मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १३

3
चतुर्थस्कन्धः · 13

निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम्

सूत उवाच

निशम्य कौषारविणोपवर्णितं ध्रुवस्य वैकुण्ठपदाधिरोहणम् ।

प्ररूढभावो भगवत्यधोक्षजे प्रष्टुं पुनस्तं विदुरः प्रचक्रमे

॥१॥

विदुर उवाच

(अनुष्टुप्) के ते प्रचेतसो नाम कस्यापत्यानि सुव्रत ।

कस्यान्ववाये प्रख्याताः कुत्र वा सत्रमासत

॥२॥

मन्ये महाभागवतं नारदं देवदर्शनम् ।

येन प्रोक्तः क्रियायोगः परिचर्याविधिर्हरेः

॥३॥

स्वधर्मशीलैः पुरुषैः भगवान् यज्ञपूरुषः ।

इज्यमानो भक्तिमता नारदेनेरितः किल

॥४॥

यास्ता देवर्षिणा तत्र वर्णिता भगवत्कथाः ।

मह्यं शुश्रूषवे ब्रह्मन् कार्त्स्न्येनाचष्टुमर्हसि

॥५॥

मैत्रेय उवाच

ध्रुवस्य चोत्कलः पुत्रः पितरि प्रस्थिते वनम् ।

सार्वभौमश्रियं नैच्छद् अधिराजासनं पितुः

॥६॥

स जन्मनोपशान्तात्मा निःसङ्गः समदर्शनः ।

ददर्श लोके विततं आत्मानं लोकमात्मनि

॥७॥

आत्मानं ब्रह्म निर्वाणं प्रत्यस्तमितविग्रहम् ।

अवबोधरसैकात्म्यं आनन्दं अनुसन्ततम्

॥८॥

अव्यवच्छिन्नयोगाग्नि दग्धकर्ममलाशयः ।

स्वरूपमवरुन्धानो नात्मनोऽन्यं तदैक्षत

॥९॥

जडान्धबधिरोन्मत्त मूकाकृतिरतन्मतिः ।

लक्षितः पथि बालानां प्रशान्तार्चिः इवानलः

॥१०॥

मत्वा तं जडमुन्मत्तं कुलवृद्धाः समंत्रिणः ।

वत्सरं भूपतिं चक्रुः यवीयांसं भ्रमेः सुतम्

॥११॥

स्वर्वीथिर्वत्सरस्येष्टा भार्यासूत षडात्मजान् ।

पुष्पार्णं तिग्मकेतुं च इषमूर्जं वसुं जयम्

॥१२॥

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।

प्रातर्मध्यन्दिनं सायं इति ह्यासन् प्रभासुताः

॥१३॥

प्रदोषो निशिथो व्युष्ट इति दोषासुतास्त्रयः ।

व्युष्टः सुतं पुष्करिण्यां सर्वतेजसमादधे

॥१४॥

स चक्षुः सुतमाकूत्यां पत्न्यां मनुं अवाप ह ।

मनोरसूत महिषी विरजान्नड्वला सुतान्

॥१५॥

पुरुं कुत्सं त्रितं द्युम्नं सत्यवन्तमृतं व्रतम् ।

अग्निष्टोममतीरात्रं प्रद्युम्नं शिबिमुल्मुकम्

॥१६॥

उल्मुकोऽजनयत् पुत्रान् पुष्करिण्यां षडुत्तमान् ।

अङ्गं सुमनसं ख्यातिं क्रतुं अङ्गिरसं गयम्

॥१७॥

सुनीथाङ्गस्य या पत्नी सुषुवे वेनमुल्बणम् ।

यद्दौःशील्यात्स राजर्षिः निर्विण्णो निरगात्पुरात्

॥१८॥

यमङ्ग शेपुः कुपिता वाग्वज्रा मुनयः किल ।

गतासोस्तस्य भूयस्ते ममन्थुर्दक्षिणं करम्

॥१९॥

अराजके तदा लोके दस्युभिः पीडिताः प्रजाः ।

जातो नारायणांशेन पृथुराद्यः क्षितीश्वरः

॥२०॥

विदुर उवाच

तस्य शीलनिधेः साधोः ब्रह्मण्यस्य महात्मनः ।

राज्ञः कथमभूद् दुष्टा प्रजा यद्विमना ययौ

॥२१॥

किं वांहो वेन उद्दिश्य ब्रह्मदण्डं अयूयुजन् ।

दण्डव्रतधरे राज्ञि मुनयो धर्मकोविदाः

॥२२॥

नावध्येयः प्रजापालः प्रजाभिरघवानपि ।

यदसौ लोकपालानां बिभर्त्योजः स्वतेजसा

॥२३॥

एतदाख्याहि मे ब्रह्मन् सुनीथात्मज चेष्टितम् ।

श्रद्दधानाय भक्ताय त्वं परावरवित्तमः

॥२४॥

मैत्रेय उवाच

अङ्गोऽश्वमेधं राजर्षिः आजहार महाक्रतुम् ।

नाजग्मुर्देवतास्तस्मिन् आहूता ब्रह्मवादिभिः

॥२५॥

तं ऊचुः विस्मितास्तत्र यजमानमथर्त्विजः ।

हवींषि हूयमानानि न ते गृह्णन्ति देवताः

॥२६॥

राजन्हवींष्यदुष्टानि श्रद्धयाऽऽसादितानि ते ।

छन्दांस्ययातयामानि योजितानि धृतव्रतैः

॥२७॥

न विदामेह देवानां हेलनं वयमण्वपि ।

यन्न गृह्णन्ति भागान् स्वान् ये देवाः कर्मसाक्षिणः

॥२८॥

मैत्रेय उवाच

अङ्गो द्विजवचः श्रुत्वा यजमानः सुदुर्मनाः ।

तत्प्रष्टुं व्यसृजद् वाचं सदस्यान् तदनुज्ञया

॥२९॥

नागच्छन्त्याहुता देवा न गृह्णन्ति ग्रहानिह ।

सदसस्पतयो ब्रूत किमवद्यं मया कृतम्

॥३०॥

सदसस्पतय ऊचुः

नरदेवेह भवतो नाघं तावन् मनाक् स्थितम् ।

अस्त्येकं प्राक्तनमघं यदिहेदृक् त्वमप्रजः

॥३१॥

तथा साधय भद्रं ते आत्मानं सुप्रजं नृप ।

इष्टस्ते पुत्रकामस्य पुत्रं दास्यति यज्ञभुक्

॥३२॥

तथा स्वभागधेयानि ग्रहीष्यन्ति दिवौकसः ।

यद् यज्ञपुरुषः साक्षाद् अपत्याय हरिर्वृतः

॥३३॥

तांस्तान् कामान् हरिर्दद्याद्यान् यान् कामयते जनः ।

आराधितो यथैवैष तथा पुंसां फलोदयः

॥३४॥

इति व्यवसिता विप्राः तस्य राज्ञः प्रजातये ।

पुरोडाशं निरवपन् शिपिविष्टाय विष्णवे

॥३५॥

तस्मात्पुरुष उत्तस्थौ हेममाल्यमलाम्बरः ।

हिरण्मयेन पात्रेण सिद्धमादाय पायसम्

॥३६॥

स विप्रानुमतो राजा गृहीत्वाञ्जलिनौदनम् ।

अवघ्राय मुदा युक्तः प्रादात्पत्न्या उदारधीः

॥३७॥

सा तत्पुंसवनं राज्ञी प्राश्य वै पत्युरादधे ।

गर्भं काल उपावृत्ते कुमारं सुषुवेऽप्रजा

॥३८॥

स बाल एव पुरुषो मातामहमनुव्रतः ।

अधर्मांशोद्भवं मृत्युं तेनाभवद् अधार्मिकः

॥३९॥

स शरासनमुद्यम्य मृगयुर्वनगोचरः ।

हन्त्यसाधुर्मृगान् दीनान् वेनोऽसावित्यरौज्जनः

॥४०॥

आक्रीडे क्रीडतो बालान् वयस्यान् अतिदारुणः ।

प्रसह्य निरनुक्रोशः पशुमारममारयत्

॥४१॥

तं विचक्ष्य खलं पुत्रं शासनैः विविधैर्नृपः ।

यदा न शासितुं कल्पो भृशं आसीत् सुदुर्मनाः

॥४२॥

प्रायेणाभ्यर्चितो देवो येऽप्रजा गृहमेधिनः ।

कदपत्यभृतं दुःखं ये न विन्दन्ति दुर्भरम्

॥४३॥

यतः पापीयसी कीर्तिः अधर्मश्च महान् नृणाम् ।

यतो विरोधः सर्वेषां यत आधिरनन्तकः

॥४४॥

कस्तं प्रजापदेशं वै मोहबन्धनमात्मनः ।

पण्डितो बहु मन्येत यदर्थाः क्लेशदा गृहाः

॥४५॥

कदपत्यं वरं मन्ये सदपत्याच्छुचां पदात् ।

निर्विद्येत गृहान्मर्त्यो यत्क्लेशनिवहा गृहाः

॥४६॥

एवं स निर्विण्णमना नृपो गृहात् निशीथ उत्थाय महोदयोदयात् ।

अलब्धनिद्रोऽनुपलक्षितो नृभिः हित्वा गतो वेनसुवं प्रसुप्ताम्

॥४७॥

विज्ञाय निर्विद्य गतं पतिं प्रजाः पुरोहितामात्यसुहृद्गणादयः ।

विचिक्युरुर्व्यामतिशोककातरा यथा निगूढं पुरुषं कुयोगिनः

॥४८॥

अलक्षयन्तः पदवीं प्रजापतेः हतोद्यमाः प्रत्युपसृत्य ते पुरीम् ।

ऋषीन् समेतान् अभिवन्द्य साश्रवो न्यवेदयन् पौरव भर्तृविप्लवम्

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 13