मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय ५

3
चतुर्थस्कन्धः · 5

दक्षयज्ञविध्वंसः

मैत्रेय उवाच

भवो भवान्या निधनं प्रजापतेः असत्कृताया अवगम्य नारदात् ।

स्वपार्षदसैन्यं च तदध्वरर्भुभिः विद्रावितं क्रोधमपारमादधे

॥१॥

क्रुद्धः सुदष्टौष्ठपुटः स धूर्जटिः जटां तडिद् वह्निसटोग्ररोचिषम् ।

उत्कृत्य रुद्रः सहसोत्थितो हसन् गम्भीरनादो विससर्ज तां भुवि

॥२॥

ततोऽतिकायस्तनुवा स्पृशन्दिवं सहस्रबाहुर्घनरुक् त्रिसूर्यदृक् ।

करालदंष्ट्रो ज्वलदग्निमूर्धजः कपालमाली विविधोद्यतायुधः

॥३॥

तं किं करोमीति गृणन्तमाह बद्धाञ्जलिं भगवान् भूतनाथः ।

दक्षं सयज्ञं जहि मद्भटानां त्वमग्रणी रुद्र भटांशको मे

॥४॥

आज्ञप्त एवं कुपितेन मन्युना स देवदेवं परिचक्रमे विभुम् ।

मेनेतदात्मानमसङ्गरंहसा महीयसां तात सहः सहिष्णुम्

॥५॥

अन्वीयमानः स तु रुद्रपार्षदैः भृशं नदद्भिर्व्यनदत्सुभैरवम् ।

उद्यम्य शूलं जगदन्तकान्तकं स प्राद्रवद् घोषणभूषणाङ्घ्रिः

॥६॥

अथर्त्विजो यजमानः सदस्याः ककुभ्युदीच्यां प्रसमीक्ष्य रेणुम् ।

तमः किमेतत्कुत एतद्रजोऽभू दिति द्विजा द्विजपत्न्यश्च दध्युः

॥७॥

वाता न वान्ति न हि सन्ति दस्यवः प्राचीनबर्हिर्जीवति होग्रदण्डः ।

गावो न काल्यन्त इदं कुतो रजो लोकोऽधुना किं प्रलयाय कल्पते

॥८॥

प्रसूतिमिश्राः स्त्रिय उद्विग्नचित्ता ऊचुर्विपाको वृजिनस्यैव तस्य ।

यत्पश्यन्तीनां दुहितॄणां प्रजेशः सुतां सतीमवदध्यावनागाम्

॥९॥

यस्त्वन्तकाले व्युप्तजटाकलापः स्वशूलसूच्यर्पितदिग्गजेन्द्रः ।

वितत्य नृत्यत्युदितास्त्रदोर्ध्वजान् उच्चाट्टहास स्तनयित्नुभिन्नदिक्

॥१०॥

अमर्षयित्वा तमसह्यतेजसं मन्युप्लुतं दुर्निरीक्ष्यं भ्रुकुट्या ।

करालदंष्ट्राभिरुदस्तभागणं स्यात् स्वस्ति किं कोपयतो विधातुः

॥११॥

बह्वेवमुद्विग्न दृशोच्यमाने जनेन दक्षस्य मुहुर्महात्मनः ।

उत्पेतुरुत्पाततमाः सहस्रशो भयावहा दिवि भूमौ च पर्यक्

॥१२॥

तावत्स रुद्रानुचरैर्मखो महान् नानायुधैर्वामनकैरुदायुधैः ।

पिङ्गैः पिशङ्गैर्मकरोदराननैः पर्याद्रवद्भिः विदुरान्वरुध्यत

॥१३॥

(अनुष्टुप्) केचिद्बभञ्जुः प्राग्वंशं पत्नीशालां तथापरे ।

सद आग्नीध्रशालां च तद्विहारं महानसम्

॥१४॥

रुरुजुर्यज्ञपात्राणि तथैकेऽग्नीननाशयन् ।

कुण्डेष्वमूत्रयन्केचिद् बिभिदुर्वेदिमेखलाः

॥१५॥

अबाधन्त मुनीनन्ये एके पत्नीरतर्जयन् ।

अपरे जगृहुर्देवान् प्रत्यासन्नान् पलायितान्

॥१६॥

भृगुं बबन्ध मणिमान् वीरभद्रः प्रजापतिम् ।

चण्डेशः पूषणं देवं भगं नन्दीश्वरोऽग्रहीत्

॥१७॥

सर्व एवर्त्विजो दृष्ट्वा सदस्याः सदिवौकसः ।

तैरर्द्यमानाः सुभृशं ग्रावभिर्नैकधाद्रवन्

॥१८॥

जुह्वतः स्रुवहस्तस्य श्मश्रूणि भगवान्भवः ।

भृगोर्लुलुञ्चे सदसि योऽहसत् श्मश्रु दर्शयन्

॥१९॥

भगस्य नेत्रे भगवान् पातितस्य रुषा भुवि ।

उज्जहार सदःस्थोऽक्ष्णा यः शपन्तं असूसुचत्

॥२०॥

पूष्णो ह्यपातयद् दन्तान् कालिङ्गस्य यथा बलः ।

शप्यमाने गरिमणि योऽहसद् दर्शयन्दतः

॥२१॥

आक्रम्योरसि दक्षस्य शितधारेण हेतिना ।

छिन्दन्नपि तदुद्धर्तुं नाशक्नोत् त्र्यम्बकस्तदा

॥२२॥

शस्त्रैरस्त्रान्वितैरेवं अनिर्भिन्नत्वचं हरः ।

विस्मयं परमापन्नो दध्यौ पशुपतिश्चिरम्

॥२३॥

दृष्ट्वा संज्ञपनं योगं पशूनां स पतिर्मखे ।

यजमानपशोः कस्य कायात्तेनाहरच्छिरः

॥२४॥

साधुवादस्तदा तेषां कर्म तत्तस्य शंसताम् ।

भूतप्रेतपिशाचानां अन्येषां तद्विपर्ययः

॥२५॥

जुहावैतच्छिरस्तस्मिन् दक्षिणाग्नावमर्षितः ।

तद्देवयजनं दग्ध्वा प्रातिष्ठद् गुह्यकालयम्

॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञविध्वंसो नाम पञ्चमोऽध्यायः ॥ ५ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 5