मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १०

3
चतुर्थस्कन्धः · 10

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ

मैत्रेय उवाच

(अनुष्टुप्) प्रजापतेर्दुहितरं शिशुमारस्य वै ध्रुवः ।

उपयेमे भ्रमिं नाम तत्सुतौ कल्पवत्सरौ

॥१॥

इलायामपि भार्यायां वायोः पुत्र्यां महाबलः ।

पुत्रं उत्कलनामानं योषिद् रत्नमजीजनत्

॥२॥

उत्तमस्त्वकृतोद्वाहो मृगयायां बलीयसा ।

हतः पुण्यजनेनाद्रौ तन्मातास्य गतिं गता

॥३॥

ध्रुवो भ्रातृवधं श्रुत्वा कोपामर्षशुचार्पितः ।

जैत्रं स्यन्दनमास्थाय गतः पुण्यजनालयम्

॥४॥

गत्वोदीचीं दिशं राजा रुद्रानुचरसेविताम् ।

ददर्श हिमवद्द्रोण्यां पुरीं गुह्यकसंकुलाम्

॥५॥

दध्मौ शङ्खं बृहद्बाहुः खं दिशश्चानुनादयन् ।

येनोद्विग्नदृशः क्षत्तः उपदेव्योऽत्रसन्भृशम्

॥६॥

ततो निष्क्रम्य बलिन उपदेवमहाभटाः ।

असहन्तः तन्निनादं अभिपेतुरुदायुधाः

॥७॥

स तान् आपततो वीर उग्रधन्वा महारथः ।

एकैकं युगपत्सर्वान् अहन् बाणैस्त्रिभिस्त्रिभिः

॥८॥

ते वै ललाटलग्नैस्तैः इषुभिः सर्व एव हि ।

मत्वा निरस्तमात्मानं आशंसन्कर्म तस्य तत्

॥९॥

तेऽपि चामुममृष्यन्तः पादस्पर्शमिवोरगाः ।

शरैरविध्यन् युगपद् द्विगुणं प्रचिकीर्षवः

॥१०॥

ततः परिघनिस्त्रिंशैः प्रासशूलपरश्वधैः ।

शक्त्यृष्टिभिर्भुशुण्डीभिः चित्रवाजैः शरैरपि

॥११॥

अभ्यवर्षन् प्रकुपिताः सरथं सहसारथिम् ।

इच्छन्तः तत्प्रतीकर्तुं अयुतानां त्रयोदश

॥१२॥

औत्तानपादिः स तदा शस्त्रवर्षेण भूरिणा ।

न एवादृश्यताच्छन्न आसारेण यथा गिरिः

॥१३॥

हाहाकारस्तदैवासीत् सिद्धानां दिवि पश्यताम् ।

हतोऽयं मानवः सूर्यो मग्नः पुण्यजनार्णवे

॥१४॥

नदत्सु यातुधानेषु जयकाशिष्वथो मृधे ।

उदतिष्ठद् रथस्तस्य नीहारादिव भास्करः

॥१५॥

धनुर्विस्फूर्जयन्दिव्यं द्विषतां खेदमुद्वहन् ।

अस्त्रौघं व्यधमद्बाणैः घनानीकमिवानिलः

॥१६॥

तस्य ते चापनिर्मुक्ता भित्त्वा वर्माणि रक्षसाम् ।

कायान् आविविशुस्तिग्मा गिरीन् अशनयो यथा

॥१७॥

भल्लैः सञ्छिद्यमानानां शिरोभिश्चारुकुण्डलैः ।

ऊरुभिर्हेमतालाभैः दोर्भिर्वलयवल्गुभिः

॥१८॥

हारकेयूरमुकुटैः उष्णीषैश्च महाधनैः ।

आस्तृतास्ता रणभुवो रेजुर्वीरमनोहराः

॥१९॥

हतावशिष्टा इतरे रणाजिराद् रक्षोगणाः क्षत्रियवर्यसायकैः ।

प्रायो विवृक्णावयवा विदुद्रुवुः मृगेन्द्रविक्रीडितयूथपा इव

॥२०॥

अपश्यमानः स तदाततायिनं महामृधे कञ्चन मानवोत्तमः ।

पुरीं दिदृक्षन्नपि नाविशद् द्विषां न मायिनां वेद चिकीर्षितं जनः

॥२१॥

इति ब्रुवंश्चित्ररथः स्वसारथिं यत्तः परेषां प्रतियोगशङ्कितः ।

शुश्राव शब्दं जलधेरिवेरितं नभस्वतो दिक्षु रजोऽन्वदृश्यत

॥२२॥

(अनुष्टुप्) क्षणेनाच्छादितं व्योम घनानीकेन सर्वतः ।

विस्फुरत्तडिता दिक्षु त्रासयत् स्तनयित्नुना

॥२३॥

ववृषू रुधिरौघासृक् पूयविण्मूत्रमेदसः ।

निपेतुर्गगनादस्य कबन्धान्यग्रतोऽनघ

॥२४॥

ततः खेऽदृश्यत गिरिः निपेतुः सर्वतोदिशम् ।

गदापरिघनिस्त्रिंश मुसलाः साश्मवर्षिणः

॥२५॥

अहयोऽशनिनिःश्वासा वमन्तोऽग्निं रुषाक्षिभिः ।

अभ्यधावन् गजा मत्ताः सिंहव्याघ्राश्च यूथशः

॥२६॥

समुद्र ऊर्मिभिर्भीमः प्लावयन् सर्वतो भुवम् ।

आससाद महाह्रादः कल्पान्त इव भीषणः

॥२७॥

एवंविधान्यनेकानि त्रासनान्यमनस्विनाम् ।

ससृजुस्तिग्मगतय आसुर्या माययासुराः

॥२८॥

ध्रुवे प्रयुक्तामसुरैः तां मायामतिदुस्तराम् ।

निशम्य तस्य मुनयः शमाशंसन् समागताः

॥२९॥

मुनय ऊचुः

औत्तानपाद भगवान् तव शार्ङ्गधन्वा देवः क्षिणोत्ववनतार्तिहरो विपक्षान् ।

यन्नामधेयमभिधाय निशम्य चाद्धा लोकोऽञ्जसा तरति दुस्तरमङ्ग मृत्युम्

॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दशमोऽध्यायः ॥ १० ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 10