मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

तृतीयः पटलः

3
आपस्तम्बगृह्यसूत्रम् · 3

सप्तमः खण्डः

अथैनामाग्नेयेन स्थालीपाकेन याजयति

॥१॥

पत्न्यवहन्ति

॥२॥

श्रपयित्वाभिघार्य प्राचीनमुदीचीनं वोद्वास्य प्रतिष्ठितमभिघार्याग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायाँ स्थालीपाकाज्जुहोति

॥३॥

सकृदुपस्तरणाभिघारणे द्विरवदानम्

॥४॥

अग्निर्देवता स्वाहाकारप्रदानः

॥५॥

अपि वा सकृदुपहत्य जुहुयात्

॥६॥

अग्निस्स्विष्टकृत् द्वितीयः

॥७॥

सकृदुपस्तरणावदाने द्विरभिघारणम्

॥८॥

मध्यात्पूर्वस्यावदानम्

॥९॥

मध्ये होमः

॥१०॥

उत्तरार्धादुत्तरस्य

॥११॥

उत्तरार्धपूर्वार्धे होमः

॥१२॥

लेपयोः प्रस्तरवत्तूष्णीं बर्हिरङ्त्त्वाग्नौ प्रहरति

॥१३॥

सिद्धमुत्तरं परिषेचनम्

॥१४॥

तेन सर्पिष्मता ब्राह्मणं भोजयेत्

॥१५॥

योऽस्यापचितस्तस्मा ऋषभं ददाति

॥१६॥

एवमत ऊर्ध्वं दक्षिणावर्जमुपोषिताभ्यां पर्वसु कार्यः

॥१७॥

पूर्णपात्रस्तु दक्षिणेत्येके

॥१८॥

सायं प्रातरत ऊर्ध्वं हस्तेनैते आहुती तण्डुलैर्यवैर्वा जुहुयात्

॥१९॥

स्थालीपाकवद्दैवतम्

॥२०॥

सौरी पूर्वाहुतिः प्रातरित्येके

॥२१॥

उभयतः परिषेचनं यथा पुरस्तात्

॥२२॥

पार्वणेनातोऽन्यानि कर्माणि व्याख्यातान्याचाराद्यानि गृह्यन्ते

॥२३॥

यथोपदेशं देवताः

॥२४॥

अग्निं स्विष्टकृतं चान्तरेण

॥२५॥

अविकृतमातिथ्यम्

॥२६॥

वैश्वदेवे विश्वे देवाः

॥२७॥

पौर्णमास्यां पौर्णमासी यस्यां क्रियते

॥२८॥

अष्टमः खण्डः

उपाकरणे समापने च ऋषिर्यः प्रज्ञायते

॥१॥

सदसस्पतिर्द्वितीयः

॥२॥

स्त्रियाऽनुपेतेन क्षारलवणावरान्नसंसृष्टस्य च होमं परिचक्षते

॥३॥

यथोपदेशं काम्यानि बलयश्च

॥४॥

सर्वत्र स्वयं प्रज्वलितेऽग्नावुत्तराभ्यां सभिधावादध्यात्

॥५॥

आपन्माश्रीः श्रीर्मागादिति वा

॥६॥

एतदहर्विजानीयाद्यदहर्भार्यामावहते

॥७॥

त्रिरात्रमुभयोरधश्शय्या ब्रह्मचर्यं क्षारलवणवर्जनं च

॥८॥

तयोर्श्शय्यामन्तरेण दण्डो गन्धलिप्तो वाससा सूत्रेण वा परिवीतस्तिष्ठति

॥९॥

तं चतुर्थ्याऽपररात्र उत्तराभ्यामुत्थाप्य प्रक्षाल्य निधायाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायामुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वाऽपरेणाग्निं प्राचीमुपवेश्य तस्याश्शिरस्याज्यशेषाद्व्याहृतिभिरोङ्कारचतुर्थाभिरानीयोत्तराभ्यां यथालिङ्गं मिथस्समीक्ष्योत्तरयाज्यशेषेण हृदयदेशौ संमृज्योत्तरास्तिस्रो जपित्वा शेषं समावेशने जपेत्

॥१०॥

अन्यो वैनामभिमन्त्रयेत

॥११॥

यदा मलवद्वासाः स्यादथैनां ब्राह्मणप्रतिषिद्धानि कर्माणि सँशास्ति यां मलवद्वासस मित्येतानि

॥१२॥

रजसः प्रादुर्भावात्स्नातामृतुसमावेशने उत्तराभिरभिमन्त्रयेत

॥१३॥

नवमः खण्डः

चतुर्थीप्रभृत्याषोडशीमुत्तरामुत्तरां युग्मां प्रजानिःश्रेयसमृतुगमन इत्युपदिशन्ति

॥१॥

अर्थप्राध्वस्य परिक्षवे परिकासने चाप उस्पृश्योत्तरे यथालिङ्गं जपेत्

॥२॥

एवमुत्तरैर्यथालिङ्गं चित्रियं वनस्पतिं शकृद्रीति सिग्वातं शकुनिमिति

॥३॥

उभयोर्हृदयसंसर्गेऽप्सुस्त्रिरात्रावरं ब्रह्मचर्यं चरित्वा स्थालीपाकं श्रपयित्वाग्नेरुपसमाधानाद्याज्यभागान्तेऽन्वारब्धायाँ स्थालीपाकादुत्तरा आहुतीर्हुत्वा जयादि प्रतिपद्यते परिषेचनान्तं कृत्वा तेन सर्पिष्मता युग्मान्द्व्यवरान् ब्राह्मणान्भोजयित्वा सिद्धिं वाचयीत

॥४॥

श्वस्तिष्येणेति त्रिस्सप्तैर्यवैः पाठां परिकिरति यदि वारुण्यसि वरुणात्त्वा निष्क्रीणामि यदि सौम्यसि सोमात्त्वा निष्क्रीणामि इति

॥५॥

श्वोभूते उत्तरयोत्थाप्योत्तराभिस्तिसृभिरभिमन्त्र्योत्तरया प्रतिच्छन्नां हस्तयोराबध्य शय्याकाले बाहुभ्यां भर्तारं परिगृह्णीयादुपधानलिङ्गया

॥६॥

वश्यो भवति

॥७॥

सपत्नीबाधनञ्च

॥८॥

एतेनैव कामेनोत्तरेणानुवाकेन सदादित्यमुपतिष्ठते

॥९॥

यक्ष्मगृहीतामन्यां वा ब्रह्मचर्ययुक्तः पुष्करसंवर्तमूलैरुत्तरैर्यथालिङ्गमङ्गानि संमृश्य प्रतीचीनं निरस्येत्

॥१०॥

वधूवास उत्तराभिरेतद्विदे दद्यात्

॥११॥