मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ६

3
नवमस्कन्धः · 6

इक्ष्वाकुवंशवर्णनं, तत्र मान्धातुश्चरितं, सौभर्युपाख्यानं च

श्रीशुक उवाच

विरूपः केतुमान् शंभुः अंबरीषसुतास्त्रयः ।

विरूपात्पृषदश्वोऽभूत् तत्पुत्रस्तु रथीतरः

॥१॥

रथीतरस्याप्रजस्य भार्यायां तन्तवेऽर्थितः ।

अङ्गिरा जनयामास ब्रह्मवर्चस्विनः सुतान्

॥२॥

एते क्षेत्रप्रसूता वै पुनस्त्वाङ्गिरसाः स्मृताः ।

रथीतराणां प्रवराः क्षत्रोपेता द्विजातयः

॥३॥

क्षुवतस्तु मनोर्जज्ञे इक्ष्वाकुर्घ्राणतः सुतः ।

तस्य पुत्रशतज्येष्ठा विकुक्षिनिमिदण्डकाः

॥४॥

तेषां पुरस्ताद् अभवन् आर्यावर्ते नृपा नृप ।

पञ्चविंशतिः पश्चाच्च त्रयो मध्ये परेऽन्यतः

॥५॥

स एकदाष्टकाश्राद्धे इक्ष्वाकुः सुतमादिशत् ।

मांसमानीयतां मेध्यं विकुक्षे गच्छ मा चिरम्

॥६॥

तथेति स वनं गत्वा मृगान् हत्वा क्रियार्हणान् ।

श्रान्तो बुभुक्षितो वीरः शशं चाददपस्मृतिः

॥७॥

शेषं निवेदयामास पित्रे तेन च तद्गुरुः ।

चोदितः प्रोक्षणायाह दुष्टमेतद् अकर्मकम्

॥८॥

ज्ञात्वा पुत्रस्य तत्कर्म गुरुणाभिहितं नृपः ।

देशान्निःसारयामास सुतं त्यक्तविधिं रुषा

॥९॥

स तु विप्रेण संवादं जापकेन समाचरन् ।

त्यक्त्वा कलेवरं योगी स तेनावाप यत् परम्

॥१०॥

पितर्युपरतेऽभ्येत्य विकुक्षिः पृथिवीमिमाम् ।

शासदीजे हरिं यज्ञैः शशाद इति विश्रुतः

॥११॥

पुरञ्जयस्तस्य सुत इन्द्रवाह इतीरितः ।

ककुत्स्थ इति चाप्युक्तः शृणु नामानि कर्मभिः

॥१२॥

कृतान्त आसीत् समरो देवानां सह दानवैः ।

पार्ष्णिग्राहो वृतो वीरो देवैर्दैत्यपराजितैः

॥१३॥

वचनाद् देवदेवस्य विष्णोर्विश्वात्मनः प्रभोः ।

वाहनत्वे वृतस्तस्य बभूवेन्द्रो महावृषः

॥१४॥

स सन्नद्धो धनुर्दिव्यं आदाय विशिखान्छितान् ।

स्तूयमानः समारुह्य युयुत्सुः ककुदि स्थितः

॥१५॥

तेजसाऽऽप्यायितो विष्णोः पुरुषस्य परात्मनः ।

प्रतीच्यां दिशि दैत्यानां न्यरुणत् त्रिदशैः पुरम्

॥१६॥

तैस्तस्य चाभूत् प्रधनं तुमुलं लोमहर्षणम् ।

यमाय भल्लैरनयद् दैत्यान् येऽभिययुर्मृधे

॥१७॥

तस्येषुपाताभिमुखं युगान्ताग्निं इवोल्बणम् ।

विसृज्य दुद्रुवुर्दैत्या हन्यमानाः स्वमालयम्

॥१८॥

जित्वा परं धनं सर्वं सश्रीकं वज्रपाणये ।

प्रत्ययच्छत्स राजर्षिः इति नामभिराहृतः

॥१९॥

पुरञ्जयस्य पुत्रोऽभूद् अनेनास्तत्सुतः पृथुः ।

विश्वगन्धिस्ततश्चन्द्रो युवनाश्वस्तु तत्सुतः

॥२०॥

शाबस्तः तत्सुतो येन शाबस्ती निर्ममे पुरी ।

बृहदश्वस्तु शाबस्तिः ततः कुवलयाश्वकः

॥२१॥

यः प्रियार्थमुतंकस्य धुन्धुनामासुरं बली ।

सुतानां एकविंशत्या सहस्रैः अहनद् वृतः

॥२२॥

धुन्धुमार इति ख्यातः तत्सुतास्ते च जज्वलुः ।

धुन्धोर्मुखाग्निना सर्वे त्रय एवावशेषिताः

॥२३॥

दृढाश्वः कपिलाश्वश्च भद्राश्व इति भारत ।

दृढाश्वपुत्रो हर्यश्वो निकुम्भः तत्सुतः स्मृतः

॥२४॥

बहुलाश्वो निकुम्भस्य कृशाश्वोऽथास्य सेनजित् ।

युवनाश्वोऽभवत्तस्य सोऽनपत्यो वनं गतः

॥२५॥

भार्याशतेन निर्विण्ण ऋषयोऽस्य कृपालवः ।

इष्टिं स्म वर्तयां चक्रुः ऐन्द्रीं ते सुसमाहिताः

॥२६॥

राजा तद् यज्ञसदनं प्रविष्टो निशि तर्षितः ।

दृष्ट्वा शयानान् विप्रांस्तान् पपौ मंत्रजलं स्वयम्

॥२७॥

उत्थितास्ते निशम्याथ व्युदकं कलशं प्रभो ।

पप्रच्छुः कस्य कर्मेदं पीतं पुंसवनं जलम्

॥२८॥

राज्ञा पीतं विदित्वाथ ईश्वरप्रहितेन ते ।

ईश्वराय नमश्चक्रुः अहो दैवबलं बलम्

॥२९॥

ततः काल उपावृत्ते कुक्षिं निर्भिद्य दक्षिणम् ।

युवनाश्वस्य तनयः चक्रवर्ती जजान ह

॥३०॥

कं धास्यति कुमारोऽयं स्तन्यं रोरूयते भृशम् ।

मां धाता वत्स मा रोदीः इतीन्द्रो देशिनीमदात्

॥३१॥

न ममार पिता तस्य विप्रदेवप्रसादतः ।

युवनाश्वोऽथ तत्रैव तपसा सिद्धिमन्वगात्

॥३२॥

त्रसद्दस्युरितीन्द्रोऽङ्ग विदधे नाम यस्य वै ।

यस्मात् त्रसन्ति हि उद्विग्ना दस्यवो रावणादयः

॥३३॥

यौवनाश्वोऽथ मान्धाता चक्रवर्त्यवनीं प्रभुः ।

सप्तद्वीपवतीमेकः शशासाच्युततेजसा

॥३४॥

ईजे च यज्ञं क्रतुभिः आत्मविद् भूरिदक्षिणैः ।

सर्वदेवमयं देवं सर्वात्मकमतीन्द्रियम्

॥३५॥

द्रव्यं मंत्रो विधिर्यज्ञो यजमानस्तथर्त्विजः ।

धर्मो देशश्च कालश्च सर्वं एतद् यदात्मकम्

॥३६॥

यावत् सूर्य उदेति स्म यावच्च प्रतितिष्ठति ।

सर्वं तत् यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते

॥३७॥

शशबिन्दोर्दुहितरि बिन्दुमत्यामधान् नृपः ।

पुरुकुत्सं अंबरीषं मुचुकुन्दं च योगिनम् ।

तेषां स्वसारः पञ्चाशत् सौभरिं वव्रिरे पतिम्

॥३८॥

यमुनान्तर्जले मग्नः तप्यमानः परंतपः ।

निर्वृतिं मीनराजस्य दृष्ट्वा मैथुनधर्मिणः

॥३९॥

जातस्पृहो नृपं विप्रः कन्यां एकां अयाचत ।

सोऽप्याह गृह्यतां ब्रह्मन् कामं कन्या स्वयंवरे

॥४०॥

स विचिन्त्याप्रियं स्त्रीणां जरठोऽयं असम्मतः ।

वलीपलित एजत्क इत्यहं प्रत्युदाहृतः

॥४१॥

साधयिष्ये तथात्मानं सुरस्त्रीणामभीप्सितम् ।

किं पुनर्मनुजेन्द्राणां इति व्यवसितः प्रभुः

॥४२॥

मुनिः प्रवेशितः क्षत्त्रा कन्यान्तःपुरमृद्धिमत् ।

वृतः स राजकन्याभिः एकं पञ्चाशता वरः

॥४३॥

तासां कलिरभूद् भूयान् तत् अर्थेऽपोह्य सौहृदम् ।

ममानुरूपो नायं व इति तद्गतचेतसाम्

॥४४॥

स बह्वृचस्ताभिरपारणीय तपःश्रियानर्घ्यपरिच्छदेषु ।

गृहेषु नानोपवनामलाम्भः सरःसु सौगन्धिककाननेषु

॥४५॥

महार्हशय्यासनवस्त्रभूषण स्नानानुलेपाभ्यवहारमाल्यकैः ।

स्वलङ्कृतस्त्रीपुरुषेषु नित्यदा रेमेऽनुगायद् द्विजभृङ्गवन्दिषु

॥४६॥

यद्गार्हस्थ्यं तु संवीक्ष्य सप्तद्वीपवतीपतिः ।

विस्मितः स्तम्भमजहात् सार्वभौमश्रियान्वितम्

॥४७॥

एवं गृहेष्वभिरतो विषयान् विविधैः सुखैः ।

सेवमानो न चातुष्यद् आज्यस्तोकैरिवानलः

॥४८॥

स कदाचिद् उपासीन आत्मापह्नवमात्मनः ।

ददर्श बह्वृचाचार्यो मीनसङ्गसमुत्थितम्

॥४९॥

अहो इमं पश्यत मे विनाशं तपस्विनः सच्चरितव्रतस्य ।

अन्तर्जले वारिचरप्रसङ्गात् प्रच्यावितं ब्रह्म चिरं धृतं यत्

॥५०॥

सङ्गं त्यजेत मिथुनव्रतीनां मुमुक्षुः ।

सर्वात्मना न विसृजेद् बहिरिन्द्रियाणि ।

एकश्चरन् रहसि चित्तमनन्त ईशे ।

युञ्जीत तद्व्रतिषु साधुषु चेत् प्रसङ्गः

॥५१॥

एकस्तपस्व्यहमथाम्भसि मत्स्यसङ्गात् पञ्चाशदासमुत पञ्चसहस्रसर्गः ।

नान्तं व्रजाम्युभयकृत्यमनोरथानां मायागुणैः हृतमतिर्विषयेऽर्थभावः

॥५२॥

एवं वसन् गृहे कालं विरक्तो न्यासमास्थितः ।

वनं जगाम अनुययुः तत्पत्न्यः पतिदेवताः

॥५३॥

तत्र तप्त्वा तपस्तीक्ष्णं आत्मदर्शनमात्मवान् ।

सहैवाग्निभिरात्मानं युयोज परमात्मनि

॥५४॥

ताः स्वपत्युर्महाराज निरीक्ष्याध्यात्मिकीं गतिम् ।

अन्वीयुस्तत्प्रभावेण अग्निं शान्तमिवार्चिषः

॥५५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे षष्ठोऽध्यायः ॥ ६ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु