मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय १२

3
नवमस्कन्धः · 12

इक्ष्वाकूणां कुशादिसुमित्रान्तानां वर्णनम्

श्रीशुक उवाच

कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः ।

पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः

॥१॥

देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।

ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः

॥२॥

खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः ।

ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः

॥३॥

शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।

योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम्

॥४॥

पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् ।

सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः

॥५॥

सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः ।

कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः

॥६॥

तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः ।

महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत

॥७॥

ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।

ततो बृहद्बलो यस्तु पित्रा ते समरे हतः

॥८॥

एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् ।

बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः

॥९॥

ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति ।

प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः

॥१०॥

सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।

प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः

॥११॥

भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।

तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित्

॥१२॥

बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ।

रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः

॥१३॥

तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः ।

ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः

॥१४॥

रणको भविता तस्मात् सुरथस्तनयस्ततः ।

सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः

॥१५॥

इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति ।

यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ

॥१६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु