मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ८

3
नवमस्कन्धः · 8

सगरचरित्रम्

श्रीशुक उवाच

हरितो रोहितसुतः चंपः तस्माद्विनिर्मिता ।

चंपापुरी सुदेवोऽतो विजयो यस्य चात्मजः

॥१॥

भरुकस्तत्सुतस्तस्माद् वृकस्तस्यापि बाहुकः ।

सोऽरिभिर्हृतभू राजा सभार्यो वनमाविशत्

॥२॥

वृद्धं तं पञ्चतां प्राप्तं महिष्यनु मरिष्यती ।

और्वेण जानतात्मानं प्रजावन्तं निवारिता

॥३॥

आज्ञायास्यै सपत्नीभिः गरो दत्तोऽन्धसा सह ।

सह तेनैव सञ्जातः सगराख्यो महायशाः

॥४॥

सगरश्चक्रवर्त्यासीत् सागरो यत्सुतैः कृतः ।

यस्तालजंघान् यवनात् शकान् हैहयबर्बरान्

॥५॥

नावधीद् गुरुवाक्येन चक्रे विकृतवेषिणः ।

मुण्डान् श्मश्रुधरान् कांश्चित् मुक्तकेशार्धमुण्डितान्

॥६॥

अनन्तर्वाससः कांश्चिद् अबहिर्वाससोऽपरान् ।

सोऽश्वमेधैरयजत सर्ववेदसुरात्मकम्

॥७॥

और्वोपदिष्टयोगेन हरिमात्मानमीश्वरम् ।

तस्योत्सृष्टं पशुं यज्ञे जहाराश्वं पुरन्दरः

॥८॥

सुमत्यास्तनया दृप्ताः पितुरादेशकारिणः ।

हयं अन्वेषमाणास्ते समन्तात् न्यखनन् मन्महीम्

॥९॥

प्राग् उदीच्यां दिशि हयं ददृशुः कपिलान्तिके ।

एष वाजिहरश्चौर आस्ते मीलितलोचनः

॥१०॥

हन्यतां हन्यतां पाप इति षष्टिसहस्रिणः ।

उदायुधा अभिययुः उन्मिमेष तदा मुनिः

॥११॥

स्वशरीराग्निना तावन् महेन्द्रहृतचेतसः ।

महद्व्यतिक्रमहता भस्मसाद् अभवन् क्षणात्

॥१२॥

न साधुवादो मुनिकोपभर्जिता नृपेन्द्रपुत्रा इति सत्त्वधामनि ।

कथं तमो रोषमयं विभाव्यते जगत्पवित्रात्मनि खे रजो भुवः

॥१३॥

यस्येरिता सांख्यमयी दृढेह नौः यया मुमुक्षुस्तरते दुरत्ययम् ।

भवार्णवं मृत्युपथं विपश्चितः परात्मभूतस्य कथं पृथङ्मतिः

॥१४॥

योऽसमञ्जस इत्युक्तः स केशिन्या नृपात्मजः ।

तस्य पुत्रोऽंशुमान्नाम पितामहहिते रतः

॥१५॥

असमञ्जस आत्मानं दर्शयन् असमञ्जसम् ।

जातिस्मरः पुरा संगाद् योगी योगाद् विचालितः

॥१६॥

आचरन् गर्हितं लोके ज्ञातीनां कर्म विप्रियम् ।

सरय्वां क्रीडतो बालान् प्रास्यदुद्वेजयञ्जनम्

॥१७॥

एवंवृत्तः परित्यक्तः पित्रा स्नेहमपोह्य वै ।

योगैश्वर्येण बालान् तान् दर्शयित्वा ततो ययौ

॥१८॥

अयोध्यावासिनः सर्वे बालकान् पुनरागतान् ।

दृष्ट्वा विसिस्मिरे राजन्राजा चाप्यन्वतप्यत

॥१९॥

अंशुमांश्चोदितो राज्ञा तुरगान्वेषणे ययौ ।

पितृव्यखातानुपथं भस्मान्ति ददृशे हयम्

॥२०॥

तत्रासीनं मुनिं वीक्ष्य कपिलाख्यं अधोक्षजम् ।

अस्तौत् समाहितमनाः प्राञ्जलिः प्रणतो महान्

॥२१॥

अंशुमानुवाच

न पश्यति त्वां परमात्मनोऽजनो न बुध्यतेऽद्यापि समाधियुक्तिभिः ।

कुतोऽपरे तस्य मनःशरीरधी विसर्गसृष्टा वयमप्रकाशाः

॥२२॥

ये देहभाजस्त्रिगुणप्रधाना गुणान् विपश्यन्त्युत वा तमश्च ।

यन्मायया मोहितचेतसस्ते विदुः स्वसंस्थं न बहिःप्रकाशाः

॥२३॥

तं त्वां अहं ज्ञानघनं स्वभाव प्रध्वस्तमायागुणभेदमोहैः ।

सनन्दनाद्यैर्मुनिभिर्विभाव्यं कथं विमूढः परिभावयामि

॥२४॥

प्रशान्त मायागुणकर्मलिंगं अनामरूपं सदसद्विमुक्तम् ।

ज्ञानोपदेशाय गृहीतदेहं नमामहे त्वां पुरुषं पुराणम्

॥२५॥

त्वन्मायारचिते लोके वस्तुबुद्ध्या गृहादिषु ।

भ्रमन्ति कामलोभेर्ष्या मोहविभ्रान्तचेतसः

॥२६॥

अद्य नः सर्वभूतात्मन् कामकर्मेन्द्रियाशयः ।

मोहपाशो दृढश्छिन्नो भगवन् तव दर्शनात्

॥२७॥

श्रीशुक उवाच

इत्थं गीतानुभावस्तं भगवान् कपिलो मुनिः ।

अंशुमन्तं उवाचेदं अनुग्राह्य धिया नृप

॥२८॥

श्रीभगवानुवाच

अश्वोऽयं नीयतां वत्स पितामहपशुस्तव ।

इमे च पितरो दग्धा गंगाम्भोऽर्हन्ति नेतरत्

॥२९॥

तं परिक्रम्य शिरसा प्रसाद्य हयमानयत् ।

सगरस्तेन पशुना यज्ञशेषं समापयत्

॥३०॥

राज्यं अंशुमते न्यस्य निःस्पृहो मुक्तबन्धनः ।

और्वोपदिष्टमार्गेण लेभे गतिमनुत्तमाम्

॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे अष्टमोऽध्यायः ॥ ८ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु