मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १२

3
चतुर्थस्कन्धः · 12

ध्रुवचरितम्

मैत्रेय उवाच

ध्रुवं निवृत्तं प्रतिबुद्ध्य वैशसाद् अपेतमन्युं भगवान् धनेश्वरः ।

तत्रागतश्चारणयक्षकिन्नरैः संस्तूयमानो न्यवदत् कृताञ्जलिम्

॥१॥

धनद उवाच

(अनुष्टुप्) भो भोः क्षत्रियदायाद परितुष्टोऽस्मि तेऽनघ ।

यत्त्वं पितामहादेशाद् वैरं दुस्त्यजमत्यजः

॥२॥

न भवान् अवधीद्यक्षान् न यक्षा भ्रातरं तव ।

काल एव हि भूतानां प्रभुरप्ययभावयोः

॥३॥

अहं त्वमित्यपार्था धीः अज्ञानात् पुरुषस्य हि ।

स्वाप्नीवाभात्यतद्ध्यानाद् यया बन्धविपर्ययौ

॥४॥

तद्गच्छ ध्रुव भद्रं ते भगवन्तं अधोक्षजम् ।

सर्वभूतात्मभावेन सर्वभूतात्मविग्रहम्

॥५॥

भजस्व भजनीयाङ्घ्रिं अभवाय भवच्छिदम् ।

युक्तं विरहितं शक्त्या गुणमय्यात्ममायया

॥६॥

वृणीहि कामं नृप यन्मनोगतं मत्तस्त्वमौत्तानपदेऽविशङ्कितः ।

वरं वरार्होऽम्बुजनाभपादयोः अनन्तरं त्वां वयमङ्ग शुश्रुम

॥७॥

मैत्रेय उवाच

स राजराजेन वराय चोदितो ध्रुवो महाभागवतो महामतिः ।

हरौ स वव्रेऽचलितां स्मृतिं यया तरत्ययत्नेन दुरत्ययं तमः

॥८॥

(अनुष्टुप्) तस्य प्रीतेन मनसा तां दत्त्वैडविडस्ततः ।

पश्यतोऽन्तर्दधे सोऽपि स्वपुरं प्रत्यपद्यत

॥९॥

अथायजत यज्ञेशं क्रतुभिर्भूरिदक्षिणैः ।

द्रव्यक्रियादेवतानां कर्म कर्मफलप्रदम्

॥१०॥

सर्वात्मनि अच्युतेऽसर्वे तीव्रौघां भक्तिमुद्वहन् ।

ददर्शात्मनि भूतेषु तं एव अवस्थितं विभुम्

॥११॥

तमेवं शीलसम्पन्नं ब्रह्मण्यं दीनवत्सलम् ।

गोप्तारं धर्मसेतूनां मेनिरे पितरं प्रजाः

॥१२॥

षट्त्रिंशद् वर्षसाहस्रं शशास क्षितिमण्डलम् ।

भोगैः पुण्यक्षयं कुर्वन् अभोगैः अशुभक्षयम्

॥१३॥

एवं बहुसवं कालं महात्माविचलेन्द्रियः ।

त्रिवर्गौपयिकं नीत्वा पुत्रायादान् नृपासनम्

॥१४॥

मन्यमान इदं विश्वं मायारचितमात्मनि ।

अविद्यारचितस्वप्न गन्धर्वनगरोपमम्

॥१५॥

आत्मस्त्र्यपत्यसुहृदो बलमृद्धकोशम् अन्तःपुरं परिविहारभुवश्च रम्याः ।

भूमण्डलं जलधिमेखलमाकलय्य कालोपसृष्टमिति स प्रययौ विशालाम्

॥१६॥

तस्यां विशुद्धकरणः शिववार्विगाह्य बद्ध्वाऽऽसनं जितमरुन्मनसाऽऽहृताक्षः ।

स्थूले दधार भगवत्प्रतिरूप एतद् ध्यायन् तदव्यवहितो व्यसृजत्समाधौ

॥१७॥

भक्तिं हरौ भगवति प्रवहन्नजस्रम् आनन्दबाष्पकलया मुहुरर्द्यमानः ।

विक्लिद्यमानहृदयः पुलकाचिताङ्गो नात्मानमस्मरदसाविति मुक्तलिङ्गः

॥१८॥

(अनुष्टुप्) स ददर्श विमानाग्र्यं नभसोऽवतरद् ध्रुवः ।

विभ्राजयद् दश दिशो राकापतिमिवोदितम्

॥१९॥

तत्रानु देवप्रवरौ चतुर्भुजौ श्यामौ किशोरावरुणाम्बुजेक्षणौ ।

स्थिताववष्टभ्य गदां सुवाससौ किरीटहाराङ्गदचारुकुण्डलौ

॥२०॥

विज्ञाय तावुत्तमगायकिङ्करौ अभ्युत्थितः साध्वसविस्मृतक्रमः ।

ननाम नामानि गृणन्मधुद्विषः पार्षत्प्रधानौ इति संहताञ्जलिः

॥२१॥

तं कृष्णपादाभिनिविष्टचेतसं बद्धाञ्जलिं प्रश्रयनम्रकन्धरम् ।

सुनन्दनन्दावुपसृत्य सस्मितं प्रत्यूचतुः पुष्करनाभसम्मतौ

॥२२॥

सुनन्दनन्दावूचतुः

(अनुष्टुप्) भो भो राजन् सुभद्रं ते वाचं नोऽवहितः श्रृणु ।

यः पञ्चवर्षस्तपसा भवान् देवमतीतृपत्

॥२३॥

तस्याखिलजगद्धातुः आवां देवस्य शार्ङ्गिणः ।

पार्षदौ इह सम्प्राप्तौ नेतुं त्वां भगवत्पदम्

॥२४॥

सुदुर्जयं विष्णुपदं जितं त्वया यत्सूरयोऽप्राप्य विचक्षते परम् ।

आतिष्ठ तच्चन्द्रदिवाकरादयो ग्रहर्क्षताराः परियन्ति दक्षिणम्

॥२५॥

(अनुष्टुप्) अनास्थितं ते पितृभिः अन्यैरप्यङ्ग कर्हिचित् ।

आतिष्ठ जगतां वन्द्यं तद्विष्णोः परमं पदम्

॥२६॥

एतद्विमानप्रवरं उत्तमश्लोकमौलिना ।

उपस्थापितमायुष्मन् अधिरोढुं त्वमर्हसि

॥२७॥

मैत्रेय उवाच

निशम्य वैकुण्ठनियोज्यमुख्ययोः मधुच्युतं वाचमुरुक्रमप्रियः ।

कृताभिषेकः कृतनित्यमङ्गलो मुनीन् प्रणम्याशिषमभ्यवादयत्

॥२८॥

(अनुष्टुप्) परीत्याभ्यर्च्य धिष्ण्याग्र्यं पार्षदौ अवभिवन्द्य च ।

इयेष तदधिष्ठातुं बिभ्रद्रूपं हिरण्मयम्

॥२९॥

तदोत्तानपदः पुत्रो ददर्शान्तकमागतम् ।

मृत्योर्मूर्ध्नि पदं दत्त्वा आरुरोहाद्भुतं गृहम्

॥३०॥

तदा दुन्दुभयो नेदुः मृदङ्गपणवादयः ।

गन्धर्वमुख्याः प्रजगुः पेतुः कुसुमवृष्टयः

॥३१॥

स च स्वर्लोकमारोक्ष्यन् सुनीतिं जननीं ध्रुवः ।

अन्वस्मरदगं हित्वा दीनां यास्ये त्रिविष्टपम्

॥३२॥

इति व्यवसितं तस्य व्यवसाय सुरोत्तमौ ।

दर्शयामासतुर्देवीं पुरो यानेन गच्छतीम्

॥३३॥

तत्र तत्र प्रशंसद्भिः पथि वैमानिकैः सुरैः ।

अवकीर्यमाणो ददृशे कुसुमैः क्रमशो ग्रहान्

॥३४॥

त्रिलोकीं देवयानेन सोऽतिव्रज्य मुनीनपि ।

परस्ताद्यद्ध्रुवगतिः विष्णोः पदमथाभ्यगात्

॥३५॥

यद्भ्राजमानं स्वरुचैव सर्वतो लोकास्त्रयो ह्यनु विभ्राजन्त एते ।

यन्नाव्रजन्जन्तुषु येऽननुग्रहा व्रजन्ति भद्राणि चरन्ति येऽनिशम्

॥३६॥

(अनुष्टुप्) शान्ताः समदृशः शुद्धाः सर्वभूतानुरञ्जनाः ।

यान्त्यञ्जसाच्युतपदं अच्युतप्रियबान्धवाः

॥३७॥

इत्युत्तानपदः पुत्रो ध्रुवः कृष्णपरायणः ।

अभूत्त्रयाणां लोकानां चूडामणिरिवामलः

॥३८॥

गम्भीरवेगोऽनिमिषं ज्योतिषां चक्रमाहितम् ।

यस्मिन् भ्रमति कौरव्य मेढ्यामिव गवां गणः

॥३९॥

महिमानं विलोक्यास्य नारदो भगवान् ऋषिः ।

आतोद्यं वितुदन् श्लोकान् सत्रेऽगायत् प्रचेतसाम्

॥४०॥

नारद उवाच

नूनं सुनीतेः पतिदेवतायाः तपःप्रभावस्य सुतस्य तां गतिम् ।

दृष्ट्वाभ्युपायानपि वेदवादिनो नैवाधिगन्तुं प्रभवन्ति किं नृपाः

॥४१॥

यः पञ्चवर्षो गुरुदारवाक्शरैः भिन्नेन यातो हृदयेन दूयता ।

वनं मदादेशकरोऽजितं प्रभुं जिगाय तद्भक्तगुणैः पराजितम्

॥४२॥

यः क्षत्रबन्धुर्भुवि तस्याधिरूढं अन्वारुरुक्षेदपि वर्षपूगैः ।

षट्पञ्चवर्षो यदहोभिरल्पैः प्रसाद्य वैकुण्ठमवाप तत्पदम्

॥४३॥

मैत्रेय उवाच

(अनुष्टुप्) एतत्तेऽभिहितं सर्वं यत्पृष्टोऽहमिह त्वया ।

ध्रुवस्योद्दामयशसः चरितं सम्मतं सताम्

॥४४॥

धन्यं यशस्यमायुष्यं पुण्यं स्वस्त्ययनं महत् ।

स्वर्ग्यं ध्रौव्यं सौमनस्यं प्रशस्यमघमर्षणम्

॥४५॥

श्रुत्वैतत् श्रद्धयाभीक्ष्णं अच्युतप्रियचेष्टितम् ।

भवेद्भक्तिर्भगवति यया स्यात् क्लेशसङ्क्षयः

॥४६॥

महत्त्वमिच्छतां तीर्थं श्रोतुः शीलादयो गुणाः ।

यत्र तेजस्तदिच्छूनां मानो यत्र मनस्विनाम्

॥४७॥

प्रयतः कीर्तयेत्प्रातः समवाये द्विजन्मनाम् ।

सायं च पुण्यश्लोकस्य ध्रुवस्य चरितं महत्

॥४८॥

पौर्णमास्यां सिनीवाल्यां द्वादश्यां श्रवणेऽथवा ।

दिनक्षये व्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा

॥४९॥

श्रावयेत् श्रद्दधानानां तीर्थपादपदाश्रयः ।

नेच्छन् तत्रात्मनात्मानं सन्तुष्ट इति सिध्यति

॥५०॥

ज्ञानमज्ञाततत्त्वाय यो दद्यात्सत्पथेऽमृतम् ।

कृपालोर्दीननाथस्य देवास्तस्यानुगृह्णते

॥५१॥

इदं मया तेऽभिहितं कुरूद्वह ध्रुवस्य विख्यातविशुद्धकर्मणः ।

हित्वार्भकः क्रीडनकानि मातुः गृहं च विष्णुं शरणं यो जगाम

॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे ध्रुवचरित नाम द्वादशोऽध्यायः ॥ १२ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 12