मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अयोध्यामाहात्म्यम्, अध्याय ७

3
वैष्णवखण्डः · अयोध्यामाहात्म्यम् · 7

माहात्म्यवर्णनम्

अगस्त्य उवाच

तीर्थमन्यत्प्रवक्ष्यामि क्षीरोदकमिति स्मृतम् ॥

सीताकुण्डाच्च वायव्ये वर्त्तते गुणसुन्दरम् ॥

पुण्यैकनिचयस्थानं सर्वदुःखविनाशनम्

॥१॥

पुरा दशरथो राजा पुत्रेष्टिनाम नामतः ॥

चकार विधिवद्यज्ञं पुत्रार्थं यत्र चादरात्

॥२॥

क्रतुं समापयामास सानन्दो भूरिदक्षिणम् ॥

यज्ञान्ते क्रतुभुक्तत्र मूर्तिमान्समदृश्यत

॥३॥

हस्ते कृत्वा हेमपात्रं हविःपूर्णमनुत्तमम् ॥

तस्मिन्हविषि संकीर्णं वैष्णवं तेज उत्तमम् ॥

चतुर्विधं विभज्यैव पत्नीभ्यो दत्तवान्नृपः

॥४॥

यत्र तत्क्षीरसंप्राप्तिर्जाता परमदुर्लभा ॥

क्षीरोदकमिति ख्यातं तत्स्थानं पापनाशनम् ॥

उदकेनाभिव्यक्तं च उत्तमं च फलप्रदम्

॥५॥

तत्र स्नात्वा नरो धीमान्विजितेन्द्रिय आदरात् ॥

सर्वान्कामानवाप्नोति पुत्रांश्च सुबहुश्रुतान्

॥६॥

आश्विने शुक्लपक्षस्य एकादश्यां जितव्रतः ॥

तत्र स्नात्वा विधानेन दत्त्वा शक्त्या द्विजन्मने

॥७॥

विष्णुं संपूज्य विधिवत्सर्वान्कामानवाप्नुयात् ॥

पुत्रानवाप्नुयाद्विद्धि धर्मांश्च विधिवन्नरः

॥८॥

तस्मात्क्षीरोदकस्थानान्नैर्ऋते दिग्दले श्रितम् ॥

ख्यातं बृहस्पतेः कुण्डमुद्दंडाचंडमंडितम्

॥९॥

सर्वपापप्रशमनं पुण्यामृततरंगितम् ॥

यत्र साक्षात्सुरगुरुर्निवासं किल निर्ममे

॥१०॥

यज्ञं च विधिवच्चक्रे बृहस्पतिरुदारधीः ॥

नानामुनिगणैर्युक्तं रम्यं बहुफलप्रदम् ॥

सुपर्णच्छायसंपन्नं कुण्डं तत्पापिदुर्ल्लभम्

॥११॥

इन्द्रादयोऽपि विबुधा यत्र स्नात्वा प्रयत्नतः ॥

मनोभीष्टफलं प्राप्ताः सौंदर्यौदार्यतुंदिलाः

॥१२॥

यत्र स्नानेन दानेन नरो मुच्येत किल्बिषात्

॥१३॥

भाद्रे शुक्ले तु पंचम्यां यात्रा तत्र फलप्रदा ॥

अन्यदापि गुरोर्वारे स्नानं बहुफलप्रदम्

॥१४॥

बृहस्पतेस्तथा विष्णोः पूजां तत्र य आचरेत् ॥

सर्वपापविनिर्मुक्तो विष्णुलोके स मोदते

॥१५॥

भवेद्बृहस्पतेः पीडा यस्य गोचरवेधतः ॥

तेनात्र विधिवत्स्नानं कार्यं संकल्पपूर्वकम्

॥१६॥

होमं कृत्वा गुरोर्मूर्तिः सुवर्णेन विनिर्मिता ॥

स्थित्वा जले प्रदेया वै पीतांबरसमन्विता

॥१७॥

वेदज्ञायातिशुचये स्नात्वा पीडापनुत्तये ॥

होमं च कारयेत्तत्र ग्रहजाप्यविधानतः

॥१८॥

एवं कृते न संदेहो ग्रहपीडा प्रणश्यति

॥१९॥

तद्दक्षिणे मुनिश्रेष्ठ रुक्मिणीकुण्डमुत्तमम् ॥

चकार यत्स्वयं देवी रुक्मिणी कृष्णवल्लभा

॥२०॥

तत्र विष्णुः स्वयं चक्रे निवासं सलिले तदा ॥

वरप्रदानात्स्नेहेन भार्यायाः प्रगुणीकृतम्

॥२१॥

तत्र स्नानं तथा दानं होमं वैष्णवमंत्रकम् ॥

द्विजपूजां विष्णुपूजां कुर्वीत प्रयतो नरः

॥२२॥

तत्र सांवत्सरी यात्रा कर्त्तव्या सुप्रयत्नतः ॥

ऊर्जकृष्णनवम्यां च सर्वपापापनुत्तये

॥२३॥

पुत्रवाञ्जायते वन्ध्यो यात्रां कृत्वा न संशयः ॥

नारीभिर्वा नरैर्वापि कर्त्तव्यं स्नानमादरात्

॥२४॥

भुक्त्वा भोगान्समग्रांश्च विष्णुलोके स मोदते ॥

लक्ष्मीकामनया तत्र स्नातव्यं च विशेषतः

॥२५॥

सर्वकाममवाप्नोति तत्र स्नानेन मानवः ॥

रुक्मिणीश्रीपतिप्रीत्यै दातव्यं च स्वशक्तितः

॥२६॥

कर्त्तव्या विधिवत्पूजा ब्राह्मणानां विशेषतः ॥

ध्येयो लक्ष्मीपतिस्तत्र शंखचक्रगदाधरः

॥२७॥

पीतांबरधरः स्रग्वी नारदादिभिरीडितः ॥

तार्क्ष्यासनो मुकुटवान्महेन्द्रादिविभूषितः

॥२८॥

सर्वकामफलावाप्त्यै वक्षोलक्षितकौस्तुभः ॥

अतसीकुसुमश्यामः कमलामललोचनः

॥२९॥

एवं कृते न संदेहः सर्वान्कामानवाप्नुयात् ॥

इह लोके सुखं भुक्त्वा हरिलोके स मोदते

॥३०॥

अतः परं प्रवक्ष्यामि तीर्थमन्यदघापहम् ॥

कलिकिल्विषसंहारकारकं प्रत्ययात्मकम्

॥३१॥

परं पवित्रमतुलं सर्वकामार्थसिद्धिदम् ॥

धनयक्षइतिख्यातं परं प्रत्ययकारकम्

॥३२॥

रुक्मिणीकुण्डवायव्यदिग्दले संस्मृतं शुभम् ॥

हरिश्चन्द्रस्य राजर्षेरासीत्तत्र धनं महत्

॥३३॥

तस्य रक्षार्थमत्यर्थं रक्षितो यक्षउच्चकैः ॥

विश्वामित्रो मुनिः पूर्वं यदा चैव पराजयत्

॥३४॥

हरिश्चंद्रं नरपतिं राज्यसूयकरं परम् ॥

राज्यं जग्राह सकलं चतुरंगबलान्वितम्

॥३५॥

तद्वशेऽदाच्च स मुनिर्धनं सकलमुत्तमम् ॥

तद्रक्षायै प्रयत्नेन यक्षं स्थापितवानसौ

॥३६॥

प्रमंथुर इति ख्यातं प्रमोदानन्दमंदिरम् ॥

रक्षां विदधतस्तस्य बहुयत्नेन सर्वशः

॥३७॥

तुतोष स मुनिर्द्धीमान्कदाचिद्विजितेन्द्रियः ॥

उवाच मधुरं वाक्यं प्रीत्या परमया युतः

॥३८॥

विश्वामित्र उवाच

वरं वरय धर्मज्ञ क्षिप्रमेव विमत्सरः ॥

भक्त्या परमया धीर संतुष्टोऽस्मि विशेषतः

॥३९॥

यक्ष उवाच

वरं प्रयच्छसि यदि विप्रवर्य मदीप्सितम् ॥

ममांगमतिदुर्गंधि शापाच्च नृपतेरभूत् ॥

सुगन्धयितुं ब्रह्मर्षे तत्प्रसीद मुनीश्वर

॥४०॥

अगस्त्य उवाच

एवमुक्ते तु यक्षेण मुनिर्ध्यानस्थलोचनः ॥

तं विविच्यानया भक्त्या अभिषेकं चकार सः

॥४१॥

तीर्थोदकेन विधिवत्कृत्वा संकल्पमादरात् ॥

ततः सोऽभूत्क्षणेनैव सुगन्धोत्तरविग्रहः

॥४२॥

तथाभूतः स मधुरं प्रोवाच प्रांजलिस्ततः ॥

पुनः पुरः स्थितो धीमान्विनयावनतस्तदा

॥४३॥

यक्ष उवाच

त्वत्कृपाभिरहं धीर जातः सुरभिविग्रहः ॥

एतत्स्थानं यथा ख्यातिं याति सर्वज्ञ तत्कुरु

॥४४॥

त्वत्प्रसादेन विप्रर्षे तथा यत्नं विधेहि वै

॥४५॥

अगस्त्य उवाच

एवमुक्तः क्षणं ध्यात्वा मुनिः स्तिमितलोचनः ॥

यक्षं प्रति प्रसन्नात्मा ह्युवाच श्लक्ष्णया गिरा

॥४६॥

विश्वामित्र उवाच

प्रसिद्धिमतुलां यक्ष एतत्स्थानं गमिष्यति ॥

धनयक्ष इति ख्यातिमेतत्तीर्थं गमिष्यति

॥४७॥

सौंदर्य्यदं शरीरस्य परं प्रत्ययकारकम् ॥

यत्र स्नात्वा विधानेन दौर्गंध्यं त्यजति क्षणात् ॥

तत्र स्नानं प्रयत्नेन कर्त्तव्यं पुण्यकांक्षिभिः

॥४८॥

दानं श्रद्धास्वशक्तिभ्यां लक्ष्मीपूजा विशेषतः ॥

तत्र स्नानेन दानेन लक्ष्मीप्रीत्यै विशेषतः

॥४९॥

पूजया तु निधीनां च नवानामपि सुव्रत ॥

इह लोके सुखं भुक्त्वा परलोके स मोदते

॥५०॥

महापद्मस्तथा पद्मः शंखो मकरकच्छपौ ॥

मुकुन्दकुंदनीलाश्च खर्वश्च निधयो नव

॥५१॥

एतेषामपि कुण्डेऽत्र संनिधिर्भविताऽनघ ॥

एतेषां तु विशेषेण पूजा बहुफलप्रदा

॥५२॥

जलमध्ये प्रकर्त्तव्यं निधिलक्ष्मीप्रपूजनम्

॥५३॥

अन्नं बहुविधं देयं वासांसि विविधानि च

॥५४॥

सुवर्णादि यथाशक्त्या वित्तशाठ्यं विवर्जयेत् ॥

गुप्तं दानं प्रयत्नेन कर्त्तव्यं सुप्रयत्नतः

॥५५॥

फलानि च सुवर्णानि देयानि च विशेषतः

॥५६॥

कृष्णपक्षे चतुर्दश्यां स्नानं बहुफलप्रदम् ॥

श्रद्धया परया युक्तैः कर्त्तव्यं श्रद्धयाधिकम्

॥५७॥

माघे कृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत् ॥

तत्र स्नानं पितॄणान्तु तर्पणं च विशेषतः

॥५८॥

आब्रह्मस्तम्बपर्यंतं जगत्तृप्यत्विति ब्रुवन् ॥

अपसव्येन विधिवत्तर्प्पयेदंजलित्रयम्

॥५९॥

एवं कुर्वन्नरो यक्ष न मुह्यति कदाचन ॥

अत्र स्नातो दिवं याति अत्र स्नातः सुखी भवेत्

॥६०॥

अत्र स्नातेन ते यक्ष कर्त्तव्यं पूजनं पुरः ॥

त्वत्पूजनेन विधिवन्नृणां पापक्षयो भवेत्

॥६१॥

नमः प्रमथराजेति पूजामन्त्र उदाहृतः ॥

तीर्थमध्ये प्रकर्त्तव्यं पूजनं श्रवणादिकम्

॥६२॥

निधिलक्ष्म्यो तथा यक्ष तव पूजा विशेषतः ॥

एवं यः कुरुते धीरः सर्वान्कामानवाप्नुयात्

॥६३॥

धनार्थी धनमाप्नोति पुत्रार्थी पुत्रमाप्नुयात् ॥

मोक्षार्थी मोक्षमाप्नोति तत्किं न यदिहाप्यते

॥६४॥

यस्तु मोहान्नरो यक्ष स्नानं न कुरुते किल ॥

तस्य सांवत्सरं पुण्यं त्वं ग्रहीष्यसि सर्वशः

॥६५॥

इति दत्त्वा वरांस्तस्मै विश्वामित्रो मुनीश्वरः ॥

अन्तर्दधे मुनिवरस्तदा स च तपोनिधिः

॥६६॥

तदाप्रभृति तत्स्थानं परमां ख्यातिमाययौ ॥

तस्य तीर्थस्य सकला भूमिः स्वर्णविनिर्मिता

॥६७॥

दिव्यरत्नौघखचिता समंतादुपशोभिता ॥

एवं यः कुरुते विद्वन्स याति परमां गतिम्

॥६८॥

धनयक्षादुत्तरस्मिन्दिग्भागे संस्थितं द्विज ॥

वसिष्ठकुण्डं विख्यातं सर्वपापापहं सदा

॥६९॥

वसिष्ठस्य सदा तत्र निवासः सुतपोनिधेः ॥

अरुन्धती सदा यस्य वर्तते निर्मलव्रता

॥७०॥

अत्र स्नानं विशेषेण श्राद्धपूर्वमतंद्रितः ॥

यः कुर्यात्प्रयतो धीमांस्तस्य पुण्यमनुत्तमम्

॥७१॥

वामदेवस्य तत्रैव संनिधिर्वर्ततेऽनघ ॥

वशिष्ठवामदेवौ तु पूजनीयौ प्रयत्नतः

॥७२॥

पतिव्रता पूजनीयाऽरुन्धती च विशेषतः ॥

स्नातव्यं विधिना सम्यग्दातव्यं च स्वशक्तितः

॥७३॥

सर्वकामफलप्राप्तिर्जायते नात्र संशयः ॥

अत्र यः कुरुते स्नानं स वशिष्ठसमो भवेत्

॥७४॥

भाद्रे मासि सिते पक्षे पंचम्यां नियतव्रतः ॥

तस्य सांवत्सरी यात्रा कर्त्तव्या विधिपूर्विका

॥७५॥

विष्णुपूजा प्रयत्नेन कर्तव्या श्रद्धयात्र वै ॥

सर्वपापविशुद्धात्मा विष्णुलोके महीयते

॥७६॥

वसिष्ठकुण्डाद्विप्रेंद्र प्रत्यग्दिग्दलमाश्रितम् ॥

विख्यातं सागरं कुण्डं सर्वकामार्थसिद्धिदम् ॥

यत्र स्नानेन दानेन सर्वकामानवाप्नुयात्

॥७७॥

पौर्णमास्यां समुद्रस्य स्नानाद्यत्पुण्यमाप्नुयात् ॥

तत्पुण्यं पर्वणि स्नातो नरश्चाक्षयमाप्नुयात्

॥७८॥

तस्मादत्र विधानेन स्नातव्यं पुत्रकांक्षया ॥

आश्विने पौर्णमास्यां तु विशेषात्स्नानमाचरेत्

॥७९॥

एवं कुर्वन्नरो विद्वान्सर्वपापैः प्रमुच्यते ॥

अत्र स्नात्वा नरो दत्त्वा यथाशक्त्या दिवं व्रजेत्

॥८०॥

सागरान्नैर्ऋते भागे योगिनीकुण्डमुत्तमम् ॥

यत्राऽऽसते चतुःषष्टियोगिन्यो जलसंस्थिताः

॥८१॥

सर्वार्थसिद्धिदाः पुंसां स्त्रीणां चैव विशेषतः ॥

परसिद्धिप्रदाः सर्वाः सर्वकामफलप्रदाः

॥८२॥

आश्विने शुक्लपक्षस्य अष्टम्यां च विशेषतः ॥

स्नातव्यं च प्रयत्नेन योगिनीप्रीतये नृभिः

॥८३॥

अत्र स्नानं तथा दानं सर्वं सफलतां व्रजेत् ॥

यक्षिणीप्रभृतयः सिद्धा भवंत्यत्र न संशयः

॥८४॥

योगिनीकुंडतः पूर्वमुर्वशीकुण्डमुत्तमम् ॥

यत्र स्नातो नरो विद्वन्नुर्वशीं दिवि संश्रयेत्

॥८५॥

पुरा किल मुनिर्धीरो रैभ्यो नाम तपोधनः ॥

चचार हिमवत्पार्श्वे निराहारो जितेन्द्रियः

॥८६॥

तत्तपो विपुलं दृष्ट्वा भीतः सुरपतिस्ततः ॥

उर्वशीं प्रेषयामास तपोविघ्नाय चादरात्

॥८७॥

ततः सा प्रेषिता तेनाजगाम गजगामिनी ॥

उवास हिमवत्पार्श्वे रैभ्याश्रममनुत्तमम्

॥८८॥

वनफुल्ललताकुञ्जे मञ्जुकूजद्विहंगमे ॥

किन्नरीकेलिसंगीतस्तिमितांगकुरंगके

॥८९॥

पुन्नागकेशराशोकच्छिन्नकिजल्कपिंजरे ॥

कल्पिते कांचनगिरौ द्वितीय इव वेधसा

॥९०॥

सा बभौ कांतिसर्वस्वकोशः कुसुमधन्वनः ॥

उर्वश्यनल्पसामान्यलावण्यामृतवाहिनी

॥९१॥

अंगप्रभासुवर्णेन सितमौक्तिकशोभिता ॥

तारुण्यरुचिरत्वेन तारुण्येन विभूषिता

॥९२॥

विलोमलोचनापांगतरंगधवलत्विषा ॥

नवपल्लवसच्छायं कल्पयन्ती निजाधरम्

॥९३॥

कर्णोपलम्बिसंघुष्यद्भृङ्गाढ्यचूतमञ्जरी ॥

सुधागर्भसमुद्भूता पारिजातलता यथा

॥९४॥

तनुमध्या पृथुश्रोणिर्वर्णोद्भिन्नपयोधरा ॥

निःशाणितशरस्येव शक्तिः कुसुमधन्वनः

॥९५॥

अपश्यदाश्रमे तस्मिन्मुनिरायतलोचनाम् ॥

नयनानलदाहेन विदग्धेन मनोभुवा

॥९६॥

त्रिनेत्रवंचनायैव कल्पितां ललनातनुम् ॥

तामाश्रमलतापुष्पकांचीरचितकुण्डलाम्

॥९७॥

विलोक्य तां विशालाक्षीं मुनिर्व्याकुलितेन्द्रियः ॥

बभूव रोषसंतप्तः शशाप च बहु ज्वलन्

॥९८॥

रैभ्य उवाच

कुरूपतां व्रज क्षिप्रं या त्वं सौंदर्यगर्विता ॥

समागता तपोविघ्नहेतवे मम सन्निधौ

॥९९॥

अगस्त्य उवाच

इति शप्ता रुषा तेन मुनिना सा शुभेक्षणा ॥

उवाच वनिता भूत्वा प्रांजलिर्मुनिमादरात्

॥१००॥

उर्वश्युवाच

भगवन्मे प्रसीद त्वं पराधीना यतस्त्वहम् ॥

त्वच्छापस्य कथं मुक्तिर्भविता नियतव्रत

॥१०१॥

रैभ्य उवाच

अयोध्यायामस्ति तीर्थं पावनं परमं महत् ॥

तत्र स्नानं कुरुष्वाद्य सौंदर्यं परमाप्नुहि

॥१०२॥

त्वन्नाम्नैव च विख्यातिं तोयं यास्यति तद्ध्रुवम्

॥१०३॥

अगस्त्य उवाच

एवं सा विप्रवचसा विदधे सर्वमादरात् ॥

सुन्दरी साऽभवत्क्षिप्रं तत्स्थानं ख्यातिमाययौ

॥१०४॥

अत्र स्नानं मुनिश्रेष्ठ यः कुर्याद्विधिवज्जनः ॥

सौंदर्यं परमं तस्य भवेत्तत्र न संशयः

॥१०५॥

भाद्रे शुक्लतृतीयायां यात्रा सांवत्सरी भवेत् ॥

विष्णुरत्र जनैः पूज्यः सर्वकामार्थसिद्धये

॥१०६॥

एवं कुर्वन्नरो विद्वान्विष्णुलोके वसेत्सदा ॥

नरो वा यदि वा नारी सर्वान्कामानवाप्नुयात्

॥१०७॥

घोषार्ककुंडं परममुर्वशीकुंडदक्षिणे ॥

वर्तते मुनिशार्दूल सर्वपापापहं सदा

॥१०८॥

यत्र स्नानेन दानेन सूर्यलोके महीयते ॥

एतत्तीर्थस्य सदृशं नापरं विद्यते क्वचित्

॥१०९॥

व्रणी कुष्ठी दरिद्री वा दुःखाक्रांतोऽपि यो नरः ॥

करोति विधिवत्स्नानं सर्वान्कामानवाप्नुयात्

॥११०॥

रविवारे विशेषेण कर्त्तव्यं स्नानमादरात् ॥

भाद्रे मासि तथा माघे शुक्लषष्ठ्यां प्रयत्नतः

॥१११॥

कर्त्तव्यं विधिवत्स्नानं सूर्यलोकाभिकांक्षया ॥

पौषे मासि तथा स्नानं सूर्यवारे विशेषतः

॥११२॥

सप्तम्यां रवियुक्तायां स्नानं बहुफलप्रदम् ॥

घोषाभिधोऽभवत्पूर्वं सूर्यवंशे नरेश्वरः

॥११३॥

समुद्रमेखलामेकः पृथिवीं समपालयत् ॥

यस्य कीर्त्या प्रकाशंते त्रिलोकीमंडलानि वै

॥११४॥

यः प्रतापात्स्फुरन्भाति प्रभाकर इवापरः ॥

प्रचंडतरदोर्दंडखंडितारातिमंडलः

॥११५॥

स कदाचित्प्रजापालो मंत्त्रिविन्यस्तभूतलः ॥

बभ्राम मृगयासक्तो वनेऽतिगहनद्रुमे

॥११६॥

स राजा पूर्वजन्मोत्थपापैरशुभसूचकैः ॥

कृमिव्याप्तकरांभोजः सुन्दरोपि गतस्मयः

॥११७॥

मृगयायामभूदेकः कदाचित्पर्यटन्वने ॥

वराहसिंहहरिणान्निघ्नन्गच्छन्नितस्ततः

॥११८॥

तृषाक्रान्तो म्लानतनुः सरोऽपश्यत्पुरो नृपः ॥

ददर्श तत्र च मुनीन्स्नानसंध्यादितत्परान्

॥११९॥

ततो विधिवदाचम्य स्नानं चक्रे नरेश्वरः ॥

ततो दिव्यशरीरोऽभूदानंदामलमानसः

॥१२०॥

मुनिभिस्तीर्थमाज्ञाय चक्रे सूर्य्यस्तुतिं प्रियाम्

॥१२१॥

राजोवाच

भगवन्देवदेवेश नमस्तुभ्यं चिदात्मने ॥

नमः सवित्रे सूर्याय जगदानंददायिने

॥१२२॥

प्रभागेहाय देवाय त्रयीभूताय ते नमः ॥

विवस्वते नमस्तुभ्यं योगज्ञाय सदात्मने

॥१२३॥

पराय परमेशाय त्रिलोकीतिमिरच्छिदे ॥

अचिन्त्याय सदा तुभ्यं नमो भास्करतेजसे

॥१२४॥

योगप्रियाय योगाय योगज्ञाय सदा नमः ॥

ॐकाराय वषट्काररूपिणे ज्ञानरूपिणे

॥१२५॥

यज्ञाय यज्ञमानाय हविषे ऋत्विजे नमः ॥

रोगघ्नाय स्वरूपाय कमलानंददायिने

॥१२६॥

अतिसौम्यातितीक्ष्णाय सुराणां पतये नमः ॥

सत्राशाय नमस्तुभ्यं भक्तत्राय प्रियात्मने

॥१२७॥

प्रकाशकाय सततं लोकानां हितकारिणे ॥

प्रसीद प्रणतायाद्य मह्यं भक्तिकृते स्वयम्

॥१२८॥

अगस्त्य उवाच

इत्येवं ब्रुवतस्तस्य स प्रसन्नो रविः स्वयम् ॥

आविर्बभूव सहसा भक्तस्य प्रियकाम्यया ॥

उवाच मधुरं वाक्यं प्रश्रयानतमूर्द्धजम्

॥१२९॥

रविरुवाच

वरं वरय राजेंद्र प्रसन्नोऽस्मि तवाग्रतः ॥

ददामि तद्वरं तेऽद्य यत्त्वया मनसेप्सितम्

॥१३०॥

राजोवाच

भगवन्भास्करानंत प्रयच्छसि वरं यदि ॥

मन्नाम्ना कृतमूर्त्तिस्ते तिष्ठत्वत्र सदा विभो

॥१३१॥

रविरुवाच

एवमस्तु मनुष्येंद्र तव वांछा मनोहरा ॥

एतत्स्तोत्रं त्वयोक्तं मे ये पठिष्यंति मानवाः

॥१३२॥

तेभ्यस्तुष्टः प्रदास्यामि सर्वान्कामान्नरेश्वर ॥

एतत्स्थानं परां ख्यातिं त्वन्नाम्ना यास्यति क्षितौ

॥१३३॥

सर्वान्कामानवाप्नोति योऽत्र स्नानं समाचरेत् ॥

मद्भक्तेन सदा राजन्कर्त्तव्यं स्नानमत्र वै

॥१३४॥

यंयं काममिहेच्छेत तंतं काममवाप्नुयात्

॥१३५॥

अगस्त्य उवाच

इति दत्त्वा वरं देवः कृपया परया युतः ॥

भास्वान्सहस्रकिरणस्तदान्तर्द्धानमाययौ

॥१३६॥

राजा भास्करदेहोत्थां रविमूर्त्तिमनुत्तमाम् ॥

तत्र संस्थापयामास पूजयामास च स्वयम्

॥१३७॥

घोषार्ककुण्डं तन्नाम्ना तत्र ख्यातिं जगाम ह ॥

यत्र स्नानान्नरो राजन्सूर्य्यलोके वसेत्सदा

॥१३८॥

इति रुचिरविधानैस्तूर्णमादित्यमूर्त्तिं विमलपरमभक्त्या पूजयित्वाऽऽदरेण ॥

तदमृतमयकुण्डे स्नानमादौ विधाय प्रचुरविमलकीर्तिः सूर्यलोके वसेत्सः

॥१३९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये बृहस्पतिकुण्डरुक्मिणीकुण्डधनयक्षतीर्थ वसिष्ठकुण्डसागरकुण्ड योगिनीकुण्डोर्वशीकुण्डघोषार्ककुंड माहात्म्यवर्णनंनाम सप्तमोऽध्यायः ॥ ७ ॥