मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ९

3
नवमस्कन्धः · 9

गंगावतरणकथा, भगीरथवृत्तं सौदासचरितं च

श्रीशुक उवाच

अंशुमांश्च तपस्तेपे गंगानयनकाम्यया ।

कालं महान्तं नाशक्नोत् ततः कालेन संस्थितः

॥१॥

दिलीपस्तत्सुतस्तद्वद् अशक्तः कालमेयिवान् ।

भगीरथस्तस्य पुत्रः तेपे स सुमहत् तपः

॥२॥

दर्शयामास तं देवी प्रसन्ना वरदास्मि ते ।

इत्युक्तः स्वं अभिप्रायं शशंसावनतो नृपः

॥३॥

कोऽपि धारयिता वेगं पतन्त्या मे महीतले ।

अन्यथा भूतलं भित्त्वा नृप यास्ये रसातलम्

॥४॥

किं चाहं न भुवं यास्ये नरा मय्यामृजन्त्यघम् ।

मृजामि तदघं क्वाहं राजन् तत्र विचिन्त्यताम्

॥५॥

श्रीभगीरथ उवाच

साधवो न्यासिनः शान्ता ब्रह्मिष्ठा लोकपावनाः ।

हरन्ति अघं ते अंगसंगात् तेष्वास्ते ह्यघभित् हरिः

॥६॥

धारयिष्यति ते वेगं रुद्रस्त्वात्मा शरीरिणाम् ।

यस्मिन् ओतं इदं प्रोतं विश्वं शाटीव तन्तुषु

॥७॥

इत्युक्त्वा स नृपो देवं तपसा तोषयच्छिवम् ।

कालेनाल्पीयसा राजन् तस्येशः समतुष्यत

॥८॥

तथेति राज्ञाभिहितं सर्वलोकहितः शिवः ।

दधारावहितो गंगां पादपूतजलां हरेः

॥९॥

भगीरथः स राजर्षिः निन्ये भुवनपावनीम् ।

यत्र स्वपितॄणां देहा भस्मीभूताः स्म शेरते

॥१०॥

रथेन वायुवेगेन प्रयान्तं अनुधावती ।

देशान् पुनन्ती निर्दग्धान् आसिञ्चत् सगरात्मजान्

॥११॥

यज्जलस्पर्शमात्रेण ब्रह्मदण्डहता अपि ।

सगरात्मजा दिवं जग्मुः केवलं देहभस्मभिः

॥१२॥

भस्मीभूतांगसंगेन स्वर्याताः सगरात्मजाः ।

किं पुनः श्रद्धया देवीं सेवन्ते ये धृतव्रताः

॥१३॥

न ह्येतत् परमाश्चर्यं स्वर्धुन्या यदिहोदितम् ।

अनन्तचरणाम्भोज प्रसूताया भवच्छिदः

॥१४॥

सन्निवेश्य मनो यस्मिन् श्रद्धया मुनयोऽमलाः ।

त्रैगुण्यं दुस्त्यजं हित्वा सद्यो यातास्तदात्मताम्

॥१५॥

श्रुतो भगीरथाज्जज्ञे तस्य नाभोऽपरोऽभवत् ।

सिन्धुद्वीपः ततस्तस्मात् अयुतायुः ततोऽभवत्

॥१६॥

ऋतूपर्णो नलसखो योऽश्वविद्यामयान्नलात् ।

दत्त्वाक्षहृदयं चास्मै सर्वकामस्तु तत्सुतम्

॥१७॥

ततः सुदासः तत्पुत्रो मदयन्तीपतिर्नृपः ।

आहुर्मित्रसहं यं वै कल्माषाङ्घ्रिमुत क्वचित् ।

वसिष्ठशापाद्रक्षोऽभूत् अनपत्यः स्वकर्मणा

॥१८॥

श्रीराजोवाच

किं निमित्तो गुरोः शापः सौदासस्य महात्मनः ।

एतद् वेदितुमिच्छामः कथ्यतां न रहो यदि

॥१९॥

श्रीशुक उवाच

सौदासो मृगयां किञ्चित् चरन् रक्षो जघान ह ।

मुमोच भ्रातरं सोऽथ गतः प्रतिचिकीर्षया

॥२०॥

सञ्चिन्तयन् अघं राज्ञः सूदरूपधरो गृहे ।

गुरवे भोक्तुकामाय पक्त्वा निन्ये नरामिषम्

॥२१॥

परिवेक्ष्यमाणं भगवान् विलोक्य अभक्ष्यमञ्जसा ।

राजानं अशपत् क्रुद्धो रक्षो ह्येवं भविष्यसि

॥२२॥

रक्षःकृतं तद्विदित्वा चक्रे द्वादशवार्षिकम् ।

सोऽपि अपोऽञ्जलिनादाय गुरुं शप्तुं समुद्यतः

॥२३॥

वारितो मदयन्त्यापो रुशतीः पादयोर्जहौ ।

दिशः खमवनीं सर्वं पश्यन् जीवमयं नृपः

॥२४॥

राक्षसं भावमापन्नः पादे कल्माषतां गतः ।

व्यवायकाले ददृशे वनौकोदम्पती द्विजौ

॥२५॥

क्षुधार्तो जगृहे विप्रं तत्पत्न्याहाकृतार्थवत् ।

न भवान् राक्षसः साक्षात् इक्ष्वाकूणां महारथः

॥२६॥

मदयन्त्याः पतिर्वीर नाधर्मं कर्तुमर्हसि ।

देहि मेऽपत्यकामाया अकृतार्थं पतिं द्विजम्

॥२७॥

देहोऽयं मानुषो राजन् पुरुषस्याखिलार्थदः ।

तस्मादस्य वधो वीर सर्वार्थवध उच्यते

॥२८॥

एष हि ब्राह्मणो विद्वान् तपःशीलगुणान्वितः ।

आरिराधयिषुर्ब्रह्म महापुरुषसंज्ञितम् ।

सर्वभूतात्मभावेन भूतेष्वन्तर्हितं गुणैः

॥२९॥

सोऽयं ब्रह्मर्षिवर्यस्ते राजर्षिप्रवराद् विभो ।

कथमर्हति धर्मज्ञ वधं पितुरिवात्मजः

॥३०॥

तस्य साधोरपापस्य भ्रूणस्य ब्रह्मवादिनः ।

कथं वधं यथा बभ्रोः मन्यते सन्मतो भवान्

॥३१॥

यइ अयं क्रियते भक्षः तर्हि मां खाद पूर्वतः ।

न जीविष्ये विना येन क्षणं च मृतकं यथा

॥३२॥

एवं करुणभाषिण्या विलपन्त्या अनाथवत् ।

व्याघ्रः पशुमिवाखादत् सौदासः शापमोहितः

॥३३॥

ब्राह्मणी वीक्ष्य दिधिषुं पुरुषादेन भक्षितम् ।

शोचन्ति आत्मानमुर्वीशं अशपत् कुपिता सती

॥३४॥

यस्मान्मे भक्षितः पाप कामार्तायाः पतिस्त्वया ।

तवापि मृत्युः आधानाद् अकृतप्रज्ञ दर्शितः

॥३५॥

एवं मित्रसहं शप्त्वा पतिलोकपरायणा ।

तदस्थीनि समिद्धेऽग्नौ प्रास्य भर्तुर्गतिं गता

॥३६॥

विशापो द्वादशाब्दान्ते मैथुनाय समुद्यतः ।

विज्ञाय ब्राह्मणीशापं महिष्या स निवारितः

॥३७॥

अत ऊर्ध्वं स तत्याज स्त्रीसुखं कर्मणाप्रजाः ।

वसिष्ठस्तदनुज्ञातो मदयन्त्यां प्रजामधात्

॥३८॥

सा वै सप्त समा गर्भं अबिभ्रन्न व्यजायत ।

जघ्नेऽश्मनोदरं तस्याः सोऽश्मकस्तेन कथ्यते

॥३९॥

अश्मकान् मूलको जज्ञे यः स्त्रीभिः परिरक्षितः ।

नारीकवच इत्युक्तो निःक्षत्रे मूलकोऽभवत्

॥४०॥

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्ततः ।

राजा विश्वसहो यस्य खट्वांगश्चक्रवर्त्यभूत्

॥४१॥

यो देवैरर्थितो दैत्यान् अवधीद् युधि दुर्जयः ।

मुहूर्तं आयुः ज्ञात्वैत्य स्वपुरं सन्दधे मनः

॥४२॥

न मे ब्रह्मकुलात् प्राणाः कुलदैवान्न चात्मजाः ।

न श्रियो न मही राज्यं न दाराश्चातिवल्लभाः

॥४३॥

न बाल्येऽपि मतिर्मह्यं अधर्मे रमते क्वचित् ।

नापश्यं उत्तमश्लोकात् अन्यत् किञ्चन वस्त्वहम्

॥४४॥

देवैः कामवरो दत्तो मह्यं त्रिभुवनेश्वरैः ।

न वृणे तमहं कामं भूतभावनभावनः

॥४५॥

ये विक्षिप्तेन्द्रियधियो देवास्ते स्वहृदि स्थितम् ।

न विन्दन्ति प्रियं शश्वद् आत्मानं किमुतापरे

॥४६॥

अथेशमायारचितेषु संगं गुणेषु गन्धर्वपुरोपमेषु ।

रूढं प्रकृत्यात्मनि विश्वकर्तुः भावेन हित्वा तमहं प्रपद्ये

॥४७॥

इति व्यवसितो बुद्ध्या नारायणगृहीतया ।

हित्वान्यभावमज्ञानं ततः स्वं भावमास्थितः

॥४८॥

यत्तद्ब्रह्म परं सूक्ष्मं अशून्यं शून्यकल्पितम् ।

भगवान् वासुदेवेति यं गृणन्ति हि सात्वताः

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे नवमोऽध्यायः ॥ ९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु