मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अयोध्यामाहात्म्यम्, अध्याय १

3
वैष्णवखण्डः · अयोध्यामाहात्म्यम् · 1

विष्णुहरिमाहात्म्यवर्णनम्

अयोध्यामाहात्म्यं प्रारभ्यते

जयति पराशरसूनुः सत्यवतीहृदयनंदनो व्यासः ॥

यस्यास्यकमलगलितं वाङ्मयममृतं जगत्पिबति

॥१॥

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥

देवीं सरस्वतीं चैव ततो जयमुदीरयेत्

॥२॥

व्यास उवाच

हिमवद्वासिनः सर्वे मुनयो वेदपारगाः ॥

त्रिकालज्ञा महात्मानो नैमिषारण्यवासिनः

॥३॥

येऽर्बुदारण्यनिरता दण्डकारण्यवासिनः ॥

महेन्द्राद्रिरता ये वै ये च विन्ध्यनिवासिनः

॥४॥

जंबूवनरता ये च ये गोदावरिवासिनः ॥

वाराणसीश्रिता ये च मथुरावासिनस्तथा

॥५॥

उज्जयिन्यां रता ये च प्रथमाश्रमवासिनः ॥

द्वारावतीश्रिता ये च बदर्य्याश्रयिणस्तथा

॥६॥

मायापुरीश्रिता ये च ये च कान्तीनिवासिनः ॥

एते चान्ये च मुनयः सशिष्या बहवोऽमलाः

॥७॥

कुरुक्षेत्रे महाक्षेत्रे सत्रे द्वादशवार्षिके ॥

वर्तमाने च रामस्य क्षितीशस्य महात्मनः ॥

समागताः समाहूताः सर्वे ते मुनयोऽमलाः

॥८॥

सर्वे ते शुद्धमनसो वेदवेदांगपारगाः ॥

तत्र स्नात्वा यथान्यायं कृत्वा कर्म जपादिकम्

॥९॥

भारद्वाजं पुरस्कृत्य वेदवेदांगपारगम् ॥

आसनेषु विचित्रेषु बृष्यादिषु ह्यनुक्रमात्

॥१०॥

उपविष्टाः कथाश्चक्रुर्नानातीर्थाश्रितास्तदा ॥

कर्मांतरेषु सत्रस्य सुखासीनाः परस्परम्

॥११॥

कथांतेषु ततस्तेषां मुनीनां भावितात्मनाम् ॥

आजगाम महातेजास्तत्र सूतो महामतिः

॥१२॥

व्यासशिष्यः पुराणज्ञो समः हर्षणसंज्ञकः ॥

तान्प्रणम्य यथान्यायं मुनीनुपविवेश सः ॥

उपविष्टो यथान्यायं मुनीनां वचनेन सः

॥१३॥

व्यासशिष्यं मुनिवरं सूतं वै रोमहर्षणम् ॥

तं पप्रच्छुर्मुनिवरा भारद्वाजादयोऽमलाः

॥१४॥

ऋषय ऊचुः

त्वत्तः श्रुता महाभाग नानातीर्थाश्रिताः कथाः ॥

सरहस्यानि सर्वाणि पुराणानि महामते

॥१५॥

सांप्रतं श्रोतुमिच्छामः सरहस्यं सनातनम् ॥

अयोध्याया महापुर्या महिमानं गुणोज्ज्वलम्

॥१६॥

कीदृशी सा सदा मेध्याऽयोध्या विष्णुप्रियापुरी ॥

आद्या सा गीयते वेदे पुरीणां मुक्तिदायिका

॥१७॥

संस्थानं कीदृशं तस्यास्तस्यां के च महीभुजः ॥

कानि तीर्थानि पुण्यानि माहात्म्यं तेषु कीदृशम्

॥१८॥

अयोध्यासेवनान्नृणां फलं स्यात्सूत कीदृशम् ॥

किं चरित्रं सूत तस्याः का नद्यः के च संगमाः

॥१९॥

तत्र स्नानेन किं पुण्यं दानेन च महामते ॥

तत्सर्वं श्रोतुमिच्छामस्त्वत्तः सूत गुणाधिक

॥२०॥

एतत्सर्वं क्रमेणैव तथ्यं त्वं वेत्थ सांप्रतम् ॥

अयोध्याया महापुर्य्या माहात्म्यं वक्तुमर्हसि

॥२१॥

सूत उवाच

व्यासप्रसादाज्जानामि पुराणानि तपोधनाः ॥

सेतिहासानि सर्वाणि सरहस्यानि तत्त्वतः

॥२२॥

तं प्रणम्य प्रवक्ष्यामि माहात्म्यं भवदग्रतः ॥

अयोध्याया महापुर्या यथावत्सरहस्यकम्

॥२३॥

विद्यावन्तं विपुलमतिदं वेदवेदांगवेद्यं श्रेष्ठं शान्तं शमितविषयं शुद्धतेजोविशालम् ॥

वेदव्यासं सततविनतं विश्ववेद्यैकयोनिं पाराशर्य्यं परमपुरुषं सर्वदाऽहं नमामि

॥२४॥

ॐ नमो भगवते तस्मै व्यासायामिततेजसे ॥

यस्य प्रसादाज्जानामि ह्ययोध्यामहिमामहम्

॥२५॥

शृण्वन्तु मुनयः सर्वे सावधानाः सशिष्यकाः ॥

माहात्म्यं कथयिष्यामि अयोध्याया महोदयम्

॥२६॥

उदीरितमगस्त्याय स्कन्देनाश्रावि नारदात् ॥

अगस्त्येन पुरा प्रोक्तं कृष्णद्वैपायनाय तत्

॥२७॥

कृष्णद्वैपायनाच्चैतन्मया प्राप्तं तपोधनाः ॥

तदहं वच्मि युष्मभ्यं श्रोतुकामेभ्य आदरात्

॥२८॥

नमामि परमात्मानं रामं राजीवलोचनम् ॥

अतसीकुसुमश्यामं रावणांतकमव्ययम्

॥२९॥

अयोध्या सा परा मेध्या पुरी दुष्कृतिदुर्ल्लभा ॥

कस्य सेव्या च नाऽयोध्या यस्यां साक्षाद्धरिः स्वयम्

॥३०॥

सरयूतीरमासाद्य दिव्या परमशोभना ॥

अमरावतीनिभा प्रायः श्रिता बहुतपोधनैः

॥३१॥

हस्त्यश्वरथपत्त्याढ्या संपदुच्चा च संस्थिता ॥

प्राकाराढ्यप्रतोलीभिस्तोरणैः कांचनप्रभैः

॥३२॥

सानूपवेषैः सर्वत्र सुविभक्तचतुष्टया ॥

अनेकभूमिप्रासादा बहुभित्तिसुविक्रिया

॥३३॥

पद्मोत्फुल्लशुभोदाभिर्वापीभिरुपशोभिता ॥

देवतायतनैर्दिव्यैर्वेदघोषैश्च मण्डिता

॥३४॥

वीणावेणुमृदंगादिशब्दैरुत्कृष्टतां गता।

शालैस्तालैर्नालिकेरैः पनसामलकैस्तथा

॥३५॥

तथैवाम्रकपित्थाद्यैरशोकैरुपशोभिता ॥

आरामैर्विविधैर्युक्ता सर्वर्तुफलपादपैः

॥३६॥

मालतीजातिबकुलपाटलीनागचंपकैः ॥

करवीरैः कर्णिकारैः केतकीभिरलंकृता

॥३७॥

निम्बजंवीरकदलीमातुलिंगमहाफलैः ॥

लसच्चंदनगंधाढ्यैर्नागरैरुपशोभिता

॥३८॥

देवतुल्यप्रभायुक्तैर्नृपपुत्रैश्च संयुता ॥

सुरूपाभिर्वरस्त्रीभिर्देवस्त्रीभिरिवावृता

॥३९॥

श्रेष्ठैः सत्कविभिर्युक्ता बृहस्पतिसमैर्द्विजैः ॥

वणिग्जनैस्तथा पौरैः कल्पवृक्षैरिवावृता

॥४०॥

अश्वैरुच्चैःश्रवस्तुल्यैर्दंतिभिर्दिग्गजैरिव ॥

इति नानाविधैर्भावैरुपेतेन्द्रपुरी समा

॥४१॥

यस्यां जाता महीपालाः सूर्यवंशसमुद्भवाः ॥

इक्ष्वाकुप्रमुखाः सर्वे प्रजापालनतत्पराः

॥४२॥

यस्यास्तीरे पुण्यतोया कूजद्भृंगविहंगमा ॥

सरयूर्नाम तटिनी मानसप्रभवोल्लसा

॥४३॥

धर्मद्रवपरीता सा घर्घरोत्तमसंगमा ॥

मुनीश्वराश्रिततटा जागर्ति जगदुच्छ्रिता

॥४४॥

दक्षिणाच्चरणांगुष्ठान्निःसृता जाह्नवी हरेः ॥

वामांगुष्ठान्मुनिवराः सरयूर्निर्गता शुभा

॥४५॥

तस्मादिमे पुण्यतमे नद्यौ देवनमस्कृते ॥

एतयोः स्नानमात्रेण ब्रह्महत्यां व्यपोहति

॥४६॥

तामयोध्यामथ प्राप्तोऽगस्त्यः कुम्भोद्भवो मुनिः ॥

यात्रार्थं तीर्थमाहात्म्यं ज्ञात्वा स्कन्दप्रसादतः

॥४७॥

आगत्य तु इतः सोऽपि कृऽत्वा यात्रां क्रमेण च ॥

यथोक्तेन विधानेन स्नात्वा संतर्प्य तान्पितॄन्

॥४८॥

पूजयित्वा यथान्यायं देवताः सकला अपि ॥

सर्वाण्यपि च तीर्थानि नमस्कृत्य यथाविधि

॥४९॥

कृतकृत्योर्ज्जितानन्दस्तीर्थमाहात्म्यदर्शनात् ॥

अभूदगस्त्यो रूपेण पुलकां चितविग्रहः

॥५०॥

स त्रिरात्रं स्थितस्तत्र यात्रां कृत्वा यथाविधि ॥

स्तुवन्नयोध्यामाहात्म्यं प्रतस्थे मुनिसत्तमः

॥५१॥

तमायांतं विलोक्याशु बहुलानन्दसुन्दरम् ॥

कृष्णद्वैपायनो व्यासः पप्रच्छानंदकारणम्

॥५२॥

व्यास उवाच

कुतः समागतो ब्रह्मन्सांप्रतं मुनिसत्तमः ॥

परमानंदसंदोहः समभूत्सांप्रतं तव

॥५३॥

कस्मादानंदपोषोऽभूत्तव ब्रह्मन्वदस्व मे ॥

ममापि भवदानंदात्प्रमोदो हृदि जायते

॥५४॥

अगस्त्य उवाच

अहो महदथाश्चर्य्यं विस्मयो मुनिसत्तम ॥

दृष्ट्वा प्रभावं मेऽद्याभूदयोध्यायास्तपोधन

॥५५॥

तस्मादानंदसंदोहः समभून्मम सांप्रतम् ॥

तच्छ्रुत्वागस्त्यवचनं व्यासः प्रोवाच तं मुनिम्

॥५६॥

व्यास उवाच

भगवन्ब्रूहि तत्त्वेन विस्तरात्सरहस्यकम् ॥

अयोध्याया महापुर्या महिमानं गुणाधिकम्

॥५७॥

कः क्रमस्तीर्थयात्रायाः कानि तीर्थानि को विधिः ॥

कि फलं स्नानतस्तत्र दानस्य च महामुने ॥

एतत्सर्वं समाचक्ष्व विस्तराद्वदतां वर

॥५८॥

अगस्त्य उवाच

अहो धन्यतमा बुद्धिस्तव जाता तपोधन ॥

दृश्यते येन पृच्छा ते ह्ययोध्यामहिमाश्रिता

॥५९॥

अकारो ब्रह्म च प्रोक्तं यकारो विष्णुरुच्यते ॥

धकारो रुद्ररूपश्च अयोध्यानाम राजते

॥६०॥

सर्वोपपातकैर्युक्तैर्ब्रह्महत्यादिपातकैः ॥

नायोध्या शक्यते यस्मात्तामयोध्यां ततो विदुः

॥६१॥

विष्णोराद्या पुरी येयं क्षितिं न स्पृशति द्विज ॥

विष्णोः सुदर्शने चक्रे स्थिता पुण्यकरी क्षितौ

॥६२॥

केन वर्णयितुं शक्यो महिमाऽस्यास्तपोधन ॥

यत्र साक्षात्स्वयं देवो विष्णुर्वसति सादरः

॥६३॥

सहस्रधारामारभ्य योजनं पूर्वतो दिशि ॥

प्रतीचि दिशि तथैव योजनं समतोवधिः

॥६४॥

दक्षिणोत्तरभागे तु सरयूतमसावधिः ॥

एतत्क्षेत्रस्य संस्थानं हरेरन्तर्गृहं स्थितम् ॥

मत्स्याकृतिरियं विप्र पुरी विष्णोरुदीरिता

॥६५॥

पश्चिमे तस्य मूर्द्धा तु गोप्रतारासिता द्विज

॥६६॥

पूर्वतः पृष्ठभागो हि दक्षिणोत्तरमध्यमः ॥

तस्यां पुर्य्यां महाभाग नाम्ना विष्णुर्हरिः स्वयम् ॥

पूर्वंदृष्टप्रभावोऽसौ प्राधान्येन वसत्यपि

॥६७॥

व्यास उवाच

भगवन्किं प्रभावोऽसौ योऽयं विष्णुहरिस्त्वया ॥

कीर्तितो मुनिशार्दूल प्रसिद्धिं गतवान्कथम् ॥

एतत्सर्वं समाचक्ष्व विस्तरेण ममाग्रतः

॥६८॥

अगस्त्य उवाच

विष्णुशर्मेति विख्यातः पुराभूद्ब्राह्मणोत्तमः ॥

वेदवेदांगतत्त्वज्ञो धर्मकर्मसमाश्रितः

॥६९॥

योगध्यानरतो नित्यं विष्णुभक्तिपरायणः ॥

स कदाचित्तीर्थयात्रां कुर्वन्वैष्णवसत्तमः ॥

अयोध्यामागतो विष्णुर्विष्णुःसाक्षाद्वसेदिति

॥७०॥

चिंतयन्मनसा वीरस्तपः कर्तुं समुद्यतः ॥

स वै तत्र तपस्तेपे शाकमूलफलाशनः

॥७१॥

ग्रीष्मे पंचाग्निमध्यस्थो ह्यतपत्स महातपाः ॥

वार्षिके च निरालम्बो हेमन्ते च सरोवरे

॥७२॥

स्नात्वा यथोक्तविधिना कृत्वा विष्णोस्तथार्चनम् ॥

वशीकृत्येन्द्रियग्रामं विशुद्धेनांतरात्मना

॥७३॥

मनो विष्णौ समावेश्य विधाय प्राणसंयमम् ॥

ॐकारोच्चारणाद्धीमान्हृदि पद्मं विकासयन्

॥७४॥

तन्मध्ये रविसोमाग्निमण्डलानि यथाविधि ॥

कल्पयित्वा हरिं मूर्तं यस्मिन्देशे सनातनम्

॥७५॥

पीतांबरधरं विष्णुं शंखचक्रगदाधरम् ॥

तं च पुष्पैः समभ्यर्च्य मनस्तस्मिन्निवेश्य च

॥७६॥

ब्रह्मरूपं हरिं ध्यायञ्जपन्वै द्वादशाक्षरम् ॥

वायुभक्षः स्थितस्तत्र विप्रस्त्रीन्वत्सरान्वसन्

॥७७॥

ततो द्विजवरो ध्यात्वा स्तुतिं चक्रे हरेरिमाम् ॥

प्रणिपत्य जगन्नाथं चराचरगुरुं हरिम् ॥

विष्णुशर्माथ तुष्टाव नारायणमतंद्रितः

॥७८॥

विष्णुशर्म्मोवाच

प्रसीद भगवन्विष्णो प्रसीद पुरुषोत्तम ॥

प्रसीद देवदेवेश प्रसीद कमलेक्षण

॥७९॥

जय कृष्ण जयाचिंत्य जय विष्णो जयाव्यय ॥

जय यज्ञपते नाथ जय विष्णो पते विभो

॥८०॥

जय पापहरानंत जय जन्मज्वरापह ॥

नमः कमलनाभाय नमः कमलमालिने

॥८१॥

नमः सर्वेश भूतेश नमः कैटभसूदन ॥

नमस्त्रैलोक्यनाथाय जगन्मूल जगत्पते

॥८२॥

नमो देवाधिदेवाय नमो नारायणाय वै ॥

नमः कृष्णाय रामाय नमश्चक्रायुधाय च

॥८३॥

त्वं माता सर्वलोकानां त्वमेव जगतः पिता ॥

भयार्त्तानां सुहृन्मित्रं त्वं पिता त्वं पितामहः

॥८४॥

त्वं हविस्त्वं वषट्कारस्त्वं प्रभुस्त्वं हुताशनः ॥

करणं कारणं कर्त्ता त्वमेव परमेश्वरः

॥८५॥

शंखचक्रगदापाणे मां समुद्धर माधव

॥८६॥

प्रसीद मंदरधर प्रसीद मधुसूदन ॥

प्रसीद कमलाकान्त प्रसीद भुवनाधिप

॥८७॥

अगस्त्य उवाच

इत्येवं स्तुवतस्तस्य मनोभक्त्या महात्मनः ॥

आविर्बभूव विश्वात्मा विष्णुर्गरुडवाहनः

॥८८॥

शंखचक्रगदापाणिः पीतांबरधरोऽच्युतः ॥

उवाच स प्रसन्नात्मा विष्णुशर्माणमव्ययः

॥८९॥

श्रीभगवानुवाच

तुष्टोऽस्मि भवतो वत्स महता तपसाऽधुना ॥

स्तोत्रेणानेन सुमते नष्टपापोऽसि सांप्रतम्

॥९०॥

वरं वरय विप्रेन्द्र वरदोऽहं तवाग्रतः ॥

नाऽतप्ततपसा द्रष्टुं शक्यः केनाप्यहं द्विज

॥९१॥

विष्णुशर्म्मोवाच

कृतकृत्योऽस्मि देवेश सांप्रतं तव दर्शनात् ॥

त्वद्भक्तिमचलामेकां मम देहि जगत्पते

॥९२॥

श्रीभगवानुवाच

भक्तिरस्त्वचला मे वै वैष्णवी मुक्तिदायिनी ॥

अत्रैवास्त्वचला मे वै जाह्नवी मुक्तिदायिनी

॥९३॥

इदं स्थानं महाभाग त्वन्नाम्ना ख्यातिमेष्यति

॥९४॥

अगस्त्य उवाच

इत्युक्त्वा देवदेवेशश्चक्रेणोत्खाय तत्स्थलम् ॥

जलं प्रकटयामास गांगं पातालमंडलात्

॥९५॥

जलेन तेन भगवान्पवित्रेण दयांबुधिः ॥

नीरजस्तु भूमितलं क्षणाच्चक्रे कृपावशात्

॥९६॥

चक्रतीर्थमिति ख्यातं ततः प्रभृति तद्द्विज ॥

जातं त्रैलोक्यविख्यातमघौघध्वंसकृच्छुभम्

॥९७॥

तत्र स्नानेन दानेन विष्णुलोकं व्रजेन्नरः

॥९८॥

ततः स भगवान्भूयो विष्णुशर्माणमच्युतः ॥

कृपया परया युक्त उवाच द्विजवत्सलः

॥९९॥

श्रीभगवानुवाच

त्वन्नामपूर्विका विप्र मन्मूर्तिरिह तिष्ठतु ॥

विष्णुहरीति विख्याता भक्तानां मुक्तिदायिनी

॥१००॥

अगस्त्य उवाच

इति श्रुत्वा वचो विप्रो वासुदेवस्य बुद्धिमान् ॥

स्वनामपूर्विकां मूर्तिं स्थापयामास चक्रिणः

॥१०१॥

ततः प्रभति विप्रेश शंखचक्रगदाधरः ॥

पीतवासाश्चतुर्बाहुर्नाम्ना विष्णुहरिः स्थितः

॥१०२॥

कार्तिके शुक्लपक्षस्य प्रारभ्य दशमी तिथिम् ॥

पूर्णिमामवधिं कृत्वा यात्रा सांवत्सरी भवेत्

॥१०३॥

चक्रतीर्थे नरः स्नात्वा सर्वपापैः प्रमुच्यते ॥

बहुवर्षसहस्राणि स्वर्गलोके महीयते

॥१०४॥

पितॄनुद्दिश्य यस्तत्र पिंडान्निर्वापयिष्यति ॥

तृप्तास्तु पितरो यान्ति विष्णुलोकं न संशयः

॥१०५॥

चक्रतीर्थे नरः स्नात्वा दृष्ट्वा विष्णुहरिं विभुम् ॥

सर्वपापक्षयं प्राप्य नाकपृष्ठे महीयते

॥१०६॥

स्वशक्त्या तत्र दानानि दत्त्वा निष्कल्मषो नरः ॥

विष्णुलोके वसेद्धीमान्यावदिन्द्राश्चतुर्दश

॥१०७॥

अन्यदापि नरस्तत्र चक्रतीथे जितेंद्रियः ॥

दृष्ट्वा सकृद्धरिं देवं सर्वपापैः प्रमुच्यते

॥१०८॥

इति सकलगुणाब्धिर्ध्येयमूर्तिश्चिदात्मा हरिरिह परमूर्त्या तस्थिवान्मुक्तिहेतोः ॥

तमिह बहुलभक्त्या चक्रतीर्थाभिषेकी वसति सुकृतिमूर्त्तिर्योऽर्चयेद्विष्णुलोके

॥१०९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखंडेऽयोध्यामाहात्म्ये विष्णुहरिमाहात्म्यवर्णनंनाम प्रथमोऽध्यायः ॥ १ ॥