मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय १४

3
नवमस्कन्धः · 14

अथातः श्रूयतां राजन् वंशः सोमस्य पावनः

चंद्रवंशवर्णनं, बुधस्य जन्म, तस्मान्मनुपुत्र्यामिलायां जातस्य पुरूरवस उपाख्यानं च - श्रीशुक उवाच ।

अथातः श्रूयतां राजन् वंशः सोमस्य पावनः ।

यस्मिन्नैलादयो भूपाः कीर्त्यन्ते पुण्यकीर्तयः

॥१॥

सहस्रशिरसः पुंसो नाभिह्रद सरोरुहात् ।

जातस्यासीत् सुतो धातुः अत्रिः पितृसमो गुणैः

॥२॥

तस्य दृग्भ्योऽभवत् पुत्रः सोमोऽमृतमयः किल ।

विप्रौषध्युडुगणानां ब्रह्मणा कल्पितः पतिः

॥३॥

सोऽयजद् राजसूयेन विजित्य भुवनत्रयम् ।

पत्नीं बृहस्पतेर्दर्पात् तारां नामाहरद् बलात्

॥४॥

यदा स देवगुरुणा याचितोऽभीक्ष्णशो मदात् ।

नात्यजत् तत्कृते जज्ञे सुरदानवविग्रहः

॥५॥

शुक्रो बृहस्पतेर्द्वेषाद् अग्रहीत् सासुरोडुपम् ।

हरो गुरुसुतं स्नेहात् सर्वभूतगणावृतः

॥६॥

सर्वदेवगणोपेतो महेन्द्रो गुरुमन्वयात् ।

सुरासुरविनाशोऽभूत् समरस्तारकामयः

॥७॥

निवेदितोऽथाङ्गिरसा सोमं निर्भर्त्स्य विश्वकृत् ।

तारां स्वभर्त्रे प्रायच्छद् अन्तर्वत्नीमवैत् पतिः

॥८॥

त्यज त्यजाशु दुष्प्रज्ञे मत्क्षेत्रात् आहितं परैः ।

नाहं त्वां भस्मसात्कुर्यां स्त्रियं सान्तानिकः सति

॥९॥

तत्याज व्रीडिता तारा कुमारं कनकप्रभम् ।

स्पृहामाङ्गिरसश्चक्रे कुमारे सोम एव च

॥१०॥

ममायं न तवेत्युच्चैः तस्मिन् विवदमानयोः ।

पप्रच्छुः ऋषयो देवा नैवोचे व्रीडिता तु सा

॥११॥

कुमारो मातरं प्राह कुपितोऽलीकलज्जया ।

किं न वोचस्यसद्वृत्ते आत्मावद्यं वदाशु मे

॥१२॥

ब्रह्मा तां रह आहूय समप्राक्षीच्च सान्त्वयन् ।

सोमस्येत्याह शनकैः सोमस्तं तावदग्रहीत्

॥१३॥

तस्यात्मयोनिरकृत बुध इत्यभिधां नृप ।

बुद्ध्या गम्भीरया येन पुत्रेणापोडुराण्मुदम् ।

ततः पुरूरवा जज्ञे इलायां य उदाहृतः ।

तस्य रूपगुणौदार्य शीलद्रविणविक्रमान्

॥१५॥

श्रुत्वोर्वशीन्द्रभवने गीयमानान् सुरर्षिणा ।

तदन्तिकमुपेयाय देवी स्मरशरार्दिता

॥१६॥

मित्रावरुणयोः शापाद् आपन्ना नरलोकताम् ।

निशम्य पुरुषश्रेष्ठं कन्दर्पमिव रूपिणम् ।

धृतिं विष्टभ्य ललना उपतस्थे तदन्तिके

॥१७॥

स तां विलोक्य नृपतिः हर्षेणोत्फुल्ललोचनः ।

उवाच श्लक्ष्णया वाचा देवीं हृष्टतनूरुहः

॥१८॥

श्रीराजोवाच

स्वागतं ते वरारोहे आस्यतां करवाम किम् ।

संरमस्व मया साकं रतिर्नौ शाश्वतीः समाः

॥१९॥

उर्वश्युवाच

कस्यास्त्वयि न सज्जेत मनो दृष्टिश्च सुन्दर ।

यदङ्गान्तरमासाद्य च्यवते ह रिरंसया

॥२०॥

एतौ उरणकौ राजन् न्यासौ रक्षस्व मानद ।

संरंस्ये भवता साकं श्लाघ्यः स्त्रीणां वरः स्मृतः

॥२१॥

घृतं मे वीर भक्ष्यं स्यात् नेक्षे त्वान्यत्र मैथुनात् ।

विवाससं तत् तथेति प्रतिपेदे महामनाः

॥२२॥

अहो रूपमहो भावो नरलोकविमोहनम् ।

को न सेवेत मनुजो देवीं त्वां स्वयमागताम्

॥२३॥

तया स पुरुषश्रेष्ठो रमयन्त्या यथार्हतः ।

रेमे सुरविहारेषु कामं चैत्ररथादिषु

॥२४॥

रममाणस्तया देव्या पद्मकिञ्जल्क गन्धया ।

तन्मुखामोदमुषितो मुमुदेऽहर्गणान् बहून्

॥२५॥

अपश्यन् उर्वशीं इन्द्रो गन्धर्वान् समचोदयत् ।

उर्वशीरहितं मह्यं आस्थानं नातिशोभते

॥२६॥

ते उपेत्य महारात्रे तमसि प्रत्युपस्थिते ।

उर्वश्या उरणौ जह्रुः न्यस्तौ राजनि जायया

॥२७॥

निशम्याक्रन्दितं देवी पुत्रयोः नीयमानयोः ।

हतास्म्यहं कुनाथेन नपुंसा वीरमानिना

॥२८॥

यद् विश्रम्भादहं नष्टा हृतापत्या च दस्युभिः ।

यः शेते निशि संत्रस्तो यथा नारी दिवा पुमान्

॥२९॥

इति वाक् सायकैर्बिद्धः प्रतोत्त्रैरिव कुञ्जरः ।

निशि निस्त्रिंशमादाय विवस्त्रोऽभ्यद्रवद् रुषा

॥३०॥

ते विसृज्योरणौ तत्र व्यद्योतन्त स्म विद्युतः ।

आदाय मेषावायान्तं नग्नमैक्षत सा पतिम्

॥३१॥

ऐलोऽपि शयने जायां अपश्यन् विमना इव ।

तच्चित्तो विह्वलः शोचन् बभ्रामोन्मत्तवन् महीम्

॥३२॥

स तां वीक्ष्य कुरुक्षेत्रे सरस्वत्यां च तत्सखीः ।

पञ्च प्रहृष्टवदनाः प्राह सूक्तं पुरूरवाः

॥३३॥

अहो जाये तिष्ठ तिष्ठ घोरे न त्यक्तुमर्हसि ।

मां त्वमद्याप्यनिर्वृत्य वचांसि कृणवावहै

॥३४॥

सुदेहोऽयं पतत्यत्र देवि दूरं हृतस्त्वया ।

खादन्त्येनं वृका गृध्राः त्वत्प्रसादस्य नास्पदम्

॥३५॥

उर्वश्युवाच

मा मृथाः पुरुषोऽसि त्वं मा स्म त्वाद्युर्वृका इमे ।

क्वापि सख्यं न वै स्त्रीणां वृकाणां हृदयं यथा

॥३६॥

स्त्रियो ह्यकरुणाः क्रूरा दुर्मर्षाः प्रियसाहसाः ।

घ्नन्त्यल्पार्थेऽपि विश्रब्धं पतिं भ्रातरमप्युत

॥३७॥

विधायालीकविश्रम्भं अज्ञेषु त्यक्तसौहृदाः ।

नवं नवमभीप्सन्त्यः पुंश्चल्यः स्वैरवृत्तयः

॥३८॥

संवत्सरान्ते हि भवान् एकरात्रं मयेश्वरः ।

वस्यत्यपत्यानि च ते भविष्यन्त्यपराणि भोः

॥३९॥

अन्तर्वत्नीमुपालक्ष्य देवीं स प्रययौ पुरीम् ।

पुनस्तत्र गतोऽब्दान्ते उर्वशीं वीरमातरम्

॥४०॥

उपलभ्य मुदा युक्तः समुवास तया निशाम् ।

अथैनमुर्वशी प्राह कृपणं विरहातुरम्

॥४१॥

गन्धर्वान् उपधावेमान् तुभ्यं दास्यन्ति मामिति ।

तस्य संस्तुवतस्तुष्टा अग्निस्थालीं ददुर्नृप ।

उर्वशीं मन्यमानस्तां सोऽबुध्यत चरन् वने

॥४२॥

स्थालीं न्यस्य वने गत्वा गृहानाध्यायतो निशि ।

त्रेतायां सम्प्रवृत्तायां मनसि त्रय्यवर्तत

॥४३॥

स्थालीस्थानं गतोऽश्वत्थं शमीगर्भं विलक्ष्य सः ।

तेन द्वे अरणी कृत्वा उर्वशीलोककाम्यया

॥४४॥

उर्वशीं मन्त्रतो ध्यायन् अधरारणिमुत्तराम् ।

आत्मानं उभयोर्मध्ये यत्तत् प्रजननं प्रभुः

॥४५॥

तस्य निर्मन्थनात् जातो जातवेदा विभावसुः ।

त्रय्या स विद्यया राज्ञा पुत्रत्वे कल्पितस्त्रिवृत्

॥४६॥

तेनायजत यज्ञेशं भगवन्तं अधोक्षजम् ।

उर्वशीलोकमन्विच्छन् सर्वदेवमयं हरिम्

॥४७॥

एक एव पुरा वेदः प्रणवः सर्ववाङ्मयः ।

देवो नारायणो नान्य एकोऽग्निर्वर्ण एव च

॥४८॥

पुरूरवस एवासीत् त्वयी त्रेतामुखे नृप ।

अग्निना प्रजया राजा लोकं गान्धर्वमेयिवान्

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे चतुर्दशोऽध्यायः ॥ १४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु