मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ११

3
नवमस्कन्धः · 11

श्रीरामचरितम्

श्रीशुक उवाच

भगवान् आत्मनात्मानं राम उत्तमकल्पकैः ।

सर्वदेवमयं देवं ईजे आचार्यवान् मखैः

॥१॥

होत्रेऽददाद् दिशं प्राचीं ब्रह्मणे दक्षिणां प्रभुः ।

अध्वर्यवे प्रतीचीं वा उत्तरां सामगाय सः

॥२॥

आचार्याय ददौ शेषां यावती भूस्तदन्तरा ।

मन्यमान इदं कृत्स्नं ब्राह्मणोऽर्हति निःस्पृहः

॥३॥

इत्ययं तदलङ्कार वासोभ्यामवशेषितः ।

तथा राज्ञ्यपि वैदेही सौमङ्गल्या अवशेषिता

॥४॥

ते तु ब्राह्मणदेवस्य वात्सल्यं वीक्ष्य संस्तुतम् ।

प्रीताः क्लिन्नधियस्तस्मै प्रत्यर्प्येदं बभाषिरे

॥५॥

अप्रत्तं नस्त्वया किं नु भगवन् भुवनेश्वर ।

यन्नोऽन्तर्हृदयं विश्य तमो हंसि स्वरोचिषा

॥६॥

नमो ब्रह्मण्यदेवाय रामायाकुण्ठमेधसे ।

उत्तमश्लोकधुर्याय न्यस्तदण्डार्पिताङ्घ्र्यये

॥७॥

कदाचित् लोकजिज्ञासुः गूढो रात्र्यामलक्षितः ।

चरन् वाचोऽश्रृणोद् रामो भार्यां उद्दिश्य कस्यचित्

॥८॥

नाहं बिभर्मि त्वां दुष्टां असतीं परवेश्मगाम् ।

स्त्रैणो हि बिभृयात् सीतां रामो नाहं भजे पुनः

॥९॥

इति लोकाद् बहुमुखाद् दुराराध्यादसंविदः ।

पत्या भीतेन सा त्यक्ता प्राप्ता प्राचेतसाश्रमम्

॥१०॥

अन्तर्वत्न्यागते काले यमौ सा सुषुवे सुतौ ।

कुशो लव इति ख्यातौ तयोश्चक्रे क्रिया मुनिः ।

अङ्गदश्चित्रकेतुश्च लक्ष्मणस्यात्मजौ स्मृतौ ।

तक्षः पुष्कल इत्यास्तां भरतस्य महीपते

॥१२॥

सुबाहुः श्रुतसेनश्च शत्रुघ्नस्य बभूवतुः ।

गन्धर्वान् कोटिशो जघ्ने भरतो विजये दिशाम्

॥१३॥

तदीयं धनमानीय सर्वं राज्ञे न्यवेदयत् ।

शत्रुघ्नश्च मधोः पुत्रं लवणं नाम राक्षसम् ।

हत्वा मधुवने चक्रे मथुरां नाम वै पुरीम्

॥१४॥

मुनौ निक्षिप्य तनयौ सीता भर्त्रा विवासिता ।

ध्यायन्ती रामचरणौ विवरं प्रविवेश ह

॥१५॥

तर् श्रुत्वा भगवान् रामो रुन्धन्नपि धिया शुचः ।

स्मरंस्तस्या गुणान् तान् तान् नाशक्नोत् रोद्धुमीश्वरः

॥१६॥

स्त्रीपुंप्रसङ्ग एतादृक् सर्वत्र त्रासमावहः ।

अपीश्वराणां किमुत ग्राम्यस्य गृहचेतसः

॥१७॥

तत ऊर्ध्वं ब्रह्मचर्यं धारयन् अजुहोत् प्रभुः ।

त्रयोदशाब्दसाहस्रं अग्निहोत्रं अखण्डितम्

॥१८॥

स्मरतां हृदि विन्यस्य विद्धं दण्डककण्टकैः ।

स्वपादपल्लवं राम आत्मज्योतिरगात् ततः

॥१९॥

नेदं यशो रघुपतेः सुरयाच्ञयात्त ।

लीलातनोरधिकसाम्यविमुक्तधाम्नः ।

रक्षोवधो जलधिबन्धनमस्त्र पूगैः ।

किं तस्य शत्रुहनने कपयः सहायाः

॥२०॥

यस्यामलं नृपसस्सु यशोऽधुनापि ।

गायन्त्यघघ्नमृषयो दिगिभेन्द्रपट्टम् ।

तं नाकपालवसुपालकिरीटजुष्ट ।

पादाम्बुजं रघुपतिं शरणं प्रपद्ये

॥२१॥

स यैः स्पृष्टोऽभिदृष्टो वा संविष्टोऽनुगतोऽपि वा ।

कोसलास्ते ययुः स्थानं यत्र गच्छन्ति योगिनः

॥२२॥

पुरुषो रामचरितं श्रवणैरुपधारयन् ।

आनृशंस्यपरो राजन् कर्मबन्धैः विमुच्यते

॥२३॥

श्रीराजोवाच

कथं स भगवान् रामो भ्रातॄन् वा स्वयमात्मनः ।

तस्मिन् वा तेऽन्ववर्तन्त प्रजाः पौराश्च ईश्वरे

॥२४॥

श्रीशुक उवाच

अथादिशद् दिग्विजये भ्रातॄन् त्रिभुवनेश्वरः ।

आत्मानं दर्शयन् स्वानां पुरीमैक्षत सानुगः

॥२५॥

आसिक्तमार्गां गन्धोदैः करिणां मदशीकरैः ।

स्वामिनं प्राप्तमालोक्य मत्तां वा सुतरामिव

॥२६॥

प्रासादगोपुरसभा चैत्यदेवगृहादिषु ।

विन्यस्तहेमकलशैः पताकाभिश्च मण्डिताम्

॥२७॥

पूगैः सवृन्तै रम्भाभिः पट्टिकाभिः सुवाससाम् ।

आदर्शैरंशुकैः स्रग्भिः कृतकौतुकतोरणाम्

॥२८॥

तं उपेयुस्तत्र तत्र पौरा अर्हणपाणयः ।

आशिषो युयुजुर्देव पाहीमां प्राक् त्वयोद्धृताम्

॥२९॥

ततः प्रजा वीक्ष्य पतिं चिरागतं दिदृक्षयोत्सृष्टगृहाः स्त्रियो नराः ।

आरुह्य हर्म्याण्यरविन्दलोचनं अतृप्तनेत्राः कुसुमैरवाकिरन्

॥३०॥

अथ प्रविष्टः स्वगृहं जुष्टं स्वैः पूर्वराजभिः ।

अनन्ताखिलकोषाढ्यं मनर्घ्योरुपरिच्छदम्

॥३१॥

विद्रुमोदुम्बरद्वारैः वैदूर्य स्तंभपङ्क्तिभिः ।

स्थलैर्मारकतैः स्वच्छैः भाजत्स्फटिकभित्तिभिः

॥३२॥

चित्रस्रग्भिः पट्टिकाभिः वासोमणिगणांशुकैः ।

मुक्ताफलैश्चिदुल्लासैः कान्तकामोपपत्तिभिः

॥३३॥

धूपदीपैः सुरभिभिः मण्डितं पुष्पमण्डनैः ।

स्त्रीपुम्भिः सुरसङ्काशैः जुष्टं भूषणभूषणैः

॥३४॥

तस्मिन् स भगवान् रामः स्निग्धया प्रिययेष्टया ।

रेमे स्वारामधीराणां ऋषभः सीतया किल

॥३५॥

बुभुजे च यथाकालं कामान् धर्ममपीडयन् ।

वर्षपूगान् बहून् नृणां अभिध्यातांघ्रिपल्लवः

॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकादशोऽध्यायः ॥ ११ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु