तिलोदर्काप्रभाववर्णनम्
व्यास उवाच
भगवन्ब्रूहि तत्त्वेन कथं निर्बंधतो मुनिः ॥
विश्वामित्रो निजं शिष्यं कौत्सं क्रोधेन तादृशम्
॥१॥दुष्प्राप्यमर्थं यत्नेन बहु प्रार्थितवांस्तदा ॥
एतत्सर्वं च कथय मयि यद्यस्ति ते कृपा
॥२॥अगस्त्य उवाच
शृणु द्विज कथामेतां सावधानेंद्रियः स्वयम् ॥
विश्वामित्रो मुनिश्रेष्ठः स दिव्यज्ञानलोचनः
॥३॥निजाश्रमे तपो दुर्गं चकार प्रयतो व्रती ॥
एकदा तमथो द्रष्टुं दुर्वासा मुनिरागतः
॥४॥आगत्य च क्षुधाक्रांत उच्चैः प्रोवाच स द्विजः ॥
भोजनं दीयतां मह्यं क्षुधापीडितचेतसे ॥
पायसं शुचि चोष्णं च शीघ्रं क्षुधार्त्तिने द्विज
॥५॥इति श्रुत्वा वचः क्षिप्रं विश्वामित्रः प्रयत्नतः ॥
स्थाल्यां पायसमादाय तं समर्प्य ततः स्वयम्
॥६॥तदादायोत्थितं दृष्ट्वा दुर्वासास्तं विलोकयन् ॥
उवाच मधुरं वाक्यं मुनिं लक्षणतत्परः
॥७॥क्षणं सहस्व विप्रेन्द्र यावत्स्नात्वा व्रजाम्यहम् ॥
तिष्ठतिष्ठ क्षणं तिष्ठ आगच्छाम्येष साप्रतम्
॥८॥इत्युक्त्वा स जगामैव दुर्वासाः स्वाश्रमं तदा
॥९॥विश्वामित्रस्तपोनिष्ठस्तदा सानुरिवाऽचलः ॥
दिव्यं वर्षसहस्रं स तस्थौ स्थिरमतिस्तदा
॥१०॥तस्य शुश्रूषणपरो मुनिः कौत्सो यतव्रतः ॥
बभूव परमोदारमतिर्विगतमत्सरः
॥११॥पुनरागत्य स मुनिर्दुर्वासा गतकल्मषः ॥
भुक्त्वा च पायसं सद्यः स जगाम निजाश्रमम्
॥१२॥तस्मिन्गते मुनिवरे विश्वामित्रस्तपोनिधिः ॥
कौत्सं विद्यावतां श्रेष्ठं विससर्ज गृहान्प्रति
॥१३॥स विसृष्टो गुरुं प्राह दक्षिणा प्रार्थ्यतामिति ॥
विश्वामित्रस्तु तं प्राह किं दास्यसि दक्षिणाम् ॥
दक्षिणा तव शुश्रूषा गृहं व्रज यतव्रत
॥१४॥पुनःपुनर्गुरुं प्राह शिष्यो निर्बन्धवान्यदा ॥
तदा गुरुर्गुरुक्रुद्धः शिष्यं प्राह च निष्ठुरम्
॥१५॥सुवर्णस्य सुवर्णस्य चतुर्दश समाहर ॥
कोटीर्मे दक्षिणा विप्र पश्चाद्गच्छ गृहं प्रति
॥१६॥इत्युक्तो गुरुणा कौत्सो विचार्य समुपागमत् ॥
काकुत्स्थं दिग्विजेतारं ययाचे गुरुदक्षिणाम्
॥१७॥इत्युक्तं ते मुनिवर त्वया पृष्टं हि यत्पुनः ॥
अतोऽन्यच्छृणु ते वच्मि तीर्थकारणमुत्तमम्
॥१८॥तस्माद्दक्षिणदिग्भागे संभेदः सिद्धसेवितः ॥
तिलोदकीसरय्वोश्च संगत्या भुवि संश्रुतः
॥१९॥तत्र स्नात्वा महाभाग भवन्ति विरजा नराः ॥
दशानामश्वमेधानां कृतानां यत्फलं भवेत् ॥
तदाप्नोति स धर्मात्मा तत्र स्नात्वा यतव्रतः
॥२०॥स्वर्णादिकं च यो दद्याद्ब्राह्मणे वेदपारगे ॥
शुभां गतिमवाप्नोति अग्निवच्चैव दीप्यते
॥२१॥तिलोदकीसरय्वोश्च संगमे लोकविश्रुते ॥
दत्त्वान्नं च विधानेन न स भूयोऽभिजायते
॥२२॥उपवासं च यः कृत्वा विप्रान्संतर्पयेन्नरः ॥
सौत्रामणेश्च यज्ञस्य फलमाप्नोति मानवः
॥२३॥एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥
यावज्जीवकृतं पापं सहसा तस्य नश्यति
॥२४॥नभस्य कृष्णामावस्यां यात्रा सांवत्सरी भवेत् ॥
रामेण निर्मिता पूर्वं नदी सिंधुरिवापरा
॥२५॥सिंधुजानां तुरंगाणां जलपानाय सुव्रत ॥
तिलवच्छ्याममुदकं यतस्तस्यां सदा बभौ
॥२६॥तिलोदकीति विख्याता पुण्यतोया सदा नदी ॥
संगमादन्यतो यस्यां तिलोदक्यां शुचिव्रतः ॥
स्नातो विमुच्यते पापैः सप्तजन्मार्जितैरपि
॥२७॥तस्मात्तिलोदकीस्नानं सर्वपापहरं मुने ॥
कर्त्तव्यं सुप्रयत्नेन प्राणिभिर्धर्मकांक्षिभिः ॥
स्नानं दानं व्रतं होमं सर्वमक्षयतां व्रजेत्
॥२८॥इति विविधविधानैस्तीर्थयात्रांक्रमेण प्रथितगुणविकासः प्राप्तपुण्योविधाय ॥
हरिमुपहृतभावः पूजयन्सर्वतीर्थं व्रजति परमधाम न्यस्तपापः कथञ्चित्
॥२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोयामाहात्म्ये तिलोदर्काप्रभाववर्णनंनाम पञ्चमोऽध्यायः ॥ ५ ॥