मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अयोध्यामाहात्म्यम्, अध्याय ४

3
वैष्णवखण्डः · अयोध्यामाहात्म्यम् · 4

धर्महरिस्वर्णखनिमाहात्म्यवर्णनम्

अगस्त्य उवाच

तस्माच्चंद्रहरिस्थानादाग्नेय्यां दिशि संस्थितः ॥

देवो धर्महरिर्न्नाम कलिकल्मषनाशकः

॥१॥

वेदवेदाङ्गतत्त्वज्ञः स्वकर्मपरिनिष्ठितः ॥

पुरा समागतो धर्मस्तीर्थयात्राचिकीर्षया

॥२॥

आगत्य च चकारोच्चैर्यात्रां तत्रादरेण सः ॥

दृष्ट्वा माहात्म्यमतुलमयोध्यायाः सविस्मयः

॥३॥

विधाय स्वभुजावूर्ध्वौ विप्रोऽवोचन्मुदान्वितः ॥

अहो रम्यमिदं तीर्थमहो माहात्म्यमुत्तमम्

॥४॥

अयोध्यासदृशी कापि दृश्यते नापरा पुरी ॥

या न स्पृशति वसुधां विष्णुचक्रस्थिताऽनिशम्

॥५॥

यस्यां स्थितो हरिः साक्षात्सेयं केनोपमीयते ॥

अहो तीर्थानि सर्वाणि विष्णुलोकप्रदानि वै

॥६॥

अहो विष्णुरहो तीर्थमयोध्याऽहो महापुरी ॥

अहो माहात्म्यमतुलं किं न श्लाघ्यमिहास्थितम्

॥७॥

इत्युक्त्वा तत्र बहुशो ननर्त प्रमदाकुलः ॥

धर्मो माहात्म्यमालोक्य अयोध्याया विशेषतः

॥८॥

तं तथा नर्तमानं वै धर्मं दृष्ट्वा कृपान्वितः ॥

आविर्बभूव भगवान्पीतवासा हरिः स्वयम् ॥

तं प्रणम्य च धर्मोऽथ तुष्टाव हरिमादरात्

॥९॥

धर्म उवाच

नमः क्षीराब्धिवासाय नमः पर्यंकशायिने ॥

नमः शंकरसंस्पृष्टदिव्यपादाय विष्णवे

॥१०॥

भक्त्यार्च्चितसुपादाय नमोऽजादिप्रियाय ते ॥

शुभांगाय सुनेत्राय माधवाय नमो नमः

॥११॥

नमोऽरविन्दपादाय पद्मनाभाय वै नमः ॥

नमः क्षीराब्धिकल्लोलस्पृष्टगात्राय शार्ङ्गिणे

॥१२॥

ॐ नमो योगनिद्राय योगर्क्षैर्भावितात्मने ॥

तार्क्ष्यासनाय देवाय गोविन्दाय नमोनमः

॥१३॥

सुकेशाय सुनासाय सुललाटाय चक्रिणे ॥

सुवस्त्राय सुवर्णाय श्रीधराय नमोनमः

॥१४॥

सुबाहवे नमस्तुभ्यं चारुजंघाय ते नमः ॥

सुवासाय सुदिव्याय सुविद्याय गदाभृते

॥१५॥

केशवाय च शांताय वामनाय नमोनमः ॥

धर्मप्रियाय देवाय नमस्ते पीतवाससे

॥१६॥

अगस्त्य उवाच

इति स्तुतो जगन्नाथो धर्मेण श्रीपतिर्मुदा ॥

उवाच स हृषीकेशः प्रीतो धर्ममुदारधीः

॥१७॥

श्रीभगवानुवाच

तुष्टोऽहं भवतो धर्म स्तोत्रेणानेन सुव्रत ॥

वरं वरय धर्मज्ञ यस्ते स्यान्मनसः प्रियः

॥१८॥

स्तोत्रेणानेन यः स्तौति मानवो मामतन्द्रितः ॥

सर्वान्कामानवाप्नोति पूजितः श्रीयुतःसदा

॥१९॥

धर्म उवाच

यदि तुष्टोसि भगवन्देवदेव जगत्पते ॥

त्वामहं स्थापयाम्यत्र निजनाम्ना जगद्गुरो

॥२०॥

अगस्त्य उवाच

एवमस्त्विति संप्रोच्याभवद्धर्महरिर्विभुः ॥

स्मरणादेव मुच्येत नरो धर्महरेर्विभोः

॥२१॥

सरयूसलिले स्नात्वा सुचिंताकुलमानसः ॥

देवं धर्महरिं पश्येत्सर्वपापैः प्रमुच्यते

॥२२॥

अत्र दानं तथा होमं जपो ब्राह्मणभोजनम् ॥

सर्वमक्षयतां याति विष्णुलोके निवासकृत्

॥२३॥

अज्ञानाज्ज्ञानतो वापि यत्किंचिद्दुष्कृतं भवेत् ॥

प्रायश्चित्तं विधातव्यं तन्नाशाय प्रयत्नतः

॥२४॥

प्रायश्चित्तेन विधिना पापं तस्य प्रणश्यति ॥

तस्मादत्र प्रकर्त्तव्यं प्रायश्चित्तं विधानतः

॥२५॥

अज्ञानाज्ज्ञानतो वापि राजादेर्निग्रहात्तथा ॥

नित्यकर्मनिवृत्तिः स्याद्यस्य पुंसोऽवशात्मनः ॥

तेनाप्यत्र विधातव्यं प्रायश्चित्तं प्रयत्नतः

॥२६॥

अत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः ॥

तस्माद्वर्णयितुं शक्यो महिमा न हि मानवैः

॥२७॥

आषाढे शुक्ल पक्षस्य एकादश्यां द्विजोत्तम ॥

तस्य सांवत्सरी यात्रा कर्तव्या तु विधानतः

॥२८॥

स्वर्गद्वारे नरः स्नात्वा दृष्ट्वा धर्महरिं विभुम् ॥

सर्वपापविशुद्धात्मा विष्णुलोके वसेत्सदा

॥२९॥

तस्माद्दक्षिणदिग्भागे स्वर्णस्य खनिरुत्तमा ॥

यत्र चक्रे स्वर्णवृष्टिं कुबेरो रघुजाद्भयात्

॥३०॥

व्यास उवाच

भगवन्ब्रूहि तत्त्वज्ञ स्वर्णवृष्टिरभूत्कथम् ॥

कुबेरस्य कथं भीतिरुत्पन्ना रघुभूपतेः

॥३१॥

एतत्सर्वं समाचक्ष्व विस्तरान्मम सुव्रत ॥

श्रुत्वा कथारहस्यानि न तृप्यति मनो मम

॥३२॥

अगस्त्य उवाच

शृणु विप्र प्रवक्ष्यामि स्वर्णस्योत्पत्तिमुत्तमाम् ॥

यस्य श्रवणतो नृणां जायते विस्मयो महान्

॥३३॥

आसीत्पुरा रघुपतिरिक्ष्वाकुकुलवर्द्धनः ॥

रघुर्निजभुजोदारवीर्यशासितभूतलः

॥३४॥

प्रतापतापितारातिवर्गव्याख्यातसद्यशाः ॥

प्रजाः पालयता सम्यक्तेननीतिमता सता

॥३५॥

यशःपूरेण समलिप्ता दिशो दश सितत्विषा ॥

स चक्रे प्रौढविभवसाधनां विजयक्रमात्

॥३६॥

नानादेशान्समाक्रम्य चतुरंगबलान्वितः ॥

भूतानि वशमानीय वसु जग्राह दण्डतः

॥३७॥

उत्कृष्टान्नृपतीन्वीरो दंडयित्वा बलाधिकान् ॥

रत्नानि विविधान्याशु जग्राहातिबलस्तदा

॥३८॥

स विजित्य दिशः सर्वा गृहीत्वा रत्नसंचयम् ॥

अयोध्यामागतो राजा राजधानीं च तां शुभाम्

॥३९॥

तत्रागत्य च काकुत्स्थो यज्ञायोत्सुकमानसः ॥

चकार निर्मलां बुद्धिं निजवंशोचितक्रियाम

॥४०॥

वसिष्ठं मुनिमाज्ञाय वामदेवं च कश्यपम्

॥४१॥

अन्यानपि मुनिश्रेष्ठान्नानातीर्थसमाश्रितान् ॥

समानयद्विनीतेन द्विजवर्येण भूपतिः

॥४२॥

दृष्ट्वा स्थितान्स तान्सर्वान्प्रदीप्तानिव पावकान् ॥

तानागतान्विदित्वाथ रघुः परपुरंजयः ॥

निश्चक्राम यथान्यायं स्वयमेव महायशाः

॥४३॥

ततो विनीतवत्सर्वान्काकुत्स्थो द्विजसत्तमान् ॥

उवाच धर्मयुक्तं च वचनं यज्ञसिद्धये

॥४४॥

रविरुवाच

मुनयः सर्व एवैते यूयं शृणुत मद्वचः ॥

यज्ञं विधातुमिच्छामि तत्राज्ञां दातुमर्हथ

॥४५॥

सांप्रतं मामको यज्ञो युक्तः स्यान्मुनिसत्तमाः ॥

एतद्विचार्य्य तत्त्वेन ब्रूत यूयं मुनीश्वराः

॥४६॥

मुनय ऊचुः

राजन्विश्वजिदाख्यातो यज्ञानां यज्ञ उत्तमः ॥

सांप्रतं कुरु तं यत्नान्मा विलंबं वृथा कृथाः

॥४७॥

अगस्त्य उवाच

नृपश्चक्रे ततो यज्ञं विश्वदिग्जयसंज्ञितम् ॥

नानासंभारमधुरं कृतसर्वस्वदक्षिणम्

॥४८॥

नानाविधेन दानेन मुनिसंतोषहर्षकृत् ॥

सर्वस्वमेव प्रददौ द्विजेभ्यो बहुमानतः

॥४९॥

तेषु विश्वेषु यातेषु पूजितेषु गृहान्स्वकान् ॥

बन्धुष्वपि च तुष्टेषु मुनिषु प्रणतेषु च

॥५०॥

तेन यज्ञेन विधिवद्विहितेन नरेश्वरः ॥

शुशुभे शोभनाचारः स्वर्गे देवेंद्रवत्क्षणात्

॥५१॥

तत्रांतरे समभ्यायान्मुनिर्यमवतां वरः ॥

विश्वामित्रमुनेरंतेवासी कौत्स इति स्मृतः

॥५२॥

दक्षिणार्थं गुरोर्द्धीमान्पावितुं तं नरेश्वरम् ॥

चतुर्दशसुवर्णानां कोटीराहर सत्वरम्

॥५३॥

मद्दक्षिणेति गुरुणा निर्बन्धाद्याचितो रुषा ॥

आगतः स मुनिः कौत्सस्ततो याचितुमादरात् ॥

रघुं भूपालतिलकं दत्तसर्वस्वदक्षिणम्

॥५४॥

तमागतमभिप्रेत्य रघुरादरतस्तदा ॥

उत्थाय पूजयामास विधिवत्स परंतपः ॥

सपर्य्यासीत्तस्य सर्वा मृत्पात्रविहितक्रिया

॥५५॥

पूजासंभारमालोक्य तादृशं तं मुनीश्वरः ॥

विस्मितोऽभून्निरानन्दो दक्षिणाऽऽशां परित्यजन् ॥

उवाच मधुरं वाक्यं वाक्यज्ञानविशारदः

॥५६॥

कौत्स उवाच

राजन्नभ्युदयस्तेऽस्तु गच्छाम्यन्यत्र सांप्रतम्

॥५७॥

गुर्वर्थाहरणायैव दत्तसर्वस्वदक्षिणम् ॥

त्वां न याचे धनाभावादतोऽन्यत्र व्रजाम्यहम्

॥५८॥

अगस्त्य उवाच

इत्युक्तस्तेन मुनिना रघुः परपुरंजयः ॥

क्षणं ध्यात्वाऽब्रवीदेनं विनयाद्विहितांजलिः

॥५९॥

रघुरुवाच

भगवंस्तिष्ठ मे हर्म्ये दिनमेकं मुनिव्रत ॥

यावद्यतिष्ये भगवन्भवदर्थार्थमुच्चकैः

॥६०॥

अगस्त्य उवाच

इत्युक्त्वा परमोदारवचो मुनिमुदारधीः ॥

प्रतस्थे च रघुस्तत्र कुबेरविजिगीषया

॥६१॥

तमायांतं कुबेरोऽथ विज्ञाप्य वचनोदितैः ॥

प्रसन्नमनसं चक्रे वृष्टिं स्वर्णस्य चाक्षयाम्

॥६२॥

स्वर्णवृष्टिरभूद्यत्र सा स्वर्णखनिरुत्तमा ॥

स मुनिं दर्शयामास खनिं तेन निवेदिताम्

॥६३॥

तस्मै समर्पयामास तां रघुः खनिमुत्तमाम् ॥

मुनीन्द्रोऽपि गृहीत्वाशु ततो गुर्वर्थमादरात्

॥६४॥

राज्ञे निवेदयामास सर्वमन्यद्गुणाधिकः ॥

वरानथ ददौ तुष्टः कौत्सो मतिमतां वरः

॥६५॥

कौत्स उवाच

राजँल्लभस्व सत्पुत्रं निजवंशगुणान्वितम् ॥

इयं स्वर्णखनिस्तूर्णं मनोभीष्टफलप्रदा

॥६६॥

भूयादत्र परं तीर्थं सर्वपापहरं सदा ॥

अत्र स्नानेन दानेन नृणां लक्ष्मीः प्रजायते

॥६७॥

वैशाखे शुक्लद्वादश्यां यात्रा सांवत्सरी स्मृता ॥

नानाभीष्टफलप्राप्तिर्भूयान्मद्वचसा नृणाम्

॥६८॥

अगस्त्य उवाच

इति दत्त्वा वरान्राज्ञे कौत्सः संतुष्टमानसः ॥

प्रतस्थे निजकार्यार्थे गुरोराश्रममुत्सुकः

॥६९॥

राजा स कृतकृत्योऽथ शेषं संगृह्य तद्धनम् ॥

द्विजेभ्यो विधिवद्दत्त्वा पालयामास वै प्रजाः

॥७०॥

एवं स्वर्णखनेर्जातं माहात्म्यं च मुनीश्वरात्

॥७१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये धर्महरिस्वर्णखनिमाहात्म्यवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥