निराहारो नरो भूत्वा क्षीराहारोऽपि वा पुनः
अगस्त्य उवाच
निराहारो नरो भूत्वा क्षीराहारोऽपि वा पुनः ॥
अजितं पूजयेद्विप्र तस्य सिद्धिः करे स्थिता
॥१॥महोत्सवस्तु कर्तव्यो गीतवादित्रसंयुतः ॥
एवं यः कुरुते धीमान्सर्वान्कामानवाप्नुयात्
॥२॥एतस्मादुत्तरे विद्वन्वीरस्य शुभसूचकम् ॥
स्थानं मत्तगजेन्द्रस्य वर्तते नियतव्रत
॥३॥तदग्रे सरसि स्नात्वा वसेत्तत्र सुनिश्चितम् ॥
पूर्णा सिद्धिमवाप्नोति यामवाप्य न शोचति
॥४॥अयोध्यारक्षको वीरः सर्वकामार्थसिद्धिदः ॥
नवरात्रिषु पंचम्यां यात्रा सांवत्सरी भवेत्
॥५॥गंधपुष्पादिधूपादि नैवेद्यादिविधानतः ॥
पूजनीयः प्रयत्नेन सर्वकामार्थसिद्धिदः ॥
यंयं काममिहेच्छेत तंतं काममवाप्नुयात्
॥६॥एतस्माद्द्क्षिणेभागे सुरसानाम राक्षसी ॥
विष्णुभक्ता सदा विप्र वर्तते सिद्धिदायिका
॥७॥तां संपूज्य नरो भक्त्या सर्वान्कामानवाप्नुयात्
॥८॥लंकास्थानादिहानीता रामेणोत्कृष्टकर्मणा ॥
अयोध्यायां स्थापिता सा रक्षार्थं नियतव्रतैः
॥९॥संपूज्य विधिवत्तस्या दर्शनं कार्यमादरात् ॥
सर्वकामार्थसिद्ध्यर्थमुत्सवोऽपि शुभप्रदः ॥
कर्त्तव्यः सुप्रयत्नेन गीतवादित्रसंयुतैः
॥१०॥नवरात्रे तृतीयायां यात्रा सांवत्सरी भवेत् ॥
सर्वदा सुखसंतानसिद्धये परमार्थदा ॥
नानासंगीतवादित्रनृत्योत्सवमनोहरा
॥११॥एवं कृते न संदेहः सर्वदा रक्षितो भवेत्
॥१२॥एतत्पश्चिमदिग्भागे वर्तते परमो मुने ॥
पिंडारक इति ख्यातो वीरः परमपौरुषः ॥
पूजनीयः प्रयत्नेन गंधपुष्पाक्षतादिभिः
॥१३॥यस्य पूजावशान्नॄणां सिद्धयः करसंश्रिताः ॥
तस्य पूजाविधानेन कर्तव्यं पूजनं नरैः
॥१४॥सरयूसलिले स्नात्वा पिंडारकं च पूजयेत् ॥
पापिनां मोहकर्त्तारं मतिदं कृतिनां सदा
॥१५॥तस्य यात्रा विधातव्या सपुष्या नवरात्रिषु ॥
तत्पश्चिमदिशाभागे विघ्नेशं किल पूजयेत्
॥१६॥यस्य दर्शनतो नॄणां विघ्नलेशो न विद्यते ॥
तस्माद्विघ्नेश्वरः पूज्यः सर्वकामफलप्रदः
॥१७॥तस्मात्स्थानत ऐशाने रामजन्म प्रवर्त्तते ॥
जन्मस्थानमिदं प्रोक्तं मोक्षादिफलसाधनम्
॥१८॥विघ्नेश्वरात्पूर्वभागे वासिष्ठादुत्तरे तथा ॥
लौमशात्पश्चिमे भागे जन्मस्थानं ततः स्मृतम्
॥१९॥यद्दृष्ट्वा च मनुष्यस्य गर्भवासजयो भवेत् ॥
विना दानेन तपसा विना तीर्थैर्विना मखैः
॥२०॥नवमीदिवसे प्राप्ते व्रतधारी हि मानवः ॥
स्नानदानप्रभावेण मुच्यते जन्मबन्धनात्
॥२१॥कपिलागोसहस्राणि यो ददाति दिनेदिने ॥
तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्
॥२२॥आश्रमे वसतां पुंसां तापसानां च यत्फलम् ॥
राजसूयसहस्राणि प्रतिवर्षाग्निहोत्रतः
॥२३॥नियमस्थं नरं दृष्ट्वा जन्मस्थाने विशेषतः ॥
मातापित्रोर्गुरूणां च भक्तिमुद्वहतां सताम्
॥२४॥तत्फलं समवाप्नोति जन्मभूमेः प्रदर्शनात्
॥२५॥अथ सरयूवर्णनम् ॥
पितॄणामक्षया तृप्तिर्गयाश्राद्धाधिकं फलम्
॥२६॥मन्वंतरसहस्रैस्तु काशीवासेषु यत्फलम् . ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते
॥२७॥गयाश्राद्धं च ये कृत्वा पुरुषोत्तम दर्शनम् ॥
कुर्वंति तत्फलं प्रोक्तं कलौ दाशरथीं पुरीम्
॥२८॥मथुरायां कल्पमेकं वसते मानवो यदि ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते
॥२९॥पुष्करेषु प्रयागेषु माघे वा कार्त्तिके तथा ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते
॥३०॥कल्पकोटिसहस्राणि ह्यवन्तीवासतो हि यत् ॥
तत्फलं समवाप्नोति सरयूदर्शने कृते
॥३१॥षष्टिवर्षसहस्राणि भागीरथ्यवगाहजम् ॥
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम्
॥३२॥निमिषं निमिषार्द्धं वा प्राणिनां रामचिन्तनम् ॥
संसारकारणाज्ञाननाशकं जायते धुवम्
॥३३॥यत्र कुत्र स्थितो यस्तु ह्ययोध्यां मनसा स्मरेत् ॥
न तस्य पुनरावृत्तिः कल्पांतरशतैरपि
॥३४॥जलरूपेण ब्रह्मैव सरयूर्मोक्षदा सदा ॥
नैवात्र कर्मणो भोगो रामरूपो भवेन्नरः
॥३५॥पशुपक्षिमृगाश्चैव ये चान्ये पापयोनयः ॥
तेऽपि मुक्ता दिवं यांति श्रीरामवचनं यथा
॥३६॥इत्युक्त्वा विरते तस्मिन्मुनौ कलशजन्मनि ॥
कृष्णद्वैपायनव्यासः पुनरूचे तपोधनः
॥३७॥दुर्लभा सर्वजन्तूनां कथा विस्तरतः क्रमात् ॥
यात्राक्रमोऽपि च मया श्रुत आगच्छतां नृणाम्
॥३८॥इदानीं श्रोतुमिच्छामि क्षेत्रस्थानं यथाविधि ॥
यात्राक्रमं मुनिश्रेष्ठ सम्यक्त्वस्तपोधन
॥३९॥फलं ब्रूहि क्रमेणैव विस्तरात्पृच्छतो मम ॥
यद्यस्ति मयि ते विद्वन्कृपा कारुणिकोत्तम
॥४०॥यथा श्रुत्वा क्रमेणैव यात्रां विश्वविदां वर ॥
करोमि त्वत्प्रसादेन तथा कुरु यतव्रत
॥४१॥अगस्त्य उवाच
शृणु वक्ष्यामि तत्त्वेन यात्राक्रममथादितः ॥
अयोध्यां सप्ततीर्थानां यथावदनुपूर्वशः
॥४२॥मनोवाक्कायशुद्धेन निर्दोषेणांतरात्मना ॥
मानसेषु सुतीर्थेषु स्नात्वा किल जितेंद्रियः ॥
यः करोति विधिं सम्यक्स तीर्थफलमश्नुते
॥४३॥व्यास उवाच
मानसान्येव तीर्थानि कथयस्व तपोधन ॥
येषु स्नातवतां नॄणां विशुद्धिर्मनसो भवेत्
॥४४॥अगस्त्य उवाच
शृणु तीर्थानि गदतो मानसानि ममानघ ॥
येषु सम्यङ्नरः स्नात्वा प्रयाति परमां गतिम्
॥४५॥सत्यतीर्थं क्षमातीर्थं तीर्थमिंद्रियनिग्रहः ॥
सर्वभूतदयातीर्थं तीर्थानां सत्यवादिता
॥४६॥ज्ञानतीर्थं तपस्तीर्थं कथितं तीर्थसप्तकम् ॥
सर्वभूतदयातीर्थे विशुद्धिर्मनसो भवेत्
॥४७॥न तोयपूतदेहस्य स्नानमित्यभिधीयते ॥
स स्नातो यस्य वै पुंसः सुविशुद्धं मनो मतम् ॥
भौमानामपि तीर्थानां पुण्यत्वे कारणं शृणु
॥४८॥यथा शरीरस्योद्देशाः केचिन्मध्योत्तमाः स्मृताः ॥
तथा पृथिव्यामुद्देशाः केचित्पुण्यतमाः स्मृताः
॥४९॥तस्माद्भौमेषु तीर्थेषु मानसेषु च संवसेत् ॥
उभयेषु च यः स्नाति स याति परमां गतिम्
॥५०॥तस्मात्त्वमपि विप्रेंद्र विशुद्धेनांतरात्मना ॥
यात्रां कुरु प्रयत्नेन यात्रा वै नोदिता मया ॥
तं तु वक्ष्यामि विप्रेंद्र तीर्थयात्राविधिं क्रमात्
॥५१॥जायन्ते च जलेष्वेव म्रियंते च जलौकसः ॥
न च गच्छंति ते स्वर्गमशुद्धमनसो मलाः
॥५२॥विषयेष्वनिशं रागो मनसो मल उच्यते ॥
तेष्वेव हि न संगम्य नैर्मल्यं समुदाहृतम्
॥५३॥चित्तमन्तर्गतं दुष्टं तीर्थस्नानं न शुध्यति ॥
शतशोऽपि जलैर्धौते सुराभाण्डमपावनम्
॥५४॥दानमिज्या तपः शौचं तीर्थसेवा श्रुतिस्तथा ॥
सर्वाण्येतानि तीर्थानि यदि भावेन निर्मलः
॥५५॥निगृहीतेंद्रियग्रामो यत्रैव वसते नरः ॥
तत्र तस्य कुरुक्षेत्रं नैमिषं पुष्करं तथा
॥५६॥एतत्ते कथितं विप्र मानसं तीर्थलक्षणम् ॥
स्नाते यस्मिन्क्रियाः सर्वाः सफलाः स्युः क्रियावताम्
॥५७॥प्रातरुत्थाय मतिमान्संगमे स्नानमाचरेत् ॥
विभुं विष्णुहरिं दृष्ट्वा स्नायाद्वै ब्रह्मकुण्डके
॥५८॥चक्रतीर्थे नरः स्नात्वा दृष्ट्वा चक्रहरिं विभुम् ॥
ततो धर्महरिं दृष्ट्वा सर्वपापैः प्रमुच्यते
॥५९॥एकादश्यामेकादश्यामियं यात्रा शुभावहा ॥
प्रातरुत्थाय मतिमान्स्वर्गद्वारजलप्लुतः
॥६०॥विधाय नित्यजं कर्म अयोध्यां च विलोकयेत् ॥
सरयूं तु ततो दृष्ट्वा पश्येन्मत्तगजं ततः
॥६१॥बंदीं च शीतलां चैव वटुकं च विलोकयेत् ॥
तदग्रसरसि स्नात्वा महाविद्यां विलोकयेत्
॥६२॥पिण्डारकं ततो दृष्ट्वा ततो भैरवदर्शनम् ॥
अष्टम्यां च चतुर्दश्यामेषा यात्रा फलप्रदा
॥६३॥अंगारकचतुर्थ्यां तु पूर्वोक्ता देवता अपि ॥
विघ्नेशं च ततः पश्येत्सर्वकामार्थसिद्धये
॥६४॥प्रातरुत्थाय मतिमान्ब्रह्मकुण्डजले प्लुतः ॥
विष्णुं विष्णुहरिं दृष्ट्वा मनोवाक्कायशुद्धिमान्
॥६५॥मंत्रेश्वरं ततो दृष्ट्वा महाविद्यां विलोकयेत् ॥
अयोध्यां च ततो दृष्ट्वा सर्वकामार्थसिद्धये
॥६६॥स्वर्गद्वारे नरः स्नात्वा सचैलो विजितेंद्रियः ॥
नानाविधानि पापानि बहुजन्मकृतानि च ॥
सचैलस्नानतो यांति तस्मात्सचैलमाचरेत्
॥६७॥एषा वै गदिता यात्रा सर्वपापहरा शुभा
॥६८॥य एवं कुरुते यात्रां नित्यं शुभफलप्रदाम् ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
॥६९॥तस्मात्त्वमपि विप्रेंद्रः अयोध्यां व्रज मा चिरम् ॥
तत्र गत्वा क्रमेणैव यात्रां कुरु यतेंद्रियः
॥७०॥अयोध्या परमं स्थानमयोध्या परमं महत् ॥
अयोध्यायाः समा काचित्पुरी नैव प्रदृश्यते
॥७१॥अयोध्या परमं स्थानं विष्णुचक्रे प्रतिष्ठितम्
॥७२॥इत्येतत्कथितं विप्र मया पृष्टं हि यत्त्वया ॥
समाश्रय मुने तां त्वमनुजानीहि मामतः
॥७३॥सूत उवाच
इत्येतदुक्त्वा विरते मुनौ कलशजन्मनि ॥
उवाच मधुरं वाक्यं व्यासः स तपसां निधिः
॥७४॥व्यास उवाच
धन्योऽस्म्यनुगृहीतोऽस्मि कृतकृत्योऽस्म्यहं मुने ॥
सत्यं शौचं श्रुतं विप्र सुशीलं च क्षमार्जवम् ॥
सर्वं च निष्फलं तस्य अयोध्यां नागतो यदि
॥७५॥यस्मिन्मयि प्रसन्नेन त्वयोक्तो धर्मनिर्णयः ॥
इदानीमपि गच्छामि ह्ययोध्यां निर्मलां पुरीम् ॥
त्वमपि व्रज विप्रेंद्र स्वमाश्रमपदं निजम्
॥७६॥सूत उवाच
इत्यैवमुक्त्वा क्रमशो यात्राविधिमनुत्तमम् ॥
जगाम तपसां राशिरगस्त्यः कुंभसंभवः
॥७७॥स्वमाश्रमपदं धीरो विस्मयोत्फुल्ललोचनः ॥
व्यासोऽपि महसां राशिर्जगाम विजितेन्द्रियः
॥७८॥अयोध्यामागतो विप्रः सर्वकामार्थसिद्धये ॥
आगत्यैतद्विधानेन कृत्वा यात्रां यथाक्रमम्
॥७९॥दृष्ट्वा महाश्चर्यकरं कारणं तीर्थमुत्तमम् ॥
आनंदतुंदिलस्तत्र सम्यगाचम्य बुद्धिमान्
॥८०॥ततो जगाम विप्रेंद्रः स्वमाश्रमपदं मुनिः ॥
व्यासेन कथितं मह्यं माहात्म्यं क्रमशस्तदा
॥८१॥मया श्रुत्वा च माहात्म्यं यात्रां कृत्वा विधानतः ॥
कुरुक्षेत्रे समागत्य भवदग्रे निरूपितम्
॥८२॥इदं माहात्म्यमतुलं यः पठेत्प्रयतो नरः ॥
श्रद्धया यश्च शृणुयात्स याति परमां गतिम्
॥८३॥तस्मादेतत्प्रयत्नेन श्रोतव्यं च जनैः सदा ॥
द्विजपूजा विष्णुपूजा विधातव्या प्रयत्नतः
॥८४॥दातव्यं च सुवर्णादि यथाशक्त्या द्विजन्मने ॥
पुत्रार्थी लभते पुत्रान्धर्म्मार्थी धर्ममाप्नुयात्
॥८५॥अतिविपुलविधानैर्वर्णितं धर्म्यमाद्यं कलयति परभक्त्या क्षेत्रमाहात्म्यमेतत् ॥
य इह मनुजवर्यः श्रीसनाथः स सम्यग्व्रजति हरिनिवासं सर्वभोगांश्च भुक्त्वा
॥८६॥यः पाठकस्यापि कदाचिदेव ददाति वित्तं च यथात्मशक्त्या ॥
पात्राणि वस्त्राणि मनोहराणि रौप्यं सुवर्णं च गवीः स मुच्येत्
॥८७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्येऽगस्त्यव्याससंवादेऽयोध्यायात्राविधिक्रमवर्णनंनाम दशमोऽध्यायः ॥ १० ॥
छ ॥ इति श्रीस्कान्दे महापुराणे द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्यं सम्पूर्णम् ॥ ( २-८)