श्रीरामचरितम्
श्रीशुक उवाच
भगवान् आत्मनात्मानं राम उत्तमकल्पकैः ।
सर्वदेवमयं देवं ईजे आचार्यवान् मखैः
॥१॥होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।
अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः
॥२॥आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।
मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः
॥३॥इत्ययं तदलङ्कार वासोभ्यामवशेषितः ।
तथा राज्ञ्यपि वैदेही सौमङ्गल्या अवशेषिता
॥४॥ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।
प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे
॥५॥अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।
यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा
॥६॥नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।
उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्र्यये
॥७॥कदाचित् लोकजिज्ञासुः गूढो रात्र्यामलक्षितः ।
चरन् वाचोऽश्रृणोद् रामो भार्यां उद्दिश्य कस्यचित्
॥८॥नाहं बिभर्मि त्वां दुष्टां असतीं परवेश्मगाम् ।
स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः
॥९॥इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः ।
पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम्
॥१०॥अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ ।
कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ।
अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।
तक्षः पुष्कल इत्यास्तां भरतस्य महीपते
॥१२॥सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।
गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम्
॥१३॥तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।
शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।
हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम्
॥१४॥मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।
ध्यायन्ती रामचरणौ विवरं प्रविवेश ह
॥१५॥तर् श्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।
स्मरंस्तस्या गुणान् तान् तान् नाशक्नोत् रोद्धुमीश्वरः
॥१६॥स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।
अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः
॥१७॥तत ऊर्ध्वं ब्रह्मचर्यं धारयन् अजुहोत् प्रभुः ।
त्रयोदशाब्दसाहस्रं अग्निहोत्रं अखण्डितम्
॥१८॥स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः ।
स्वपादपल्लवं राम आत्मज्योतिरगात् ततः
॥१९॥नेदं यशो रघुपतेः सुरयाच्ञयात्त ।
लीलातनोरधिकसाम्यविमुक्तधाम्नः ।
रक्षोवधो जलधिबन्धनमस्त्र पूगैः ।
किं तस्य शत्रुहनने कपयः सहायाः
॥२०॥यस्यामलं नृपसस्सु यशोऽधुनापि ।
गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।
तं नाकपालवसुपालकिरीटजुष्ट ।
पादाम्बुजं रघुपतिं शरणं प्रपद्ये
॥२१॥स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।
कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः
॥२२॥पुरुषो रामचरितं श्रवणैरुपधारयन् ।
आनृशंस्यपरो राजन् कर्मबन्धैः विमुच्यते
॥२३॥श्रीराजोवाच
कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः ।
तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे
॥२४॥श्रीशुक उवाच
अथादिशद् दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः ।
आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः
॥२५॥आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः ।
स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव
॥२६॥प्रासादगोपुरसभा चैत्यदेवगृहादिषु ।
विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम्
॥२७॥पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।
आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम्
॥२८॥तं उपेयुस्तत्र तत्र पौरा अर्हणपाणयः ।
आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम्
॥२९॥ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।
आरुह्य हर्म्याण्यरविन्दलोचनं अतृप्तनेत्राः कुसुमैरवाकिरन्
॥३०॥अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।
अनन्ताखिलकोषाढ्यं मनर्घ्योरुपरिच्छदम्
॥३१॥विद्रुमोदुम्बरद्वारैः वैदूर्य स्तंभपङ्क्तिभिः ।
स्थलैर्मारकतैः स्वच्छैः भाजत्स्फटिकभित्तिभिः
॥३२॥चित्रस्रग्भिः पट्टिकाभिः वासोमणिगणांशुकैः ।
मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः
॥३३॥धूपदीपैः सुरभिभिः मण्डितं पुष्पमण्डनैः ।
स्त्रीपुम्भिः सुरसङ्काशैः जुष्टं भूषणभूषणैः
॥३४॥तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।
रेमे स्वारामधीराणां ऋषभः सीतया किल
॥३५॥बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।
वर्षपूगान् बहून् नृणां अभिध्यातांघ्रिपल्लवः
॥३६॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु