मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अयोध्यामाहात्म्यम्, अध्याय २

3
वैष्णवखण्डः · अयोध्यामाहात्म्यम् · 2

ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनम्

सूत उवाच

अगस्त्यमुनिरित्युक्त्वा चक्रतीर्थाश्रयां कथाम् ॥

विभोर्विष्णुहरेश्चापि पुनराह द्विजोत्तमाः

॥१॥

अगस्त्य उवाच

पुरा ब्रह्मा जगत्स्रष्टा विज्ञाय हरिमच्युतम् ॥

अयोध्यावासिनं देवं तत्र चक्रे स्थितिं स्वयम्

॥२॥

आगत्य कृतवांस्तत्र यात्रां ब्रह्मा यथाविधि ॥

यज्ञं च विधिवच्चक्रे नानासंभारसंयुतम्

॥३॥

ततः स कृतवांस्तत्र ब्रह्मा लोकपितामहः ॥

कुण्डं स्वनाम्ना विपुलं नानादेवसमन्वितम्

॥४॥

विस्तीर्णजलकल्लोलकलितं कलुषापहम् ॥

कुमुदोत्पलकह्लारपुंडरीककुलाकुलम्

॥५॥

हंससारसचक्राह्व विहंगममनोहरम् ॥

तटांतविटपोल्लासि पतत्त्रिगणसंकुलम्

॥६॥

तत्र कुण्डे सुराः सर्वे स्नाताः शुद्धिसमन्विताः ॥

बभूवुरद्धा विगतरजस्का विमलत्विषः

॥७॥

तदाश्चर्य्यं महद्दृष्ट्वा ते सर्वे सहसा सुराः ॥

ब्रह्माणं प्रणिपत्योचुर्भक्त्या प्रांजलयस्तदा

॥८॥

देवा ऊचुः

भगवन्ब्रूहि तत्त्वेन माहात्म्यं कमलासन ॥

अस्य कुण्डस्य सकलं खातस्य विमलत्विषः

॥९॥

अत्र स्नानेन सर्वेषामस्माकं विगतं रजः ॥

महदाश्चर्यमेतस्य दृष्ट्वा कुंडस्य विस्मिताः ॥

सर्वे वयं सुरश्रेष्ठ कृपया त्वमतो वद

॥१०॥

ब्रह्मोवाच

शृण्वन्तु सर्वे त्रिदशाः सावधानाः सविस्मयाः ॥

कुण्डस्यैतस्य माहात्म्यं नानाफलसमन्वितम्

॥११॥

अत्र स्नानेन विधिवत्पापात्मानोऽपि जंतवः ॥

विमानं हंससंयुक्तमास्थाय रुचिरांबराः ॥

निवसंति ब्रह्मलोके यावदाभूतसंप्लवम्

॥१२॥

अत्र दानेन होमेन यथाशक्त्या सुरोत्तमाः ॥

तुलाश्वमेधयोः पुण्यं प्राप्नुयुर्मुनिसत्तम

॥१३॥

ममास्मिन्सरसि श्रीमाञ्जायते स्नानतो नरः ॥

तस्मादत्र विधानेन स्नानं दानं जपादिकम्

॥१४॥

सर्वयज्ञसमं स्याद्वै महापातकनाशनम् ॥

ब्रह्मकुण्डमिति ख्यातिमितो यास्यत्यनुत्तमाम्

॥१५॥

अस्मिन्कुण्डे च सांनिध्यं भविष्यति सदा मम ॥

कार्त्तिके शुक्लपक्षस्य चतुर्दश्यां सुरोत्तमाः

॥१६॥

यात्रा भविष्यति सदा सुराः सांवत्सरी मम ॥

शुभप्रदा महापापराशिनाशकरी तदा

॥१७॥

स्वर्णं चैव सदा देयं वासांसि विविधानि च ॥

निजशक्त्या प्रकर्तव्या सुरास्तृप्तिर्द्विजन्मनाम्

॥१८॥

अगस्त्य उवाच

इत्युक्त्वा देवदेवोऽयं ब्रह्मा लोकपितामहः ॥

अन्तर्दधे सुरैः सार्द्धं तीर्थं दृष्ट्वा तपोधन

॥१९॥

तदाप्रभृति तत्कुण्डं विख्यातं परमं भुवि ॥

चक्रतीर्थाच्च पूर्वस्यां दिशि कुण्डं स्थितं महत्

॥२०॥

सूत उवाच

इत्युक्त्वा स तपोराशिरगस्त्यः कुंभसंभवः ॥

पुनः पृष्टो मुनिवरो व्यासायावीवदत्कथाम्

॥२१॥

अगस्त्य उवाच

अन्यच्छृणु महाभाग तीर्थं दुष्कृतिदुर्ल्लभम् ॥

ऋणमोचनसंज्ञं तु सरयूतीरसंगतम्

॥२२॥

ब्रह्मकुण्डान्मुनिवर धनुःसप्तशतेन च ॥

पूर्वोत्तरदिशाभागे संस्थितं सरयूजले

॥२३॥

तत्र पूर्वं मुनिवरो लोमशो नाम नामतः ॥

तीर्थयात्राप्रसंगेन स्नानं चक्रे विधानतः

॥२४॥

ततः स ऋणनिर्मुक्तो बभूव गतकल्मषः ॥

तदाश्चर्यं महद्दृष्ट्वा मुनीन्सानन्दमब्रवीत्

॥२५॥

पश्यन्त्वेतस्य महतो गुणांस्तीर्थवरस्य वै ॥

भुजावूर्ध्वं तथा कृत्वा हर्षेणाहाऽश्रुलोचनः

॥२६॥

लोमश उवाच

ऋणमोचनसंज्ञं तु तीर्थमेतदनुत्तमम् ॥

यत्र स्नानेन जंतूनामृणनिर्यातनं भवेत्

॥२७॥

ऐहिकं पारलौकिक्यं यदृणत्रितयं नृणाम् ॥

तत्सर्वं स्नानमात्रेण तीर्थेऽस्मिन्नश्यति क्षणात्

॥२८॥

सर्वतीर्थोत्तमं चैतत्सद्यः प्रत्ययकारकम् ॥

मया चास्य फलं सम्यगनुभूतमृणादिह

॥२९॥

तस्मादत्र विधानेन स्नानं दानं च शक्तितः ॥

कर्त्तव्यं श्रद्धया युक्तैः सर्वदा फलकांक्षिभिः

॥३०॥

स्नातव्यं च सुवर्णं च देयं वस्त्रादि शक्तितः

॥३१॥

अगस्त्य उवाच

इत्युक्त्वा तीर्थमाहात्म्यं लोमशो मुनिसत्तमः ॥

अन्तर्दधे मुनिश्रेष्ठः स्तुवंस्तीर्थगुणान्मुदा

॥३२॥

इत्येतत्कथितं विप्र ऋणमोचनसंज्ञकम् ॥

यत्र स्नानेन जन्तूनामृणं नश्यति तत्क्षणात् ॥

ऋणमोचनतीर्थं तु पूर्वतः सरयूजले

॥३३॥

धनुर्द्विशत्या तीर्थं च पापमोचनसंज्ञकम् ॥

सर्वपापविशुद्धात्मा तत्र स्नानेन मानवः ॥

जायते तत्क्षणादेव नात्र कार्या विचारणा

॥३४॥

मया तत्र मुनिश्रेष्ठ दृष्टं माहात्म्यमुत्तमम्

॥३५॥

पांचालदेशसंभूतो नाम्ना नरहरिर्द्विजः ॥

असत्संगप्रभावेन पापात्मा समजायत

॥३६॥

नाना विधानि पापानि ब्रह्महत्यादिकानि च ॥

कृतवान्पापिसंगेन त्रयीमार्गविनिन्दकः

॥३७॥

स कदाचित्साधुसंगात्तीर्थयात्राप्रसंगतः ॥

अयोध्यामागतो विप्र महापातककृद्द्विजः

॥३८॥

पापमोचनतीर्थे तु स्नातः सत्संगतो द्विजः ॥

पापराशिर्विनष्टोऽस्य निष्पापः समभूत्क्षणात्

॥३९॥

दिवः पपात तन्मूर्ध्नि पुष्पवृष्टिर्मुनीश्वर ॥

दिव्यं विमानमारुह्य विष्णुलोके गतो द्विजः

॥४०॥

तद्दृष्ट्वा महदाश्चर्यं मया च द्विजपुंगव ॥

श्रद्धया परया तत्र कृतं स्नानं विशेषतः

॥४१॥

माघकृष्णचतुर्दश्यां तत्र स्नानं विशेषतः ॥

दानं च मनुजैः कार्य्यं सर्वपापविशुद्धये

॥४२॥

अन्यदा(?) तु कृते स्नाने सर्वपापक्षयो भवेत्

॥४३॥

पापमोचनतीर्थे तु पूर्वं तु सरयूजले ॥

धनुःशतप्रमाणेन वर्त्तते तीर्थमुत्तमम्

॥४४॥

सहस्रधारासंज्ञं तु सर्वकिल्बिषनाशनम् ॥

यस्मिन्रामाज्ञया वीरो लक्ष्मणः परवीरहा ॥

प्राणानुत्सृज्य योगेन ययौ शेषात्मतां पुरा

॥४५॥

सार्द्धंहस्तत्रयेणैव प्रमाणं धनुषो विदुः ॥

चतुर्भिर्हस्तकैः संख्या दण्ड इत्यभिधीयते

॥४६॥

सूत उवाच

इत्थं तदा समाकर्ण्य कुम्भयोनिमुनेस्तदा ॥

कृष्णद्वैपायनो व्यासः पुनः पप्रच्छ कौतुकात्

॥४७॥

व्यास उवाच

सहस्रधारामाहात्म्यं विस्तराद्वद सुव्रत ॥

शृण्वंस्तीर्थस्य माहात्म्यं न तृप्यति मनो मम

॥४८॥

अगस्त्य उवाच

सावधानः शृणु मुने कथां कथयतो मम ॥

सहस्रधारातीर्थस्य समुत्पत्तिं महोदयात्

॥४९॥

पुरा रामो रघुपतिर्देवकार्यं विधाय वै ॥

कालेन सह संगम्य मंत्रं चक्रे नरेश्वरः

॥५०॥

आवां मन्त्रयमाणौ हि यः पश्येदन्तिकागतः

॥४९॥

मया त्याज्यो भवेत्क्षिप्रमित्थं चक्रे स संविदम्

॥५१॥

तस्मिन्मंत्रयमाणे हि द्वारे तिष्ठति लक्ष्मणे ॥

आगतः स तपोराशिर्दुर्वासास्तेजसां निधिः

॥५२॥

आगत्य लक्ष्मणं शीघ्रं प्रीत्योवाच क्षुधाऽऽकुलः

॥५३॥

दुर्वासा उवाच

सौमित्रे गच्छ शीघ्रं त्वं रामाग्रे मां निवेदय ॥

कार्यार्थिनमिदं वाक्यं नान्यथा कर्तुमर्हसि

॥५४॥

अगस्त्य उवाच

शापाद्भीतः स सौमित्रिर्द्रुतं गत्वा तयोः पुरः ॥

मुनिं निवेदयामास रामाग्रे दर्शनार्थिनम् ॥

दुर्वाससं तपोराशिमत्रिनन्दनमागतम्

॥५५॥

रामोऽपि कालमामंत्र्य प्रस्थाप्य च बहिर्ययौ ॥

दृष्ट्वा मुनिं तं प्रणतः संभोज्य प्रभुरादरात्

॥५६॥

दुर्वाससं मुनिवरं प्रस्थाप्य स्वयमादरात् ॥

सत्यभंगभयाद्वीरो लक्ष्मणं त्यक्तवांस्तदा

॥५७॥

लक्ष्मणोऽपि तदा वीरः कुर्वन्नवितथं वचः ॥

भ्रातुर्ज्येष्ठस्य सुमतिः सरयूतीरमाययौ

॥५८॥

तत्र गत्वाथ च स्नात्वा ध्यानमास्थाय सत्वरम् ॥

चिदात्मनि मनः शान्तं संगम्यावस्थितस्तदा

॥५९॥

ततः प्रादुरभूत्तत्र सहस्रफणमण्डितः ॥

शेषश्चक्षुःश्रवाः श्रेष्ठः क्षितिं भित्त्वा सहस्रधा ॥

सुरलोकात्सुरेन्द्रोऽपि समागादमरैः सह

॥६०॥

ततः शेषात्मतां यातं लक्ष्मणं सत्यसंगरम् ॥

उवाच मधुरं शक्रः सुराणां तत्र पश्यताम्

॥६१॥

इन्द्र उवाच

लक्ष्मणोत्तिष्ठ शीघ्रं त्वमारोह स्वपदं स्वकम् ॥

देवकार्यं कृतं वीर त्वया रिपुनिषूदन

॥६२॥

वैष्णवं परमं स्थानं प्राप्नुहि त्वं सनातनम् ॥

भवन्मूर्तिः समायातः शेषोऽपि विलसत्फणः

॥६३॥

सहस्रधा क्षितिं भित्त्वा सहस्रफणमण्डलैः ॥

क्षितेः सहस्रच्छिद्रेषु यस्माद्भित्त्वा समुद्गताः

॥६४॥

फणसाहस्रमणिभिर्दग्धाः शेषस्य सुव्रत ॥

तस्मादेतन्महातीर्थं सरयूतीरगं शुभम् ॥

ख्यातं सहस्रधारेति भविष्यति न संशयः

॥६५॥

एतत्क्षेत्रप्रमाणं तु धनुषां पञ्चविंशतिः ॥

अत्र स्नानेन दानेन श्राद्धेन श्रद्धयान्वितः ॥

सर्वपापविशुद्धात्मा विष्णुलोकं व्रजेन्नरः

॥६६॥

अत्र स्नातो नरो धीमाञ्छेषं संपूज्य चाव्ययम् ॥

तीर्थं संपूज्य विधिवद्विष्णुलोकमवाप्नुयात्

॥६७॥

तस्मादत्र प्रकर्तव्यं स्नानं विधिपुरःसरम् ॥

शेषरूपाहिवद्ध्येयाः पूज्या विप्रा विशेषतः

॥६८॥

स्वर्णं चान्नं च वासांसि देयानि श्रद्धयान्वितैः ॥

स्नानं दानं हरेः पूजा सर्वमक्षयतां व्रजेत्

॥६९॥

तस्मादेतन्महातीर्थं सर्वकामफलप्रदम् ॥

क्षितौ भविष्यति सदा नात्र कार्या विचारणा

॥७०॥

श्रावणे शुद्धपक्षस्य या तिथिः पञ्चमी भवेत् ॥

तस्यामत्र प्रकर्तव्यो नागानुद्दिश्य यत्नतः

॥७१॥

उत्सवो विपुलः सद्भिः शेषपूजापुरःसरम् ॥

उत्सवे तु कृते तत्र तीर्थे महति मानवैः

॥७२॥

सन्तोष्य च द्विजान्भक्त्या नागपूजापुरस्सरम् ॥

सन्तुष्टाः फणिनः सर्वे पीडयन्ति न मानुषान्

॥७३॥

वैशाखमासे ये स्नानं कुर्वंत्यत्र समाहिताः ॥

न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि

॥७४॥

तस्मादत्र प्रकर्तव्यं माधवे यत्नतो नरैः ॥

स्नानं दानं हरिः पूज्यो ब्राह्मणाश्च विशेषतः ॥

तीर्थे कृतेऽत्र मनुजैः सर्वकामफलप्रदः

॥७५॥

विष्णुमुद्दिश्य यो दद्यात्सालंकारां पयस्विनीम् ॥

सवत्सामत्र सत्तीर्थे सत्पात्राय द्विजन्मने

॥७६॥

तस्य वासो भवेन्नित्य विष्णुलोके सनातने ॥

अक्षयं स्वर्गमाप्नोति तीर्थ स्नानेन मानवः

॥७७॥

अत्र पूज्यौ विशेषेण नरैः श्रद्धासमन्वितः ॥

वैशाखे मास्यलंकारैर्वस्त्रैश्च द्विजदंपती

॥७८॥

लक्ष्मीनारायणप्रीत्यै लक्ष्मीप्रात्यै विशेषतः ॥

वैशाखे मासि तीर्थानि पृथिवीसंस्थितानि वै

॥७९॥

सर्वाण्यपि च संगत्य स्थास्यंत्यत्र न संशयः ॥

तस्मादत्र विशेषेण वैशाखे स्नानतो नृणाम् ॥

सर्वतीर्थावगाहस्य भविष्यति फलं महत्

॥८०॥

अगस्त्य उवाच

इत्युक्त्वा मुनिराजेंद्रो लक्ष्मणं सुरसं गतम् ॥

शेषं संस्थाप्य तत्तीर्थे भूभारहरणक्षमम् ॥

लक्ष्मणं यानमारोप्य प्रतस्थे दिवमादरात्

॥८१॥

तदाप्रभृति तत्तीर्थं विख्यातिं परमां ययौ ॥

वैशाखे मासि तीर्थस्य माहात्म्यं परमं स्मृतम्

॥८२॥

पञ्चम्यामपि शुक्लायां श्रावणस्य विशेषतः ॥

अन्यदा पर्वणि श्रेष्ठं विशेषं स्नानमाचरेत् ॥

सहस्रधारातीर्थे च नरः स्वर्गमवाप्नुयात्

॥८३॥

विधिवदिह हि धीमान्स्नानदानानि तीर्थे नरवर इह शक्त्या यः करोत्यादरेण ॥

स इह विपुलभोगान्निर्मलात्मा च भक्त्या भजति भुजगशायिश्रीपतेरात्मनैक्यम्

॥८४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये ब्रह्मकुण्डसहस्रधारातीर्थमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २ ॥