माहात्म्यवर्णनम्
अगस्त्य उवाच
जटाकुण्डत आग्नेयदिग्दल संश्रितं महत् ॥
गयाकूपमिति ख्यातं सर्वाभीष्टफलप्रदम्
॥१॥यत्र स्नात्वा च दत्त्वा च यथाशक्त्या जितेंद्रियः ॥
सर्वकाममवाप्नोति श्राद्धं कृत्वा द्विजोत्तमः
॥२॥नरकस्थाश्च ये केचित्पितरश्च पितामहाः ॥
विष्णुलोके तु गच्छन्ति तस्मिञ्च्छ्राद्धे कृते तु वै
॥३॥तस्मिञ्छ्राद्धे कृते विप्र पितॄणामनृणो भवेत् ॥
शक्तिभिः पिंडदानं तु सयवैः पायसेन च
॥४॥कर्त्तव्यमृषिनिर्दिष्टं पिण्याकेन गुडेन वा ॥
श्राद्धं तत्तीर्थके प्रोक्तं पितॄणां तुष्टिकारकम्
॥५॥तत्र श्राद्धं प्रकर्त्तव्यं नरैः श्रद्धासमन्वितैः ॥
तुष्यंति पितरस्तेषां तुष्टाः स्युः सर्वदेवताः
॥६॥तुष्टेषु पितृषु श्रीमाञ्जायतेपुत्रवाँस्तथा ॥
श्राद्धेन पितरस्तुष्टाः प्रयच्छंति सुतान्बहून्
॥७॥श्रियं च विपुलान्भोगाञ्छ्राद्धकृद्भयो न संशयः ॥
तस्मादत्र विधानेन विधातव्यं प्रयत्नतः
॥८॥श्राद्धं श्रद्धायुतैः सम्यगभीष्टफलकांक्षिभिः ॥
गयाकूपे विशेषेण पितॄणां दत्तमक्षयम्
॥९॥सोमवारेण संयुक्ता अमावास्या यदा भवेत् ॥
तत्रानंतफलं श्राद्धं पितॄणां दत्तमक्षयम्
॥१०॥अन्यदा सोमवारेण तत्र श्राद्धं विधानतः ॥
पितृसंतोषदं नित्यं तत्र दत्ताक्षयो भवेत्
॥११॥तत्र पूर्वदिशाभागे तीर्थं सर्वोत्तमोत्तमम् ॥
पिशाचमोचनंनाम विद्यते च फलप्रदम्
॥१२॥तत्र स्नात्वा च दत्त्वा च पिशाचो नैव जायते ॥
तत्र स्नानं तथा दानं श्राद्धं चैव विशेषतः ॥
कर्त्तव्यं च प्रयत्नेन नरैः श्रद्धासमन्वितैः
॥१३॥मार्गशीर्षे शुक्लपक्षे चतुर्दश्यां विशेषतः ॥
स्नानं तत्र प्रकर्त्तव्यं पिशाचत्वविमुक्तये
॥१४॥तत्संनिधौ पूर्वभागे मानसंनाम नामतः ॥
तीर्थं पुण्यनिवासाग्र्यं स्नातव्यं च विशेषतः ॥
तत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात्
॥१५॥नानाविधानि पापानि मेरुतुल्यानि वै पुनः ॥
तत्र स्नानात्क्षयं यांति नात्र कार्या विचारणा
॥१६॥यत्किञ्चिद्विद्यते पापं मानसं कायिकं तथा ॥
वाचिकं च तथा पापं स्नानतो विलयं व्रजेत्
॥१७॥प्रौष्ठपद्यां सदा कार्य्या पौर्णमास्यां विशेषतः ॥
यात्रा तस्य नृभिर्विप्र पुण्यवद्भिः क्रियापरैः
॥१८॥तस्माद्दक्षिणदिग्भागे वर्त्तते सुकृतैकभूः ॥
तमसानाम तटिनी महापातकनाशिनी
॥१९॥यत्र स्नानं तथा दानं सर्वपापहरं सदा ॥
यस्यास्तटे तथा रम्ये सर्वदा फलदायके
॥२०॥नानाविधानि स्थानानि मुनीनां भावितात्मनाम् ॥
माण्डव्यस्य मुनेः स्थानं वर्त्तते पापनाशनम्
॥२१॥यस्यास्तीरे मुनिश्रेष्ठ सर्वत्र सुमनोहरम् ॥
तस्याश्रमपदं रम्यं नानावृक्षमनोहरम्
॥२२॥यस्मात्स्थानात्समुद्भूता तमसा सुतरंगिणी ॥
तद्वनं पुण्यमधिकं पावनं पदमुत्तमम्
॥२३॥यस्य दर्शनतो नॄणां सर्वपापक्षयो भवेत्
॥२४॥प्रफुल्लनानाविधगुल्मशोभितं लताप्रतानावनतं मनोहरम् ॥
विरूढपुष्पैः परितः प्रियंगुभिः सुषुष्पितैः कण्टकितैश्च केतकैः
॥२५॥तमालगुल्मैर्निचितं सुगंधिभिः सकर्णिकारैर्बकुलैश्च सर्वतः ॥
अशोकपुन्नागवरैः सुपुष्पितैर्द्विरेफमालाकुल पुष्पसंचयैः
॥२६॥क्वचित्प्रफुल्लांबुजरेणुभूषितैर्विहंगमैश्चारुफलप्रचारिभिः ॥
विनादितं सारसमुत्कुलादिभिः प्रमत्तदात्यूहकुलैश्च वल्गुभिः
॥२७॥क्वचिच्च चक्राह्वरवोपनादितं क्वचिच्च कादम्बकदम्बकैर्युतम् ॥
क्वचिच्च कारण्डवनादनादितं क्वचिच्च मत्तालिकुलाकुलीकृतम्
॥२८॥मदाकुलाभिर्भ्रमरीभिरारान्निषेवितं चारुसुगंधिपुष्पवत् ॥
क्वचिच्च पुष्पैः सहकारवृक्षैर्लतोपगूढैस्तिलकद्रुमैश्च
॥२९॥प्रहृष्टनानाविधपक्षिसेवितं प्रमत्तहारीतकुलोपनादितम् ॥
समंततः सुन्दरदर्शनीयतां समुद्वहत्तद्वनमुल्लसन्महत्
॥३०॥निबिडनिचुलनीलं नीलकण्ठाभिरामं मदमुदितविहंगीवृन्दनादाभिरामम् ॥
कुसुमिततरुशाखालीनमत्तद्विरेफंनवकिसलयशोभाशोभितं सत्फलाढ्यम्
॥३१॥इत्यादिबहुशोभाढ्यं सर्वदिक्षु मनोहरम् ॥
यत्र मांडव्यमुनिना तपस्तप्तं महत्किल ॥
यत्प्रभावादभूत्तीर्थं पावनं तत्सदा महत्
॥३२॥तत्पूर्वं गौतमस्यर्षेराश्रमं पावनं महत् ॥
तत्पूर्वं च्यवनस्यर्षेः पराशरमुनेरिदम् ॥
प्रथमं ते मुनिश्रेष्ठ पितुः किल तपोनिधेः
॥३३॥नानाविधानि तीर्थानि चाश्रमाश्चैव सर्वशः ॥
वर्तंते तापसानां च यस्यास्तीरे समंततः
॥३४॥तमसानाम सा ज्ञेया वर्तते तटिनी शुभा ॥
यज्ञयूपान्समुत्खाय शोभिता बहुशोऽभितः
॥३५॥तत्र स्नानेन दानेन श्राद्धेन च विशेषतः ॥
सर्वकामार्थसिद्धिः स्यान्नात्र कार्या विचारणा
॥३६॥मार्गशीर्षे शुक्लपक्षे पञ्चदश्यां विशेषतः ॥
स्नानं तस्य फलप्राप्तिदायकं सर्वदा नृणाम्
॥३७॥तस्मादत्र प्रकर्तव्यं स्नानं निर्मलमानसैः ॥
प्रयत्नतो मुनिश्रेष्ठ सर्वकामार्थसिद्धिदम्
॥३८॥अतः परं प्रवक्ष्यामि तमसापरमं शुभम् ॥
सीताकुंडमितिख्यातं श्रीदुग्धेश्वरसन्निधौ
॥३९॥भाद्रे शुक्लचतुर्थ्यां तु तस्य यात्रा शुभावहा ॥
सर्वकामार्थसिद्ध्यर्थं पूज्यो विप्रेश्वरस्तथा ॥
तस्य स्मरणमात्रेण सर्वविघ्नविनाशनम्
॥४०॥तस्माद्दक्षिणदिग्भागे भैरवो नाम नामतः ॥
यं दृष्ट्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥४१॥रक्षितो वासुदेवेन क्षेत्ररक्षार्थमादरात् ॥
तस्य पूजा विधातव्या प्रयत्नेन यथाविधि ॥
मनोभीष्टफलप्राप्तिर्भैरवस्य सदाऽऽदरात्
॥४२॥मार्गशीर्षस्य कृष्णायामष्टम्यां तस्य निर्मिता ॥
यात्रा सांवत्सरी तत्र सर्वकामार्थसिद्धये
॥४३॥पशूपहारसंभूति कर्तव्यं पूजनं जनैः ॥
सर्वकामफलप्राप्तिर्जायते नात्र संशयः
॥४४॥निर्विघ्नं तीर्थवसतिर्भैरवस्य प्रसादतः ॥
जायते तेन कर्तव्या पूजा तस्य प्रयत्नतः
॥४५॥एतस्मिन्नुत्तरे भागे रम्यं भरतकुण्डकम् ॥
यत्र स्नात्वा नरः पापैर्मुच्यते नात्र संशयः
॥४६॥तत्र स्नानं तथा दानं सर्वमक्षयतां व्रजेत् ॥
अन्नं बहुविधं देयं वासांसि विविधान्यपि
॥४७॥यत्नतो देवताः पूज्या वस्त्रादिभिरलंकृतैः ॥
नंदिग्रामे वसन्पूर्वं भरतो रघुवंशजः
॥४८॥रामचन्द्रं हृदि ध्यायन्निर्मलात्मा जितेन्द्रियः ॥
ततः स्थित्वा प्रजाः सर्वा ररक्ष क्षितिवल्लभः
॥४९॥तत्र चक्रे महत्कुण्डं भरतो नाम भूपतिः ॥
राममूर्तिं च संस्थाप्य चचार विजितेन्द्रियः
॥५०॥तत्कुंडे सुमहत्पुण्यं नानापुण्यसमन्वितम् ॥
कुमुदोत्पलकह्लारपुण्डरीकसमन्वितम्
॥५१॥हंससारसचक्राह्व विहंगमविराजितम् ॥
उद्यानपादपच्छायासच्छायममलं सदा
॥५२॥तत्र स्नानं महापुण्यं प्रमोदानन्दनिर्मलम् ॥
तत्र स्नानं तथा श्राद्धं पितॄनुद्दिश्य कुर्वतः ॥
पितरस्तस्य तुष्यंति तुष्टाः स्युः सर्वदेवताः
॥५३॥स्वर्णं चान्नं विधानेन दातव्यं च द्विजन्मने ॥
श्रद्धापूर्वकमेतत्तु कर्तव्यं प्रयतैर्नरैः
॥५४॥तत्पश्चिमदिशाभागे जटाकुण्डमनुत्तमम् ॥
यत्र रामादिभिः सर्वैर्जटाः परिहृता निजाः
॥५५॥जटाकुण्डमिति ख्यातं सर्वतीर्थोत्तमोत्तमम् ॥
यत्र स्नानेन दानेन सर्वान्कामानवाप्नुयात्
॥५६॥पूर्वकुण्डेषु संपूज्यो भरतः श्रीसमन्वितः ॥
जटाकुण्डेषु संपूज्यौ ससीतौ रामलक्ष्मणौ ॥
चैत्रकृष्णचतुर्दश्यां यात्रा सांवत्सरी भवेत्
॥५७॥इति परमविधानैः पूजयेद्रामसीते तदनु भरतकुण्डे लक्ष्मणं च प्रपूज्य ॥
विधिवदमृतकुण्डे द्वंद्वंसमज्जनेन वसति सुकृतिमूर्तिर्वैष्णवे तत्र लोके
॥५८॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये गयाकूप पिशाचमोचन मानसतीर्थ तमसानदी माण्डव्याद्याश्रम सीताकुण्ड दुग्धेश्वर भैरवभारतकुण्ड जटाकुण्ड माहात्म्यवर्णनंनाम नवमोऽध्यायः ॥ ९ ॥