मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय ७

3
चतुर्थस्कन्धः · 7

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति

मैत्रेय उवाच

(अनुष्टुप्) इत्यजेनानुनीतेन भवेन परितुष्यता ।

अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति

॥१॥

महादेव उवाच

नाघं प्रजेश बालानां वर्णये नानुचिन्तये ।

देवमायाभिभूतानां दण्डस्तत्र धृतो मया

॥२॥

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिरः ।

मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भगः

॥३॥

पूषा तु यजमानस्य दद्भिर्जक्षतु पिष्टभुक् ।

देवाः प्रकृतसर्वाङ्गा ये मे उच्छेषणं ददुः

॥४॥

बाहुभ्यां अश्विनोः पूष्णो हस्ताभ्यां कृतबाहवः ।

भवन्तु अध्वर्यवश्चान्ये बस्तश्मश्रुर्भृगुर्भवेत्

॥५॥

मैत्रेय उवाच

तदा सर्वाणि भूतानि श्रुत्वा मीढुष्टमोदितम् ।

परितुष्टात्मभिस्तात साधु साध्वित्यथाब्रुवन्

॥६॥

ततो मीढ्वांसमामन्त्र्य शुनासीराः सहर्षिभिः ।

भूयस्तद् देवयजनं समीढ्वद्वेधसो ययुः

॥७॥

विधाय कार्त्स्न्येन च तद् यदाह भगवान्भवः ।

सन्दधुः कस्य कायेन सवनीयपशोः शिरः

॥८॥

सन्धीयमाने शिरसि दक्षो रुद्राभिवीक्षितः ।

सद्यः सुप्त इवोत्तस्थौ ददृशे चाग्रतो मृडम्

॥९॥

तदा वृषध्वजद्वेष कलिलात्मा प्रजापतिः ।

शिवावलोकाद् अभवत् शरद्ध्रद इवामलः

॥१०॥

भवस्तवाय कृतधीः नाशक्नोत् अनुरागतः ।

औत्कण्ठ्याद् बाष्पकलया संपरेतां सुतां स्मरन्

॥११॥

कृच्छ्रात्संस्तभ्य च मनः प्रेमविह्वलितः सुधीः ।

शशंस निर्व्यलीकेन भावेनेशं प्रजापतिः

॥१२॥

दक्ष उवाच

भूयाननुग्रह अहो भवता कृतो मे दण्डस्त्वया मयि भृतो यदपि प्रलब्धः ।

न ब्रह्मबन्धुषु च वां भगवन् अवज्ञा तुभ्यं हरेश्च कुत एव धृतव्रतेषु

॥१३॥

विद्यातपो व्रतधरान् मुखतः स्म विप्रान् ।

ब्रह्माऽऽत्मतत्त्वमवितुं प्रथमं त्वमस्राक् ।

तद्ब्राह्मणान् परम सर्वविपत्सु पासि ।

पालः पशूनिव विभो प्रगृहीतदण्डः

॥१४॥

योऽसौ मयाविदिततत्त्वदृशा सभायां क्षिप्तो दुरुक्तिविशिखैर्विगणय्य तन्माम् ।

अर्वाक् पतन्तमर्हत्तमनिन्दयापाद् दृष्ट्याऽऽर्द्रया स भगवान् स्वकृतेन तुष्येत्

॥१५॥

मैत्रेय उवाच

(अनुष्टुप्) क्षमाप्यैवं स मीढ्वांसं ब्रह्मणा चानुमंत्रितः ।

कर्म सन्तानयामास सोपाध्यायर्त्विगादिभिः

॥१६॥

वैष्णवं यज्ञसन्तत्यै त्रिकपालं द्विजोत्तमाः ।

पुरोडाशं निरवपन् वीरसंसर्गशुद्धये

॥१७॥

अध्वर्युणाऽऽत्त हविषा यजमानो विशाम्पते ।

धिया विशुद्धया दध्यौ तथा प्रादुरभूत् हरिः

॥१८॥

तदा स्वप्रभया तेषां द्योतयन्त्या दिशो दश ।

मुष्णन् तेज उपानीतः तार्क्ष्येण स्तोत्रवाजिना

॥१९॥

श्यामो हिरण्यरशनोऽर्ककिरीटजुष्टो नीलालक भ्रमरमण्डितकुण्डलास्यः ।

शङ्खाब्जचक्रशरचापगदासिचर्म व्यग्रैर्हिरण्मयभुजैः इव कर्णिकारः

॥२०॥

वक्षस्यधिश्रितवधूर्वनमाल्युदार हासावलोककलया रमयंश्च विश्वम् ।

पार्श्वभ्रमद्व्यजन चामरराजहंसः श्वेतातपत्रशशिनोपरि रज्यमानः

॥२१॥

(अनुष्टुप्) तमुपागतमालक्ष्य सर्वे सुरगणादयः ।

प्रणेमुः सहसोत्थाय ब्रह्मेन्द्रत्र्यक्षनायकाः

॥२२॥

तत्तेजसा हतरुचः सन्नजिह्वाः ससाध्वसाः ।

मूर्ध्ना धृताञ्जलिपुटा उपतस्थुरधोक्षजम्

॥२३॥

अप्यर्वाग्वृत्तयो यस्य महि त्वात्मभुवादयः ।

यथामति गृणन्ति स्म कृतानुग्रहविग्रहम्

॥२४॥

दक्षो गृहीतार्हणसादनोत्तमं यज्ञेश्वरं विश्वसृजां परं गुरुम् ।

सुनन्दनन्दाद्यनुगैर्वृतं मुदा गृणन्प्रपेदे प्रयतः कृताञ्जलिः

॥२५॥

दक्ष उवाच

शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।

तिष्ठन् तयैव पुरुषत्वमुपेत्य तस्याम् आस्ते भवानपरिशुद्ध इवात्मतंत्र

॥२६॥

ऋत्विज ऊचुः

तत्त्वं न ते वयमनञ्जन रुद्रशापात् कर्मण्यवग्रहधियो भगवन् विदामः ।

धर्मोपलक्षणमिदं त्रिवृदध्वराख्यं ज्ञातं यदर्थमधिदैवमदो व्यवस्थाः

॥२७॥

सदस्या ऊचुः

उत्पत्त्यध्वन्यशरण उरुक्लेशदुर्गेऽन्तकोग्र व्यालान्विष्टे विषयमृगतृष्यात्मगेहोरुभारः ।

द्वन्द्वश्वभ्रे खलमृगभये शोकदावेऽज्ञसार्थः पादौकस्ते शरणद कदा याति कामोपसृष्टः

॥२८॥

रुद्र उवाच

तव वरद वराङ्घ्रावाशिषेहाखिलार्थे ह्यपि मुनिभिरसक्तैरादरेणार्हणीये ।

यदि रचितधियं माविद्यलोकोऽपविद्धं जपति न गणये तत्त्वत्परानुग्रहेण

॥२९॥

भृगुरुवाच

यन्मायया गहनयापहृतात्मबोधा ब्रह्मादयस्तनुभृतस्तमसि स्वपन्तः ।

नात्मन्श्रितं तव विदन्त्यधुनापि तत्त्वं सोऽयं प्रसीदतु भवान्प्रणतात्मबन्धुः

॥३०॥

ब्रह्मोवाच

नैतत्स्वरूपं भवतोऽसौ पदार्थ भेदग्रहैः पुरुषो यावदीक्षेत् ।

ज्ञानस्य चार्थस्य गुणस्य चाश्रयो मायामयाद् व्यतिरिक्तो मतस्त्वम्

॥३१॥

इन्द्र उवाच

इदमप्यच्युत विश्वभावनं वपुरानन्दकरं मनोदृशाम् ।

सुरविद्विट्क्षपणैरुदायुधैः भुजदण्डैरुपपन्नमष्टभिः

॥३२॥

पत्न्य ऊचुः

यज्ञोऽयं तव यजनाय केन सृष्टो विध्वस्तः पशुपतिनाद्य दक्षकोपात् ।

तं नस्त्वं शवशयनाभशान्तमेधं यज्ञात्मन्नलिनरुचा दृशा पुनीहि

॥३३॥

ऋषय ऊचुः

अनन्वितं ते भगवन् विचेष्टितं यदात्मना चरसि हि कर्म नाज्यसे ।

विभूतये यत उपसेदुरीश्वरीं न मन्यते स्वयमनुवर्ततीं भवान्

॥३४॥

सिद्धा ऊचुः

अयं त्वत्कथामृष्टपीयूषनद्यां मनोवारणः क्लेशदावाग्निदग्धः ।

तृषार्तोऽवगाढो न सस्मार दावं न निष्क्रामति ब्रह्मसम्पन्नवन्नः

॥३५॥

यजमान्युवाच

स्वागतं ते प्रसीदेश तुभ्यं नमः श्रीनिवास श्रिया कान्तया त्राहि नः ।

त्वामृतेऽधीश नाङ्गैर्मखः शोभते शीर्षहीनः कबन्धो यथा पुरुषः

॥३६॥

लोकपाला ऊचुः

दृष्टः किं नो दृग्भिरसद्ग्रहैस्त्वं प्रत्यग्द्रष्टा दृश्यते येन विश्वम् ।

माया ह्येषा भवदीया हि भूमन् यस्त्वं षष्ठः पञ्चभिर्भासि भूतैः

॥३७॥

योगेश्वरा ऊचुः

प्रेयान्न तेऽन्योऽस्त्यमुतस्त्वयि प्रभो विश्वात्मनीक्षेन्न पृथग्य आत्मनः ।

अथापि भक्त्येश तयोपधावतां अनन्यवृत्त्यानुगृहाण वत्सल

॥३८॥

जगदुद्भवस्थितिलयेषु दैवतो बहुभिद्यमानगुणयाऽऽत्ममायया ।

रचितात्मभेदमतये स्वसंस्थया विनिवर्तितभ्रमगुणात्मने नमः

॥३९॥

ब्रह्मोवाच

(अनुष्टुप्) नमस्ते श्रितसत्त्वाय धर्मादीनां च सूतये ।

निर्गुणाय च यत्काष्ठां नाहं वेदापरेऽपि च

॥४०॥

अग्निरुवाच

यत्तेजसाहं सुसमिद्धतेजा हव्यं वहे स्वध्वर आज्यसिक्तम् ।

तं यज्ञियं पञ्चविधं च पञ्चभिः स्विष्टं यजुर्भिः प्रणतोऽस्मि यज्ञम्

॥४१॥

देवा ऊचुः

पुरा कल्पापाये स्वकृतमुदरीकृत्य विकृतं त्वमेवाद्यस्तस्मिन् सलिल उरगेन्द्राधिशयने ।

पुमान् शेषे सिद्धैर्हृदि विमृशिताध्यात्मपदविः स एवाद्याक्ष्णोर्यः पथि चरसि भृत्यानवसि नः

॥४२॥

गन्धर्वा ऊचुः

अंशांशास्ते देव मरीच्यादय एते ब्रह्मेन्द्राद्या देवगणा रुद्रपुरोगाः ।

क्रीडाभाण्डं विश्वमिदं यस्य विभूमन् तस्मै नित्यं नाथ नमस्ते करवाम

॥४३॥

विद्याधरा ऊचुः

त्वन्माययार्थमभिपद्य कलेवरेऽस्मिन् कृत्वा ममाहमिति दुर्मतिरुत्पथैः स्वैः ।

क्षिप्तोऽप्यसद्विषयलालस आत्ममोहं युष्मत्कथामृतनिषेवक उद्व्युदस्येत्

॥४४॥

ब्राह्मणा ऊचुः

त्वं क्रतुस्त्वं हविस्त्वं हुताशः स्वयं त्वं हि मंत्रः समिद् दर्भपात्राणि च ।

त्वं सदस्यर्त्विजो दम्पती देवता अग्निहोत्रं स्वधा सोम आज्यं पशुः

॥४५॥

त्वं पुरा गां रसाया महासूकरो दंष्ट्रया पद्मिनीं वारणेन्द्रो यथा ।

स्तूयमानो नदन् लीलया योगिभिः व्युज्जहर्थ त्रयीगात्र यज्ञक्रतुः

॥४६॥

स प्रसीद त्वमस्माकं आकाङ्क्षतां दर्शनं ते परिभ्रष्टसत्कर्मणाम् ।

कीर्त्यमाने नृभिर्नाम्नि यज्ञेश ते यज्ञविघ्नाः क्षयं यान्ति तस्मै नमः

॥४७॥

मैत्रेय उवाच

(अनुष्टुप्) इति दक्षः कविर्यज्ञं भद्र रुद्राभिमर्शितम् ।

कीर्त्यमाने हृषीकेशे सन्निन्ये यज्ञभावने

॥४८॥

भगवान् स्वेन भागेन सर्वात्मा सर्वभागभुक् ।

दक्षं बभाष आभाष्य प्रीयमाण इवानघ

॥४९॥

श्रीभगवानुवाच

अहं ब्रह्मा च शर्वश्च जगतः कारणं परम् ।

आत्मेश्वर उपद्रष्टा स्वयं दृगविशेषणः

॥५०॥

आत्ममायां समाविश्य सोऽहं गुणमयीं द्विज ।

सृजन् रक्षन् हरन् विश्वं दध्रे संज्ञां क्रियोचिताम्

॥५१॥

तस्मिन् ब्रह्मण्यद्वितीये केवले परमात्मनि ।

ब्रह्मरुद्रौ च भूतानि भेदेनाज्ञोऽनुपश्यति

॥५२॥

यथा पुमान्न स्वाङ्गेषु शिरःपाण्यादिषु क्वचित् ।

पारक्यबुद्धिं कुरुते एवं भूतेषु मत्परः

॥५३॥

त्रयाणां एकभावानां यो न पश्यति वै भिदाम् ।

सर्वभूतात्मनां ब्रह्मन् स शान्तिं अधिगच्छति

॥५४॥

मैत्रेय उवाच

एवं भगवतादिष्टः प्रजापतिपतिर्हरिम् ।

अर्चित्वा क्रतुना स्वेन देवान् उभयतोऽयजत्

॥५५॥

रुद्रं च स्वेन भागेन ह्युपाधावत्समाहितः ।

कर्मणोदवसानेन सोमपानितरानपि ।

उदवस्य सहर्त्विग्भिः सस्नाववभृथं ततः

॥५६॥

तस्मा अप्यनुभावेन स्वेनैवावाप्तराधसे ।

धर्म एव मतिं दत्त्वा त्रिदशास्ते दिवं ययुः

॥५७॥

एवं दाक्षायणी हित्वा सती पूर्वकलेवरम् ।

जज्ञे हिमवतः क्षेत्रे मेनायामिति शुश्रुम

॥५८॥

तमेव दयितं भूय आवृङ्क्ते पतिमम्बिका ।

अनन्यभावैकगतिं शक्तिः सुप्तेव पूरुषम्

॥५९॥

एतद्भगवतः शम्भोः कर्म दक्षाध्वरद्रुहः ।

श्रुतं भागवतात् शिष्याद् उद्धवान्मे बृहस्पतेः

॥६०॥

इदं पवित्रं परमीशचेष्टितं यशस्यमायुष्यमघौघमर्षणम् ।

यो नित्यदाऽऽकर्ण्य नरोऽनुकीर्तयेद् धुनोत्यघं कौरव भक्तिभावतः

॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे दक्षयज्ञसंधान सप्तमोऽध्यायः ॥ ७ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 7