मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अयोध्यामाहात्म्यम्, अध्याय ६

3
वैष्णवखण्डः · अयोध्यामाहात्म्यम् · 6

स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनम्

अगस्त्य उवाच

तस्मात्संगमतो विप्र पश्चिमे दिक्तटे स्थितम् ॥

सीताकुण्डमितिख्यातं सर्वकामफलप्रदम्

॥१॥

यत्र स्नात्वा नरो विप्र सर्वपापैः प्रमुच्यते ॥

सीतया किल तत्कुण्डं स्वयमेव विनिर्मितम् ॥

रामेण वरदानाच्च महाफलनिधीकृतम्

॥२॥

श्रीराम उवाच

शृणु सीते प्रवक्ष्यामि माहात्म्यं भुवि यादृशम् ॥

त्वत्कुण्डस्यास्य सुभगे त्वत्प्रीत्या कथयाम्यहम्

॥३॥

अत्र स्नानं च दानं च जपो होमस्तपोऽथवा ॥

सर्वमक्षयतां याति विधानेन शुचिस्मिते

॥४॥

मार्गकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥

सर्वपापहरं देवि सर्वदा स्नायिनां नृणाम्

॥५॥

इति रामो वरं प्रादात्सीतायै च प्रजाप्रियः ॥

तदाप्रभृति सर्वत्र तत्तीर्थं भुवि वर्त्तते

॥६॥

सीताकुण्डमिति ख्यातं जनानां परमाद्भुतम् ॥

तस्मिंस्तीर्थे नरः स्नात्वा नूनं राममवाप्नुयात्

॥७॥

तत्र स्नानेन दानेन तपसा च विशेषतः ॥

गन्धैर्माल्यैर्धूपदीपैर्न्नानाविभवविस्तरैः ॥

रामं संपूज्य सीतां च मुक्तः स्यान्नात्र संशयः

॥८॥

मार्गे मासि च स्नातव्यं गर्भवासो न जायते ॥

अन्यदापि नरः स्नात्वा विष्णुलोकं स गच्छति

॥९॥

विभोर्विष्णुहरेर्विप्र रम्ये पश्चिमदिक्तटे ॥

देवश्चक्रहरिर्नाम सर्वाभीष्टफलप्रदः

॥१०॥

तस्य चक्रहरेर्विप्र महिमा न हि मानवैः ॥

शक्यो वर्णयितुं धीरैरपि बुद्धिमतां वरैः

॥११॥

ततः पश्चिमदिग्भागे नाम्ना पुण्यं हरिस्मृति ॥

विष्णोरायतनं ख्यातं परमार्थफलप्रदम् ॥

यस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते

॥१२॥

तयोर्दर्शनतो यांति तेषां पापानि देहिनाम् ॥

तानि पापानि यावंति कुर्वते भुवि ये नराः

॥१३॥

पुरा देवासुरे जाते संग्रामे भृशदारुणे ॥

दैत्यैर्वरमदोत्सिक्तैर्देवा युधि पराजिताः

॥१४॥

तेषां पलायमानानां देवानामग्रणीर्हरः ॥

संस्तभ्य चैव तान्सर्वान्पुरस्कृत्यांबुजासनम्

॥१५॥

क्षीरोदशायिनं विष्णुं शेषपर्य्यंकशायिनम् ॥

लक्ष्म्योपविष्टं पार्श्वे च चरणांबुजहस्तया

॥१६॥

नारदाद्यैर्मुनिवरैरुद्गीतगुगौरवम् ॥

गरुडेन पुरःस्थेनानिशमंजलिना स्तुतम्

॥१७॥

क्षीराब्धिजलकल्लोलमदबिन्द्वंकिताम्बरम् ॥

तारकोत्करविस्फारतारहारविराजितम्

॥१८॥

पीतांबरमतिस्मेरविकाशद्भावभावितम् ॥

बिभ्रतं कुण्डलं स्थूलं कर्णाभ्यां मौक्तिकोज्ज्वलम्

॥१९॥

रत्नवल्लीमिव स्वच्छां श्वेतद्वीपनिवासिनीम् ॥

किरीटं पद्मरागाणां वलयं दधतं परम्

॥२०॥

मित्रस्य राहुवित्रासनिवर्त्तनमिवापरम् ॥

सकौस्तुभप्रभाचक्रं बिभ्राणं प्रवलारुणम्

॥२१॥

परां चतुर्मुखोत्पत्तिकल्पसंकल्पनामिव ॥

शरणं स जगामाशु विनीतात्मा स्तुवन्निति

॥२२॥

तस्मिन्नवसरे शंभुः सर्वदेवगणैः सह ॥

तुष्टाव प्रयतो भूत्वा विष्णुं जिष्णुं सुरद्विषाम्

॥२३॥

ईश्वर उवाच

संसारार्णवसंतारसुपर्णसुखदायिने ॥

मोह तीव्रतमो हारि चन्द्राय हरये नमः

॥२४॥

स्फुरत्संविन्मणिशिखां चित्तसंगतिचंद्रिकाम् ॥

प्रपद्ये भगवद्भक्तिमानसोद्यानवाहिनीम्

॥२५॥

हेलोल्लसत्समुत्साहशक्तिं व्याप्तजगत्त्रयाम् ॥

या पूर्वकोटिर्भावानां सत्त्वानां वैष्णवीति वा

॥२६॥

पवनांदोलितांभोजदलपर्वांतवर्त्तिनाम् ॥

पततामिव जन्तूनां स्थैर्यमेका हरिस्मृतिः

॥२७॥

नमः सूर्य्यात्मने तुभ्यं संवित्किरणमालिने ॥

हृत्कुशेशयकोषश्रीसमुन्मेषविधायिने

॥२८॥

नमस्तस्मै यमवते योगिनां गतये सदा ॥

परमेशाय वै पारे महसां तमसां तथा

॥२९॥

यज्ञाय भुक्तहविष ऋग्यजुःसामरूपिणे ॥

नमः सरस्वतीगीतदिव्यसद्गणशालिने

॥३०॥

शांताय धर्मनिधये क्षेत्रज्ञायामृतात्मने ॥

शिष्ययोगप्रतिष्ठाय नमो जीवैकहेतवे ॥

घोराय मायाविधये सहस्रशिरसे नमः

॥३१॥

योगनिद्रात्मने नाभिपद्मोद्भूतजगत्सृजे ॥

नमः सलिलरूपाय कारणाय जगत्स्थितेः

॥३२॥

कार्यमेयाय बलिने जीवाय परमात्मने ॥

गोप्त्रे प्राणाय भूतानां नमो विश्वाय वेधसे

॥३३॥

दृप्ताय सिंहवपुषे दैत्यसंहारकारिणे ॥

वीर्यायानंतमनसे जगद्भावभृते नमः

॥३४॥

संसारकारणाज्ञानमहासंतमसच्छिदे ॥

अचिन्त्यधाम्ने गुह्याय रुद्रायात्युद्विजे नमः

॥३५॥

शान्ताय शान्तकल्लोलकैवल्यपददायिने ॥

सर्वभावातिरिक्ताय नमः सर्वमयात्मने

॥३६॥

इन्दीवरदलश्यामं स्फूर्जत्किंजल्कविभ्रमम् ॥

बिभ्राणं कौस्तुभं विष्णुं नौमि नेत्ररसायनम्

॥३७॥

अगस्त्य उवाच

इति स्तुतः प्रसन्नात्मा वरदो गरुडध्वजः ॥

ववर्ष दृष्टिसुधया सर्वान्देवान्कृपान्वितः ॥

उवाच मधुरं वाक्यं प्रश्रयावनतान्सुरान्

॥३८॥

श्रीभगवानुवाच

जानामि विबुधाः सर्वमभिप्रायं समाधितः ॥

दैतेयैर्विक्रमाक्रान्तं पदं समरदर्पितैः

॥३९॥

सबलैर्बलहीनानां प्रतापो विजितः परैः ॥

सांप्रतं तु विधास्यामि तपो युष्मद्बलाय वै

॥४०॥

अयोध्यानगरे गत्वा करिष्ये तप उत्तमम् ॥

गुप्तो भूत्वा भवत्तेजोविवृद्ध्यै दैत्यशान्तये

॥४१॥

भवन्तोऽपि तपस्तीव्रं कुर्वंत्वमलमानसाः ॥

अयोध्यां प्राप्यतां देवा दैत्यनाशाय सत्वरम्

॥४२॥

अगस्त्य उवाच

इत्युक्त्वांतर्दधे देवान्देवो गरुडवाहनः ॥

अयोध्यामागतः क्षिप्रं चकार तप उत्तमम्

॥४३॥

गुप्तो भूत्वा यदा विद्वन्सुरतेजोभिवृद्धये ॥

तेन गुप्तहरिर्नाम देवो विख्यातिमागतः

॥४४॥

आगतस्य हरेः पूर्वं यत्र हस्ततलाच्च्युतम् ॥

सुदर्शनाख्यं तच्चक्रं तेन चक्रहरिः स्मृतः

॥४५॥

तयोर्दर्शनमात्रेण सर्वपापैः प्रमुच्यते ॥

हरस्तेन प्रभावेण देवाः प्रबलतेजसः

॥४६॥

जित्वा दैत्यान्रणैः सर्वान्संप्राप्य स्वपदान्यथ ॥

रेजिरे विपुलानंदैरसुरानार्दयंस्ततः

॥४७॥

ततः सर्वे समेत्याशु बृहस्पतिपुरस्सराः ॥

देवाः सर्वेऽनमन्मौलिमालार्च्चित पदाम्बुजम् ॥

हरिं द्रष्टुमथागच्छन्नयोध्यायां समुत्सुकाः

॥४८॥

आगत्य च ततः श्रुत्वा नानाविधगुणादरम् ॥

भावैः पुण्यैः समभ्यर्च्य नत्वा प्रांजलयस्तदा ॥

हरिमेकाग्रमनसा ध्यायन्तो ध्याननिष्ठिताः

॥४९॥

तानागतान्समालोक्य पदभक्त्या कृतानतीन् ॥

प्रसन्नः प्राह विश्वात्मा पीतवासा जनार्दनः

॥५०॥

श्रीभगवानुवाच

भोभो देवा भवन्तश्च चिराद्दिष्टयाद्यसंगताः ॥

अधुना भवतामिच्छां कां करोमि सुरा अहम् ॥

तद्ब्रूत त्वरिता मह्यं किं विलंबेन निर्भयाः

॥५१॥

देवा ऊचुः

भगवन्देवदेवेश त्वया संप्रति सर्वशः ॥

सर्वं समभवत्कार्यं निष्पन्नं वै जगत्पते

॥५२॥

तथापि सर्वदा भाव्यं नित्यं देव त्वया विभो ॥

अस्मद्रक्षार्थमत्रैव विजितेन्द्रियवर्त्मना

॥५३॥

एवमेव सदा कार्यं शत्रुपक्षविनाशनम्

॥५४॥

श्रीभगवानुवाच

एवमेतत्करिष्यामि भवतामरिसंजयम् ॥

श्रीमतां तेजसो वृद्धिं करिष्यामि सदासुराः ॥

कथेयं च सदा ख्यातिं लोके यास्यति चोत्तमाम्

॥५५॥

अयं नाम्ना गुप्तहरिर्देवो भुवनविश्रुतः ॥

मदीयं परमं गुह्यं स्थानं ख्यातिं समेष्यति

॥५६॥

अत्र यः प्राणिनां श्रेष्ठः पूजायज्ञजपादिकम् ॥

करोति परया भक्त्या स याति परमां गतिम्

॥५७॥

अत्र यः कुरुते दानं यथाशक्त्या जितेन्द्रियः ॥

स स्वर्गमतुलं प्राप्य न शोचति कदाचन

॥५८॥

अत्र मत्प्रीतये देवाः प्राणिभिर्धर्मकांक्षिभिः ॥

दातव्या गौः प्रयत्नेन सवत्सा विधिपूर्वकम्

॥५९॥

स्वर्णशृंगी रौप्यखुरी वस्त्रद्वयसमावृता ॥

कांस्योपदोहना ताम्रपृष्ठी बहुगुणान्विता

॥६०॥

रत्नपुच्छा दुग्धवती घंटाभरणभूषिता ॥

अर्चिता गंधपुष्पाद्यैः सुप्रसन्नाऽमृतप्रजा

॥६१॥

द्विजाय वेदविज्ञाय गुणिने निर्मलात्मने ॥

विष्णुभक्ताय विदुषे आनृशंस्यरताय च

॥६२॥

ब्राह्मणाय च गौर्देया सर्वत्रसुखमश्नुते ॥

न देया द्विजमात्राय दातारं सोऽवपातयेत्

॥६३॥

मत्प्रीतयेऽत्र दातव्या निर्मलेनांतरात्मना

॥६४॥

स्नातं यैश्च विशुद्ध्यर्थमत्र मद्भक्तितत्परैः ॥

तेषां स्वर्गतयो नित्यं मुक्तिः करतले स्थिता

॥६५॥

तथा चक्रहरेः पीठे मत्प्रीत्यै दानमुत्तमम् ॥

जपहोमादिकं चापि कर्त्तव्यं यत्नतो नरैः

॥६६॥

भवन्तोऽपि विधानेन यात्रां कुर्वंतु सत्तमाः ॥

अस्माद्गुप्तहरेः स्थानान्निकटे संगमे शुभे

॥६७॥

प्रत्यग्भागे गोप्रताराद्योजनत्रयसंमिते ॥

घर्घरांबुतरंगिण्या सरयूः संगता यतः

॥६८॥

अत्र स्नात्वा विधानेन द्रष्टव्योऽत्र प्रयत्नतः ॥

देवो गुप्तहरिर्नाम सर्वकामार्थसिद्धिदः

॥६९॥

अगस्त्य उवाच

इत्युक्त्वांतर्दधे देवः पीताम्बरधरोऽच्युतः ॥

देवा अपि विधानेन कृत्वा यात्रां प्रयत्नतः ॥

अयोध्यायां स्थिता नित्यं हरेर्गुणविमोहिताः

॥७०॥

तदाप्रभृति विप्रेंद्र तत्स्थानं भुवि पप्रथे ॥

कार्तिक्यां तु विशेषेण यात्रा सांवत्सरी भवेत्

॥७१॥

विभोर्गुप्तहरेस्तत्र संगमस्नानपूर्विका ॥

गोप्रतारे च तीर्थेऽस्मिन्सरयूघर्घराश्रिते ॥

स्नात्वा देवोऽर्चनीयोऽयं सर्वकामफलप्रदः

॥७२॥

तथा चक्रहरेर्यात्रा कर्त्तव्या सुप्रयत्नतः ॥

मार्गशार्षस्य विशदे पक्षे हरितिथौ नरैः

॥७३॥

एवं यः कुरुते यात्रां विष्णुलोके स मोदते

॥७४॥

श्रीसूत उवाच

एवमुक्त्वा तु विरते मुनौ कलशजन्मनि ॥

कृष्णद्वैपायनो व्यासः पुनराह सविस्मयः

॥७५॥

व्यास उवाच

अत्याश्चर्य्यमयीं ब्रह्मन्कथामेतां तपोधन ॥

उक्तवानसि येनैतत्साश्चर्य्यं मम मानसम्

॥७६॥

विस्तरेण मम ब्रूहि माहात्म्यं परमाद्भुतम्

॥७७॥

शृणु संगममाहात्म्यं विप्रेंद्र परमाद्भुतम् ॥

स्कन्ददेवाच्छ्रुतं सम्यक्कथयामि तथा तव

॥७८॥

दशकोटिसहस्राणि दशकोटिशतानि च ॥

तीर्थानि सरयूनद्या घर्घरोदकसंगमे ॥

निवसंति सदा विप्र स्कन्दादवगतं मया

॥७९॥

देवतानां सुराणां च सिद्धानां योगिनां तथा ॥

ब्रह्मविष्णुशिवानां च सान्निध्यं सर्वदा स्थितम्

॥८०॥

तस्मिन्संगमसलिले नरः स्नात्वा समाहितः ॥

संतर्प्य पितृदेवांश्च दत्त्वा दानं स्वशक्तितः

॥८१॥

हुत्वा वैष्णवमंत्रेण शुचिर्यत्फलमाप्नुयात् ॥

तदिहैकमना विप्र शृणु यत्कथयामि ते

॥८२॥

अश्वमेधसहस्रस्य वाजपेयशतस्य च ॥

कुरुक्षेत्रे महाक्षेत्रे राहुग्रस्ते दिवाकरे

॥८३॥

सुवर्णदाने यत्पुण्यमहन्यहनि तद्भवेत्

॥८४॥

अमावास्यां पौर्णमास्यां द्वादश्योरुभयोरपि ॥

अयने च व्यतीपाते स्नानं वैष्णवलोकदम्

॥८५॥

तिष्ठेद्युगसहस्रं तु पादेनैकेन यः पुमान् ॥

विधिवत्संगमे स्नायात्पौष्यां तदविशेषतः

॥८६॥

लंबतेऽवाक्छिरा यस्तु युगानामयुतं पुमान् ॥

स्नातानां शुचिभिस्तोयैः संगमे प्रयतात्मनाम्

॥८७॥

व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि

॥८८॥

पौषे मासि विशेषेण स्नानं बहुफलप्रदम्

॥८९॥

पौषे मासि विशेषेण यः कुर्यात्स्नानमादृतः ॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वा वर्णसंकरः ॥

स याति ब्रह्मणः स्थानं पुनरावृत्तिवर्जितम्

॥९०॥

पौषे मासे तु यो दद्याद्घृताढ्यं दीपमुत्तमम् ॥

विधिवच्छ्रद्धया विप्र शृणु तस्यापि यत्फलम्

॥९१॥

नानाजन्मार्जितं पापं स्वल्पं बह्वपि वा भवेत् ॥

तत्सर्वं नश्यति क्षिप्रं तोयस्थं लवणं यथा

॥९२॥

आयुरारोग्यमैश्वर्यं संततीः सौख्यमुत्तमम् ॥

प्राप्नोति फलदं नित्यं दीपदः पुण्यभाङ्नरः

॥९३॥

यस्तु शुक्लत्रयोदश्यां पौषेऽत्र प्रयतो व्रती ॥

जागरं कुरुते धीरः स गच्छेद्भवनं हरेः

॥९४॥

जागरं विदधद्रात्रौ दीपं दत्त्वा तु सर्वशः ॥

होमं च कारयेद्विप्रो नियतात्मा शुचिव्रतः

॥९५॥

वैष्णवो विष्णुपूजां च कुर्वञ्छृण्वन्हरेः कथाम् ॥

गीतवादित्रनृत्यैश्च विष्णुतोषणकारकैः ॥

कथाभिः पुण्ययुक्ताभिर्जागृयाच्छर्वरीं नरः

॥९६॥

ततः प्रभाते विमले स्नात्वा विधिवदादरात् ॥

विष्णुं संपूज्य विप्रांश्च देयं स्वर्णादि शक्तितः

॥९७॥

स्वर्णं चान्नं च वासांसि यो दद्याच्छ्रद्धयाऽन्वितः ॥

संगमे विधिवद्विद्वान्स याति परमां गतिम्

॥९८॥

वर्षेवर्षे तु कर्तव्यो जागरः पुण्यतत्परैः

॥९९॥

हरिः पूज्यो द्विजाः सम्यक्संतोष्याः शक्तितो नरैः ॥

तेन विष्णोः परा तुष्टिः पापानि विफलानि च ॥

भवंति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात्

॥१००॥

तत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत

॥१०१॥

त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ॥

तर्प्यमाणाः परां तृप्तिं यांति संगमजैर्जलैः

॥१०२॥

भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ॥

गतिमन्वेषमाणानां न संगमसमा गतिः

॥१०३॥

सप्तावरान्सप्तपरान्पुरुषश्चात्मनासह ॥

पुंसस्तारयते सर्वान्संगमे स्नानमाचरन्

॥१०४॥

जात्यंधैरिह ते तुल्यास्तथा पंगुभिरेव च ॥

समेत्यात्र च न स्नान्ति सरयूघर्घरसंगमे

॥१०५॥

वर्णानां ब्राह्मणो यद्वत्तथा तीर्थेषु संगमः ॥

सरयूघर्घरायोगे वैष्णवस्थो नरः सदा

॥१०६॥

अत्र स्नानेन दानेन यथा शक्त्या जितेंद्रियः ॥

होमेन विधिपुक्तेन नरः स्वर्गमवाप्नुयात्

॥१०७॥

नरो वा यदि वा नारी विधिवत्स्नानमाचरेत् ॥

स्वर्गलोकनिवासो हि भवेत्तस्य न संशयः

॥१०८॥

यथा वह्निर्दहेत्सर्वं शुष्कमार्द्रमथापि वा ॥

भस्मीभवंति पापानि तत्समागममज्जनात्

॥१०९॥

एकतः सर्वतीर्थानि नानाविधिफलानि वै ॥

सरयूघर्घरोत्पन्नसंगमस्त्वधिको भवेत्

॥११०॥

सर्वतीर्थावगाहस्य फलं यादृक्स्मृतं श्रुतौ ॥

तादृक्फलं नृणां सम्यग्भवेत्संगममज्जनात्

॥१११॥

गोप्रताराभिधं तीर्थमपरं वर्ततेऽनघ ॥

सन्निधौ संगमस्यैव महापातकनाशनम्

॥११२॥

यत्र स्नानेन दानेन न शोचति नरः क्वचित् ॥

गोप्रतारसमं तीर्थं न भूतं न भविष्यति

॥११३॥

वाराणस्यां यथा विद्वन्वर्त्तते मणिकर्णिका ॥

उज्जयिन्यां यथा विप्र महाकालनिकेतनम्

॥११४॥

नैमिषे चक्रवापी तु यथा तीर्थतमा स्मृता ॥

अयोध्यायां तथा विप्र गोप्रताराभिधं महत्

॥११५॥

यत्र रामाज्ञया विद्वन्साकेतनगरीजनाः ॥

अवापुः स्वर्गमतुलं निमज्ज्य परमांभसि

॥११६॥

व्यास उवाच

अवापुस्ते कथं स्वर्गं साकेतनगरीजनाः ॥

कथं च राघवो विद्वन्नेतत्कथय सुव्रत

॥११७॥

अगस्त्य उवाच

सावधानः शृणु मुने कथामेतां सुविस्तरात् ॥

यथाजगाम रामोऽसौ स्वर्गं स च पुरीजनः

॥११८॥

पुरा रामो विधायैव देवकार्य्यमतंद्रितः ॥

स्वर्गं गंतुं मनश्चक्रे भ्रातृभ्यां सह वीरधीः

॥११९॥

ततो निशम्य चारेण वानराः कामरूपिणः ॥

ऋक्षगोपुच्छरक्षांसि समुत्पेतुरनेकशः

॥१२०॥

देवगंधर्वपुत्राश्च ऋषिपुत्राश्च वानराः ॥

रामक्षयं विदित्वा तु सर्व एव समागताः

॥१२१॥

ते राममनुगत्योचुः सर्वे वानरयूथपाः ॥

तवानुगमने राजन्संप्राप्ताः स्म इहानघ

॥१२२॥

यदि राम विनास्माभिर्गच्छेस्त्वं पुरुषर्षभ ॥

सर्वे खलु हताः स्याम दण्डेन महता नृप

॥१२३॥

श्रुत्वा तु वचनं तेषामृक्षवानररक्षसाम् ॥

विभीषणमुवाचाथ राघवस्तत्क्षणं गिरा

॥२२४॥

यावत्प्रजा धरिष्यंति तावदेव विभीषण ॥

कारयस्व महद्राज्यं लंकां त्वं पालयिष्यसि

॥१२५॥

शाधि राज्यं च खल्वेतन्नान्यथा मे वचः कुरु ॥

प्रजास्त्वं रक्ष धर्मेण नोत्तरं वक्तुमर्हसि

॥१२६॥

एवमुक्त्वा तु काकुत्स्थो हनुमंतमथाब्रवीत् ॥

वायुपुत्र चिरं जीव मा प्रतिज्ञां वृथा कृथाः

॥१२७॥

यावल्लोका वदिष्यंति मत्कथां वानरर्षभ ॥

तावत्त्वं धारय प्राणान्प्रतिज्ञां प्रतिपालयन्

॥१२८॥

मैन्दश्च द्विविदश्चैव अमृतप्राशनावुभौ ॥

यावल्लोका धरिष्यंति तावदेतौ धरिष्यतः

॥१२९॥

पुत्रपौत्राश्च येऽस्माकं तान्रक्षन्त्विह वानराः ॥

एवमुक्त्वा तु काकुत्स्थः सर्वानथ च वानरान् ॥

मया सार्धं प्रयातेति तदा तान्राघवोऽब्रवीत्

॥१३०॥

प्रभातायां तु शर्वर्य्यां पृथुवक्षा महाभुजः ॥

रामः कमलपत्राक्षः पुरोधसमथाब्रवीत्

॥१३१॥

अग्निहोत्राणि यांत्वग्रे दीप्यमानानि सर्वशः ॥

वाजपेयातिरात्राणि निर्यातु च ममाग्रतः

॥१३२॥

ततो वसिष्ठस्तेजस्वी सर्वं निश्चित्य चेतसा ॥

चकार विधिवत्कर्म महाप्रास्थानिकं विधिम्

॥१३३॥

ततः क्षौमाम्बरधरो ब्रह्मचर्यसमन्वितः ॥

कुशानादाय पाणिभ्यां महाप्रस्थानमुद्यतः

॥१३४॥

न व्याहरच्छुभं किंचिदशुभं वा नरेश्वरः ॥

निष्क्रम्य नगरात्तस्मात्सागरादिव चंद्रमाः

॥१३५॥

रामस्य सव्यपार्श्वे तु सपद्मा श्रीः समाश्रिता ॥

दक्षिणे ह्रीर्विशालाक्षी व्यवसायस्तथाग्रतः

॥१३६॥

नानाविधायुधान्यत्र धनुर्ज्याप्रभृतीनि च ॥

अनुव्रजंति काकुत्स्थं सर्वे पुरुष विग्रहाः

॥१३७॥

वेदो ब्राह्मणरूपेण सावित्री सव्यदक्षिणे ॥

ॐकारोऽथ वषङ्कारः सर्वे रामं तदाऽव्रजन्

॥१३८॥

ऋषयश्च महात्मानः सर्वे चैव महीधराः ॥

अनुगच्छन्ति काकुत्स्थं स्वर्गद्वारमुपस्थितम्

॥१३९॥

तथानुयांति काकुत्स्थमंतःपुरगताः स्त्रियः ॥

सवृद्धाबालदासीकाः सपर्षद्द्वाररक्षकाः

॥१४०॥

सान्तःपुरश्च भरतः शत्रुघ्नसहितो ययौ ॥

रामं व्रजंतमागम्य रघुवंशमनुव्रताः

॥१४१॥

ततो विप्रा महात्मानः साग्निहोत्राः समंततः ॥

सपुत्रदाराः काकुत्स्थमनुगच्छति सर्वशः

॥१४२॥

मंत्रिणो भृत्ययुक्ताश्च सपुत्राः सहबांधवाः ॥

सर्वे ते सानुगाश्चैव ह्यनु गच्छंति राघवम्

॥१४३॥

ततः सर्वाः प्रकृतयो हृष्टपुष्टजनावृताः ॥

गच्छंतमनुगच्छंतिराघवं गुणरंजिताः

॥१४४॥

तथा प्रजाश्च सकलाः सपुत्राश्च सवबांधवाः ॥

राघवस्यानुगाश्चासन्दृष्ट्वा विगतकल्मषम्

॥१४५॥

स्नाताः शुक्लाम्बरधराः सर्वे प्रयतमानसाः ॥

कृत्वा किलकिलाशब्दमनुयाताश्च राघवम्

॥१४६॥

न कश्चित्तत्र दीनोऽभून्न भीतो नातिदुःखितः ॥

प्रहृष्टा मुदिताः सर्वे वभूवुः परमाद्भुताः

॥१४७॥

द्रष्टुकामाश्च निर्वाणं राज्ञो जनपदास्तथा ॥

संप्राप्तास्तेऽपि दृष्ट्वैव नभोमार्गेण चक्रिणम्

॥१४८॥

ऋक्षवानररक्षांसि जनाश्च पुरवासिनः ॥

आगत्य परया भक्त्या पृष्ठतः समुपाययुः

॥१४९॥

तानि भूतानि नगरे ह्यन्तर्धानगतान्यपि ॥

राघवं तेऽप्यनुययुः स्वर्गद्वारमुपस्थितम्

॥१५०॥

यानि पश्यंति काकुत्स्थं स्थावराणि चराणि च ॥

सत्त्वानि स्वर्गगमने मतिं कुर्वंति तान्यपि

॥१५१॥

नासीत्सत्त्वमयोध्यायां सुसूक्ष्ममपि किंचन ॥

यद्राघवं नानुयाति स्वर्गद्वारमुपस्थितम्

॥१५२॥

अथार्द्धयोजनं गत्वा नदीं पश्चान्मुखो ययौ ॥

सरयूं पुण्यसलिलां ददर्श रघुनंदनः

॥१५३॥

अथ तस्मिन्मुहूर्ते तु ब्रह्मा लोकपितामहः ॥

सर्वैः परिवृतो देवैर्ऋषिभिश्च महात्मभिः ॥

आययौ तत्र काकुत्स्थं स्वर्गद्वारमुपस्थितम्

॥१५४॥

विमानशतकोटीभिर्दिव्याभिः सर्वतो वृतः ॥

दीपयन्सर्वतो व्योम ज्योतिर्भूतमनुत्तमम्

॥१५५॥

स्वयंप्रभैश्च तेजोभिर्महद्भिः पुण्यकर्मभिः ॥

पुण्या वाता ववुस्तत्र गन्धवंतः सुखप्रदाः

॥१५६॥

सपुण्यपुष्पवर्षं च वायुयुक्तं महाजवम् ॥

गन्धर्वैरप्सरोभिश्च तस्मिन्सूर्यउपस्थितः

॥१५७॥

शरयूसलिलं रामः पद्भ्यां स समुपास्पृशत् ॥

ततो ब्रह्मा सुरैर्युक्तः स्तोतुं समुपचक्रमे

॥१५८॥

त्वं हि लोकपतिर्देव न त्वां जानाति कश्चन ॥

अहं ते वै विशालाक्ष भूतपूर्वपरिग्रहः

॥१५९॥

त्वमचिंत्यं महद्भूतमक्षयं लोकसंग्रहे ॥

यामिच्छसि महावीर्य तां तनुं प्रविश स्वकाम्

॥१६०॥

पितामहस्य वचनादिदमेवाविशत्स्वयम् ॥

सुदिव्यं वैष्णवं तेजः संसारं स सहानुजः ॥

ततो विष्णुतनुन्देवाः पूजयन्तः सुरोत्तमम्

॥१६१॥

साध्या मरुद्गणाश्चैव सेन्द्राः साग्निपुरोगमाः ॥

ये च दिव्या ऋषिगणा गन्धर्वाप्सरसस्तथा ॥

सुपर्णा नागयक्षाश्च दैत्यदानवराक्षसाः

॥१६२॥

देवाः प्रहृष्टा मुदिताः सर्वे पूर्णमनोरथाः ॥

साधुसाध्विति ते सर्वे त्रिदिवस्था बभाषिरे

॥१६३॥

अथ विष्णुर्महातेजाः पितामहमुवाच ह ॥

एषां लोकं जनौघानां दातुमर्हसि सुव्रत

॥१६४॥

इमे तु सर्वे मत्स्नेहादायाताः सर्वमानवाः ॥

भक्ताश्च भक्तिमन्तश्च त्यक्तात्मानोऽपि सर्वशः

॥१६५॥

तच्छ्रुत्वा विष्णुकथितं सर्वलोकेश्वरोऽब्रवीत् ॥

लोकं सन्तानिकं नाम संस्थास्यंति हि मानवाः

॥१६६॥

स्वर्गद्वारेऽत्र वै तीर्थे राममेवानुचिन्तयन् ॥

प्राणांस्त्यजति भक्त्या वै स संतानं परं लभेत्

॥१६७॥

सर्वे संतानिकंनाम ब्रह्मलोकादनन्तरम् ॥

वानराश्च स्वकां योनिं राक्षसाश्चापि राक्षसीम्

॥१६८॥

यस्या विनिःसृता ये वै सुरासुरतनूद्भवाः ॥

आदित्यतनयश्चैव सुग्रीवः सूर्यमण्डलम्

॥१६९॥

ऋषयो नागयक्षाश्च प्रयास्यन्ति स्वकारणम् ॥

तथा ब्रुवति देवेशे गोप्रतारमुपस्थितम्

॥१७०॥

तज्जलं सरयूं भेजे परिपूर्णं ततो जलम् ॥

अवगाह्य जलं सर्वे प्राणांस्त्यक्त्वा प्रहृष्टवत्

॥१७१॥

मानुषं देहमुत्सृज्य ते विमानान्यथारुहन् ॥

तिर्यग्योनिगता ये च प्रविश्य सरयूं तदा

॥१७२॥

देहत्यागं च ते तत्र कृत्वा दिव्यवपुर्द्धराः ॥

तथान्यान्यपि सत्त्वानि स्थावराणि चराणि च

॥१७३॥

प्राप्य चोत्तमदेहं वै देवलोकमुपागमन् ॥

तस्मिंस्तत्र समापन्ने वानरा ऋक्षराक्षसाः ॥

तेऽपि प्रविविशुः सर्वे देहान्निक्षिप्य वै तदा

॥१७४॥

तदा स्वर्गं गताः सर्वे स्मृत्वा लोकगुरुं विभुम् ॥

जगाम त्रिदशैः सार्द्धं रामो हृष्टो महामतिः

॥१७५॥

अतस्तद्गोप्रताराख्यं तीर्थं विख्यातिमागतम् ॥

गोप्रतारे परो मोक्षो नान्यतीर्थेषु विद्यते

॥१७६॥

जन्मान्तरशतैर्विप्र योगोऽयं यदि लभ्यते ॥

मुक्तिर्भवति तत्त्वेकजन्मना लभ्यते न वा

॥१७७॥

गोप्रतारे न सन्देहो हरिर्भक्त्या सुनिष्ठितः ॥

एकेन जन्मनान्योऽपि योगमोक्षं च विन्दति

॥१७८॥

गोप्रतारे नरो विद्वान्योऽपि स्नाति सुनिश्चितः ॥

विशत्यसौ परं स्थानं योगिनामपि दुर्लभम्

॥१७९॥

कार्तिक्यां च विशेषेण स्नातव्यं विजितेन्द्रियैः ॥

कार्तिके मासि विप्रर्षे सर्वे देवाः सवासवाः ॥

स्नातुमायान्त्ययोध्यायां गोप्रतारे विशेषतः

॥१८०॥

गोप्रतारसमं तीर्थं न भूतं न भविष्यति ॥

यत्र प्रयागराजोऽपि स्नातुमायाति कार्तिके

॥१८१॥

निष्पापः कलुषं त्यक्त्वा शुक्लांगः सितकंचुकः ॥

शुद्ध्यर्थं साधुकामोऽसौ प्रयागे मुनिसत्तमः

॥१८२॥

यानि कानि च तीर्थानि भूमौ दिव्यानि सुव्रत ॥

कार्तिक्यां तानि सर्वाणि गोप्रतारे वसन्ति वै

॥१८३॥

गोप्रतारे जपो होमः स्नानं दानं च शक्तितः ॥

सर्वमक्षयतां याति श्रद्धया नियमव्रतम्

॥१८४॥

कार्तिके प्राप्य तद्यन्ति तीर्थानि सकलान्यपि ॥

गोप्रतारं गमिष्यामः पापं त्यक्तुमितीच्छया

॥१८५॥

गोप्रतारे कृतं स्नानं सर्वपापप्रणाशनम् ॥

गोप्रतारे नरः स्नात्वा दृष्ट्वा गुप्तहरिं विभुम् ॥

सर्वपापैः प्रमुच्येत नात्र कार्या विचारणा

॥१८६॥

विष्णुमुद्दिश्य विप्राणां पूजनं च विशेषतः ॥

कर्त्तव्यं श्रद्धया युक्तैः स्नानपूर्वं यतव्रतैः

॥१८७॥

पयस्विनी च गौर्देया सालंकारा च शक्तितः ॥

विप्राय वेदविदुषे नियमव्रतशालिने ॥

ब्राह्मणायातिशुचये विष्णुप्रीत्यै यतात्मना

॥१६८॥

अन्नं बहुविधं हेम वासांसि विविधानि च ॥

दातव्यानि हरेः प्राप्त्यै भक्त्या परमया युतैः

॥१८९॥

सूर्यग्रहे कुरुक्षेत्रे नर्मदायां शशिग्रहे ॥

तुलादानस्य यत्पुण्यं तदत्र दीपदानतः

॥१९०॥

घृतेन दीपको यस्य तिलतैले न वा पुनः ॥

ज्वलते मुनिशार्दूल हयमेधेन तस्य किम्

॥१९१॥

तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् ॥

दीपदानं कृतं येन कार्त्तिके केशवाग्रतः

॥१९२॥

नानाविधानि तीर्थानि भुक्तिमुक्तिप्रदानि च ॥

गोप्रतारस्य तान्यत्र कलां नार्हंति षोडशीम्

॥१९३॥

स्वर्णमल्पं च यो दद्याद्ब्राह्मणे वेदपारगे ॥

शुभां गतिमवाप्नोति ह्यग्निवच्चैव दीप्यते

॥१९४॥

गोप्रताराभिधे तीर्थे त्रिलोकीविश्रुते द्विज ॥

दत्त्वान्नं च विधानेन न स भूयोऽभिजायते

॥१९५॥

तत्र स्नानं तु यः कुर्याद्विप्रान्संतर्पयेन्नरः ॥

सौत्रामणेश्च यज्ञस्य फलं प्राप्नोति मानवः

॥१९६॥

एकाहारस्तु यस्तिष्ठेन्मासं तत्र यतव्रतः ॥

यावज्जीवकृतं पापं सहसा तस्य नश्यति

॥१९७॥

अग्निप्रवेशं ये कुर्युर्गोप्रतारे विधानतः ॥

ते विशंति पदं विष्णोर्निःसंदग्धं तपोधन

॥१९८॥

कुर्वंत्यनशनं येऽत्र विष्णुभक्त्या सुनिश्चिताः ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

॥१९९॥

अर्चयेद्यस्तु गोविंदं गोप्रतारे हि मानवः ॥

दशसौवर्णिकं पुण्यं गोप्रतारे प्रकथ्यते

॥२००॥

अग्निहोत्रफलो धूपो गोविंदस्य समर्पितः ॥

भूमिदानेन सदृशं गंधदानफलं स्मृतम्

॥२०१॥

अत्यद्भुतमिदं विद्वन्स्थानमेतत्प्रकीर्तितम् ॥

कार्त्तिक्यां तु विशेषेण अत्र स्नात्वा शुचिव्रतः

॥२०२॥

स्वर्गद्वारे नरः स्नात्वा दशस्वर्णफलं लभेत् ॥

स्वर्णदः स्वर्गवासी च यो दद्याच्छ्रद्धयान्वितः

॥२०३॥

सुतीर्थे पर्वणि श्रेष्ठे दशस्वर्णफलप्रदे ॥

ज्येष्ठशुक्लचतुर्दश्यां रात्रौ जागरणं चरेत्

॥२०४॥

उपोषितः शुचिः स्नातो विष्णुपूजनतत्परः ॥

दीपं दद्यात्प्रयत्नेन नानाफलविधायिनम्

॥२०५॥

तावद्गर्जंति पुण्यानि स्वर्गे मर्त्ये रसातले ॥

यावद्दद्याज्जले दीपं कार्त्तिके केशवाग्रतः

॥२०६॥

पौर्णमास्यां प्रभाते तु स्नात्वा निर्मलमानसः ॥

हरिं संपूज्य विधिवद्विधाय श्राद्धमादरात्

॥२०७॥

दत्त्वान्नं च यथाशक्त्या संतोष्य ब्राह्मणांस्ततः ॥

वस्त्रादिभिरलंकारैः संपूज्य द्विजदंपती

॥२०८॥

विभुं गुप्तहरिं दृष्ट्वा संपूज्य तु विशेषतः ॥

नमस्कृत्यानु तत्तीर्थं शुचिस्तद्गतमानसः

॥२०९॥

स्वर्गद्वारे च विधिवन्मध्याह्ने स्नानमाचरेत् ॥

सर्वपापविशुद्धात्मा विष्णुलोके महीयते

॥२१०॥

इति परमविधानैर्गोप्रतारे विधाय प्रथितसुकृतमूर्त्तिः स्नानमुच्चैः प्रयत्नात् ॥

कलितनिखिलपापः पूजयित्वादरेणाच्युतममलविकाशो विष्णुसायुज्यमेति

॥२११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये स्वर्गद्वारगोप्रतारतीर्थमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥