरुत्तराभिरवोक्षेत्
॥१४॥ IAST
Devanāgarīयदि जरायु न पतेदेवंविहिताभिरेवाद्भिरुत्तराभ्यामवोक्षेत्
॥१५॥ IAST
पञ्चदशः खण्डः
Devanāgarīजातं वात्सप्रेणाभिमृश्योत्तरेण यजुषोपस्थ आधायोत्तराभ्यामाभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्णे जापः
॥१॥ IAST
Devanāgarīनक्षत्रनाम च निर्दिशति
॥२॥ IAST
Devanāgarīतद्रहस्यं भवति
॥३॥ IAST
Devanāgarīमधु घृतमिति संसृज्य तस्मिन् दर्भेण हिरण्यं निष्टर्क्यं बध्वावदायोत्तरैर्मन्त्रैः कुमारं प्राशयित्वोत्तराभिः पञ्चभिस्स्नापयित्वा दधि घृतमिति संसृज्य कांस्येन पृषदाज्यं व्याहृतीभिरोङ्कारचतुर्थाभिः कुमारं प्राशयित्वाद्भिश्शेषं संसृज्य गोष्ठे निनयेत्
॥४॥ IAST
Devanāgarīउत्तरया मातुरुपस्थ आधायोत्तरया दक्षिणं स्तनं प्रतिधाप्योत्तराभ्यां पृथिवीमभिमृश्योत्तरेण यजुषा संविष्टम्
॥५॥ IAST
Devanāgarīउत्तरेण यजुषा शिरस्य उदकुम्भं निधाय सर्षपान्फलीकरणमिश्रानञ्जलिनोत्तरैस्त्रिस्त्रिप्रतिस्वाहाकारं हुत्वा संशास्ति प्रविष्टे प्रविष्ट एव तूष्णीमग्नावावपतेति
॥६॥ IAST
Devanāgarīएवमहरहरानिर्दशतायाः
॥७॥ IAST
Devanāgarīदशम्यामुत्थितायां स्नातायां पुत्रस्य नाम दधाति पिता मातेति
॥८॥ IAST
Devanāgarīद्व्यक्षरं चतुरक्षरं वा नामपूर्वमाख्यातोत्तरं दीर्घाभिनिष्ठानान्तं घोषवदाद्यन्तरन्तस्थम्
॥९॥ IAST
Devanāgarīअपि वा यस्मिन्स्वित्युपसर्गस्स्यात् तद्धि प्रतिष्ठितमिति हि ब्राह्मणम्
॥१०॥ IAST
Devanāgarīअयुजाक्षरं कुमार्याः
॥११॥ IAST
Devanāgarīप्रवासादेत्य पुत्रस्योत्तराभ्यामभिमन्त्रणं मूर्धन्यवघ्राणं दक्षिणे कर्ण उत्तरान्मन्त्रान् जपेत्
॥१२॥ IAST
Devanāgarīकुमारीमुत्तरेण यजुषाऽभिमन्त्रयते
॥१३॥ IAST
षोडशः खण्डः
Devanāgarīजन्मनोऽधि षष्ठे मासि ब्राह्मणान्भोजयित्वाशिषो वाचयित्वा दधि मधु घृतमोदनमिति संसृज्योत्तरैर्मन्त्रैः कुमारं प्राशयेत्
॥१॥ IAST
Devanāgarīतैत्तिरेण माँसेनेत्येके
॥२॥ IAST
Devanāgarīजन्मनोऽधि तृतीये वर्षे चौलं पुनर्वस्वोः
॥३॥ IAST
Devanāgarīब्राह्मणानां भोजनमुपायनवत्
॥४॥ IAST
Devanāgarīसीमन्तवदग्नेरुपसमाधानादि
॥५॥ IAST
Devanāgarīअपरेणाग्निं प्राञ्चमुपवेश्य त्रेण्या शलल्या त्रिभिर्दर्भपुञ्जीलैः शलालुग्लप्सेनेति तूष्णीं केशान्विनीय यथर्षि शिखा निदधाति
॥६॥ IAST
Devanāgarīयथा वैषां कुलधर्मः स्यात्
॥७॥ IAST
Devanāgarīअपाँ संसर्जनाद्याकेशनिधानात्समानम्
॥८॥ IAST
Devanāgarīक्षुरँ प्रक्षाल्य निदधाति
॥९॥ IAST
Devanāgarīतेन त्र्यहं कर्मनिवृत्तिः
॥१०॥ IAST
IAST
Devanāgarīएवं गोदानमन्यस्मिन्नपि नक्षत्रे षोडशे वर्षे
॥१२॥ IAST
Devanāgarīअग्निगोदानो वा स्यात्
॥१३॥ IAST
Devanāgarīसंवत्सरं गोदानव्रतमेक उपदिशन्ति
॥१४॥ IAST
Devanāgarīएतावन्नाना सर्वान् केशान्वापयते
॥१५॥ IAST
Devanāgarīउदकोपस्पर्शनमिति छन्दोगाः
॥१६॥ IAST