मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १६

3
चतुर्थस्कन्धः · 16

तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया

मैत्रेय उवाच

(अनुष्टुप्) इति ब्रुवाणं नृपतिं गायका मुनिचोदिताः ।

तुष्टुवुस्तुष्टमनसः तद् वाग् अमृतसेवया

॥१॥

नालं वयं ते महिमानुवर्णने यो देववर्योऽवततार मायया ।

वेनाङ्गजातस्य च पौरुषाणि ते वाचस्पतीनामपि बभ्रमुर्धियः

॥२॥

अथाप्युदारश्रवसः पृथोर्हरेः कलावतारस्य कथामृतादृताः ।

यथोपदेशं मुनिभिः प्रचोदिताः श्लाघ्यानि कर्माणि वयं वितन्महि

॥३॥

(अनुष्टुप्) एष धर्मभृतां श्रेष्ठो लोकं धर्मेऽनुवर्तयन् ।

गोप्ता च धर्मसेतूनां शास्ता तत्परिपन्थिनाम्

॥४॥

एष वै लोकपालानां बिभर्त्येकस्तनौ तनूः ।

काले काले यथाभागं लोकयोः उभयोर्हितम्

॥५॥

वसु काल उपादत्ते काले चायं विमुञ्चति ।

समः सर्वेषु भूतेषु प्रतपन् सूर्यवद्विभुः

॥६॥

तितिक्षत्यक्रमं वैन्य उपर्याक्रमतामपि ।

भूतानां करुणः शश्वद् आर्तानां क्षितिवृत्तिमान्

॥७॥

देवेऽवर्षत्यसौ देवो नरदेववपुर्हरिः ।

कृच्छ्रप्राणाः प्रजा ह्येष रक्षिष्यति अञ्जसेन्द्रवत्

॥८॥

आप्याययत्यसौ लोकं वदनामृतमूर्तिना ।

सानुरागावलोकेन विशदस्मितचारुणा

॥९॥

अव्यक्तवर्त्मैष निगूढकार्यो गम्भीरवेधा उपगुप्तवित्तः ।

अनन्तमाहात्म्यगुणैकधामा पृथुः प्रचेता इव संवृतात्मा

॥१०॥

(अनुष्टुप्) दुरासदो दुर्विषह आसन्नोऽपि विदूरवत् ।

नैवाभिभवितुं शक्यो वेनारण्युत्थितोऽनलः

॥११॥

अन्तर्बहिश्च भूतानां पश्यन् कर्माणि चारणैः ।

उदासीन इवाध्यक्षो वायुरात्मेव देहिनाम्

॥१२॥

नादण्ड्यं दण्डयत्येष सुतमात्मद्विषामपि ।

दण्डयत्यात्मजमपि दण्ड्यं धर्मपथे स्थितः

॥१३॥

अस्याप्रतिहतं चक्रं पृथोरामानसाचलात् ।

वर्तते भगवानर्को यावत्तपति गोगणैः

॥१४॥

रञ्जयिष्यति यल्लोकं अयं आत्मविचेष्टितैः ।

अथ अमुं आहू राजानं मनोरञ्जनकैः प्रजाः

॥१५॥

दृढव्रतः सत्यसन्धो ब्रह्मण्यो वृद्धसेवकः ।

शरण्यः सर्वभूतानां मानदो दीनवत्सलः

॥१६॥

मातृभक्तिः परस्त्रीषु पत्न्यामर्ध इवात्मनः ।

प्रजासु पितृवत् स्निग्धः किङ्करो ब्रह्मवादिनाम्

॥१७॥

देहिनां आत्मवत्प्रेष्ठः सुहृदां नन्दिवर्धनः ।

मुक्तसङ्गप्रसङ्गोऽयं दण्डपाणिः असाधुषु

॥१८॥

अयं तु साक्षाद्भगवान् त्र्यधीशः कूटस्थ आत्मा कलयावतीर्णः ।

यस्मिन् अविद्यारचितं निरर्थकं पश्यन्ति नानात्वमपि प्रतीतम्

॥१९॥

अयं भुवो मण्डलमोदयाद्रेः गोप्तैकवीरो नरदेवनाथः ।

आस्थाय जैत्रं रथमात्तचापः पर्यस्यते दक्षिणतो यथार्कः

॥२०॥

अस्मै नृपालाः किल तत्र तत्र बलिं हरिष्यन्ति सलोकपालाः ।

मंस्यन्त एषां स्त्रिय आदिराजं चक्रायुधं तद्यश उद्धरन्त्यः

॥२१॥

अयं महीं गां दुदुहेऽधिराजः प्रजापतिर्वृत्तिकरः प्रजानाम् ।

यो लीलयाद्रीन् स्वशरासकोट्या भिन्दन् समां गामकरोद्यथेन्द्रः

॥२२॥

विस्फूर्जयन्नाजगवं धनुः स्वयं यदाचरत्क्ष्मामविषह्यमाजौ ।

तदा निलिल्युर्दिशि दिश्यसन्तो लाङ्गूलमुद्यम्य यथा मृगेन्द्रः

॥२३॥

एषोऽश्वमेधान् शतमाजहार सरस्वती प्रादुरभावि यत्र ।

अहारषीद्यस्य हयं पुरन्दरः शतक्रतुश्चरमे वर्तमाने

॥२४॥

एष स्वसद्मोपवने समेत्य सनत्कुमारं भगवन्तमेकम् ।

आराध्य भक्त्यालभतामलं तद् ज्ञानं यतो ब्रह्म परं विदन्ति

॥२५॥

(अनुष्टुप्) तत्र तत्र गिरस्तास्ता इति विश्रुतविक्रमः ।

श्रोष्यत्यात्माश्रिता गाथाः पृथुः पृथुपराक्रमः

॥२६॥

दिशो विजित्याप्रतिरुद्धचक्रः स्वतेजसोत्पाटितलोकशल्यः ।

सुरासुरेन्द्रैरुपगीयमान महानुभावो भविता पतिर्भुवः

॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे षोडशोऽध्यायः ॥ १६ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 16