चन्द्रसहस्रव्रतोद्यापनविधिवर्णनम्
सूत उवाच
इति श्रुत्वा वचो धीमानादरात्कुंभजन्मनः ॥
प्रोवाच मधुरं वाक्यं कृष्णद्वैपायनो मुनिः
॥१॥व्यास उवाच
भगवन्नद्भुतमिदं तीर्थमाहात्म्यमुत्तमम् ॥
श्रुत्वा त्वत्तो मम मनः परमानंदमाययौ
॥२॥अन्यत्तीर्थवरं ब्रूहि तत्त्वेन मम शृण्वतः ॥
न तृप्तिरस्ति मनसः शृण्वतो मम सुव्रत
॥३॥अगस्त्य उवाच
शृणु विप्र प्रवक्ष्यामि तीर्थमन्यदनुत्तमम् ॥
स्वर्गद्वारमिति ख्यातं सर्वपापहरं सदा
॥४॥स्वर्गद्वारस्य माहात्म्यं विस्तराद्वक्तुमीश्वरः ॥
नहि कश्चिदतो वत्स संक्षेपाच्छृणु सुव्रत
॥५॥सहस्रधारामारभ्य पूर्वतः सरयूजले ॥
षट्त्रिंशदधिका प्रोक्ता धनुषां षट्शती मितिः
॥६॥स्वर्गद्वारस्य विस्तारः पुराणज्ञैर्विशारदैः ॥
स्वर्गद्वारसमं तीर्थं न भूतं न भविष्यति
॥७॥सत्यंसत्यं पुनः सत्यं नासत्यं मम भाषितम् ॥
स्वर्गद्वारसमं तीर्थं नास्ति ब्रह्माण्डगोलके
॥८॥हित्वा दिव्यानि भौमानि तीर्थानि सकलान्यपि ॥
प्रातरागत्य तिष्ठन्ति तत्र संश्रित्य सुव्रत
॥९॥तस्मादत्र प्रकर्तव्यं प्रातः स्नानं विशेषतः ॥
सर्वतीर्थावगाहस्य फलमात्मन ईप्सता
॥१०॥त्यजंति प्राणिनः प्राणान्स्वर्गद्वारांतरे द्विज ॥
प्रयांति परमं स्थानं विष्णोस्ते नात्र संशयः
॥११॥मुक्तिद्वारमिदं पश्य स्वर्गप्राप्तिकरं नृणाम् ॥
स्वर्गद्वारमिति ख्यातं तस्मात्तीर्थमनुत्तमम्
॥१२॥स्वर्गद्वारं सुदुष्प्राप्यं देवैरपि न संशयः ॥
यद्यत्कामयते तत्र तत्तदाप्नोति मानवः
॥१३॥स्वर्गद्वारे परा सिद्धिः स्वर्गद्वारे परा गतिः ॥
जप्तं दत्तं हुतं दृष्टं तपस्तप्तं कृतं च यत् ॥
ध्यानमध्ययनं सर्वं दानं भवति चाक्षयम्
॥१४॥जन्मांतरसहस्रेण यत्पापं पूर्वसंचितम् ॥
स्वर्गद्वारप्रविष्टस्य तत्सर्वं व्रजति क्षयम्
॥१५॥ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वै वर्णसंकराः ॥
कृमिम्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः
॥१६॥कीटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः ॥
कालेन निधनं प्राप्ताः स्वर्गद्वारे शृणु द्विज
॥१७॥कौमोदकीकराः सर्वे पक्षिणो गरुडध्वजाः ॥
शुभे विष्णुपुरे विष्णुर्जायते तत्र मानवाः
॥१८॥अकामो वा सकामो वा अपि तीर्थगतोपि वा ॥
स्वर्गद्वारे त्यजन्प्राणान्विष्णुलोके महीयते
॥१९॥मुनयो देवताः सिद्धाः साध्या यक्षा मरुद्गणाः ॥
यज्ञोपवीतमात्रेण विभागं चक्रिरे तु ये
॥२०॥मध्याह्नेऽत्र प्रकुर्वंति सान्निध्यं देवतागणाः ॥
तस्मात्तत्र प्रकुर्वंति मध्याह्ने स्नानमादरात्
॥२१॥कुर्वंत्यनशनं ये तु स्वर्गद्वारे जितेंद्रियाः ॥
प्रयांति परमं स्थानं ये च मासोपवासिनः
॥२२॥अन्नदानरता ते च रत्नदा भूमिदा नराः ॥
गोवस्त्रदाश्च विप्रेभ्यो यांति ते भवनं हरेः
॥२३॥यत्र सिद्धा महात्मानो मुनयः पितरस्तथा ॥
स्वर्गं प्रयांति ते सर्वे स्वर्गद्वारं ततः स्मृतम्
॥२४॥चतुर्द्धा च तनुं कृत्वा देवदेवो हरिः स्वयम् ॥
अत्र वै रमते नित्यं भ्रातृभिः सह राघवः
॥२५॥ब्रह्मलोकं परित्यज्य चतुर्वक्त्रः सनातनः ॥
अत्रैव रमते नित्यं देवैः सह पितामहः
॥२६॥कैलासनिलयावासी शिवस्तत्रैव संस्थितः
॥२७॥मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ॥
स्वर्गद्वारं समासाद्य स सर्वो व्रजति क्षयम्
॥२८॥या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम् ॥
स्वर्गद्वारे मृतानां तु सा गतिर्विहिता शुभा
॥२९॥ऋषिदेवासुरगणैर्जपहोमपरायणैः ॥
यतिभिर्मोक्षकामैश्च स्वर्गद्वारो निषेव्यते
॥३०॥षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम् ॥
तत्फलं निमिषार्द्धेन कलौ दाशरथीं पुरीम्
॥३१॥या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम् ॥
सा गतिः स्नानमात्रेण सरय्वां हरिवासरे
॥३२॥स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति ॥
केशवानुगृहीता हि सर्वे यांति परां गतिम्
॥३३॥भूलोके चांतरिक्षे च दिवि तीर्थानि यानि वै ॥
अतीत्य वर्तते तानि तीर्थान्येतद्द्विजोत्तम
॥३४॥विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः ॥
संहृत्य शक्तितः कामं विषयेषु हि संस्थितम्
॥३५॥शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
॥३६॥हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि ॥
स याति परमं स्थानं यत्र गत्वा न शोचति
॥३७॥स्वर्गद्वारे वियुज्येत स याति परमां गतिम् ॥
उत्तरं दक्षिणं वापि अयनं न विकल्पयेत्
॥३८॥सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयंति ये ॥
स्नानमात्रेण पापानि विलयं यांति देहिनाम्
॥३९॥यावत्पापानि देहेन ये कुर्वंति जनाः क्षितौ ॥
अयोध्या परमं स्थानं तेषामीरितमादरात्
॥४०॥ज्येष्ठे मासि सिते पक्षे पंचदश्यां विशेषतः ॥
तस्य सांवत्सरी यात्रा देवैश्चन्द्रहरेः स्मृता
॥४१॥तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः ॥
कार्यं प्रयत्नतो विप्र सर्वयज्ञफलाधिकम्
॥४२॥तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम्
॥४३॥श्रीव्यास उवाच
भगवन्ब्रूहि तत्त्वेन तस्य चन्द्रहरेः शुभाम् ॥
उत्पत्तिं च तथा चंद्रव्रतस्योद्यापने विधिम्
॥४४॥अगस्त्य उवाच
अयोध्यानिलयं विष्णुं नत्वा शीतांशुरुत्सुकः ॥
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः ॥
अत्रागत्य च चन्द्रोऽथ तीर्थयात्रां चकार सः
॥४५॥क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः ॥
समाराध्य ततो विष्णुं तपसा दुश्चरेण वै
॥४६॥तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम् ॥
हरिं संस्थापयामास तेन चंद्रहरिः स्मृतः
॥४७॥वासुदेवप्रसादेन तत्स्थानं जातमद्भुतम् ॥
तद्धि गुह्यतमं स्थानं वासुदेवस्य सुव्रत
॥४८॥सर्वेषामिव भूतानां भर्तुर्मोक्षस्य सर्वदा ॥
अस्मिन्सिद्धाः सदा विप्र गोविंदव्रतमास्थिताः
॥४९॥नानालिंगधरा नित्यं विष्णुलोकाभिकांक्षिणः ॥
अभ्यस्यंति परं योगं मुक्तात्मानो जितेंद्रियाः
॥५०॥यथा धर्ममवाप्नोति अन्यत्र न तथा क्वचित् ॥
दानं व्रतं तथा होमः सर्वमक्षयतां व्रजेत
॥५१॥सर्वकामफलप्राप्तिर्जायते प्राणिनां सदा ॥
तस्मादत्र विधातव्यं प्राणिभिर्यत्नतः क्रमात् ॥
दानादिकं विप्रपूजा दंपत्योश्च विशेषतः
॥५२॥सर्वयज्ञाधिकफलं सर्वतीर्थावगाहनम् ॥
सर्वदेवावलोकस्य यत्पुण्यं जायते नृणाम्
॥५३॥तत्सर्वं जायते पुण्यं प्राणिनामस्य दर्शनात् ॥
तस्मादेतन्महाक्षेत्रं पुराणादिषु गीयते
॥५४॥उद्यापनविधिश्चात्र नृभिर्द्विजपुरस्सरम् ॥
अग्रे चंद्रहरेश्चन्द्र सहस्रव्रतसंज्ञकः
॥५५॥गते वर्षद्वये सार्द्धे पंचपक्षे दिनद्वये ॥
दिवसस्याऽष्टमे भागे पतत्येकोऽधिमासकः
॥५६॥त्र्यधिके वा अशीत्यब्दे चतुर्मासयुते ततः ॥
भवेच्चन्द्रसहस्रं तु तावज्जीवति यो नरः ॥
उद्यापनं प्रकर्त्तव्यं तेन यात्रा प्रयत्नतः
॥५७॥यत्पुण्यं परमं प्रोक्तं सततं यज्ञयाजिनाम् ॥
सत्यवादिषु यत्पुण्यं यत्पुण्यं हेमदायिनि ॥
तत्पुण्यं लभते विप्र सहस्राब्दस्य जीविभिः
॥५८॥सर्वसौख्यप्रदं तादृक्पुण्यव्रतमिहोच्यते
॥५९॥चतुर्दश्यां शुचिः स्नात्वा दन्तधावनपूर्वकम् ॥
चरितब्रह्मचर्य्यश्च जितवाक्कायमानसः ॥
पौर्णमास्यां तथा कृत्वा चंद्रपूजां च कारयेत्
॥६०॥पूर्वं च मातरः पूज्या गौर्यादिकक्रमेण च ॥
ऋत्विजः पूजयेद्भक्त्या वृद्धिश्राद्धपुरस्सरम्
॥६१॥प्रयतैः प्रतिमा कार्या चंद्रमंडलसन्निभा ॥
सहस्रसंख्या ह्यथवा तदर्द्धं वा तदर्द्धकम् ॥
निजवित्तानुमानेन तदर्धेन तदर्द्धिकम्
॥६२॥ततः श्रद्धानुमानाद्वा कार्या वित्तानुमानतः ॥
अथवा षोडश शुभा विधातव्याः प्रयत्नतः
॥६३॥चंद्रपूजां ततः कुर्यादागमोक्तविधानतः ॥
माषैः षोडशभिः कार्या प्रत्येकं प्रतिमा शुभा
॥६४॥सोममंत्रेण होमस्तु कार्यो वित्तानुमानतः ॥
प्रतिमास्थापनं कुर्यात्सोममंत्रमुदीरयेत्
॥६५॥सोमोत्पत्तिं सोमसूक्तं पाठयेच्च प्रयत्नतः ॥
चंद्रपूजां ततः कुर्यादागमोक्तविधानतः
॥६६॥चंद्रन्यासं कलान्यासं कारयेन्मंडले जलम् ॥
एकादशेंद्रियन्यासं तथैव विधिपूर्वकम्
॥६७॥चंद्रबिंबनिभं कार्य्यं मंडलं शुभतंडुलैः ॥
मध्ये च कलशः स्थाप्यो गव्येन पयसाप्लुतः
॥६८॥चतुरस्रेषु संपूर्णान्कलशान्स्थापयेद्बहिः ॥
मंडले चंद्रपूजा च कर्तव्या नामभिः क्रमात्
॥६९॥हिमांशवे नमश्चैव सोमचंद्राय वै नमः
॥५४॥चंद्राय विधवे नित्यं नमः कुमुदबंधवे
॥७०॥सुधांशवे च सोमाय ओषधीशाय वै नमः ॥
नमोऽब्जाय मृगांकाय कलानां निधये नमः
॥७१॥नमो नक्षत्रनाथाय शर्वरीपतये नमः ॥
जैवातृकाय सततं द्विजराजाय वै नमः
॥७२॥एवं षोडशभिश्चंद्रः स्तोतव्यो नामभिः क्रमात्
॥७३॥ततो वै प्रयतो दद्याद्विधिवन्मंत्रपूर्वकम् ॥
शंखतोयं समादाय सपुष्पं फलचंदनम्
॥७४॥नमस्ते मासमासांते जायमान पुनःपुनः ॥
गृहाणार्घ्यं शशांक त्वं रोहिण्या सहितो मम
॥७५॥एवं संपूज्य विधिवच्छशिनं प्रणतो भवेत् ॥
षोडशान्ये च कलशा दुग्धपूर्णाः सरत्नकाः
॥७६॥सवस्त्राच्छादनाः शांत्यै दातव्यास्ते द्विजन्मने ॥
अभिषेकं ततः कुर्यात्पायसेन जलेन तु
॥७७॥ऋत्विजां मनसस्तुष्टिः कार्या वित्तानुमानतः ॥
ब्राह्मणं भोजयेत्तत्र सकुटुंबं विशेषतः
॥७८॥पूजनीयौ प्रयत्नेन वस्त्रैश्च द्विजदंपती ॥
कर्तव्यं च ततो भूरिदक्षिणादानमुत्तमम्
॥७९॥प्रतिमाश्च प्रदातव्या द्विजेभ्यो धेनुपूर्विकाः ॥
सुवर्णं रजतं वस्त्रं तथान्नं च विशेषतः ॥
दातव्यं चंद्रसुप्रीत्यै हर्षादेवं द्विजन्मने
॥८०॥उपवासविधानेन दिनशेषं नयेत्सुधीः ॥
अनंतरे च दिवसे कुर्याद्भगवदर्चनम् ॥
बांधवैः सह भुञ्जीत नियमं च विसर्ज्जयेत्
॥८१॥एवं च कुरुते चंद्रसहस्रं व्रतमुत्तमम् ॥
ब्रह्मघ्नोऽपि सुरापोऽपि स्तेयी च गुरुतल्पगः ॥
व्रतेनानेन शुद्धात्मा चंद्रलोकं व्रजेन्नरः
॥८२॥यादृशश्च भवेद्विप्र प्रियो नारायणस्य च ॥
एवं करोति नियतं कृतकृत्यो भवेन्नरः
॥८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डेऽयोध्यामाहात्म्ये चन्द्रसहस्रव्रतोद्यापनविधिवर्णनं नाम तृतीयोऽध्यायः ॥ ३ ॥