मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २०

3
चतुर्थस्कन्धः · 20

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत

मैत्रेय उवाच

(अनुष्टुप्) भगवानपि वैकुण्ठः साकं मघवता विभुः ।

यज्ञैर्यज्ञपतिस्तुष्टो यज्ञभुक् तमभाषत

॥१॥

श्रीभगवानुवाच

एष तेऽकार्षीद्भङ्गं हयमेधशतस्य ह ।

क्षमापयत आत्मानं अमुष्य क्षन्तुमर्हसि

॥२॥

सुधियः साधवो लोके नरदेव नरोत्तमाः ।

नाभिद्रुह्यन्ति भूतेभ्यो यर्हि नात्मा कलेवरम्

॥३॥

पुरुषा यदि मुह्यन्ति त्वादृशा देवमायया ।

श्रम एव परं जातो दीर्घया वृद्धसेवया

॥४॥

अतः कायमिमं विद्वान् अविद्याकामकर्मभिः ।

आरब्ध इति नैवास्मिन् प्रतिबुद्धोऽनुषज्जते

॥५॥

असंसक्तः शरीरेऽस्मिन् अमुनोत्पादिते गृहे ।

अपत्ये द्रविणे वापि कः कुर्यान्ममतां बुधः

॥६॥

एकः शुद्धः स्वयंज्योतिः निर्गुणोऽसौ गुणाश्रयः ।

सर्वगोऽनावृतः साक्षी निरात्माऽऽत्माऽऽत्मनः परः

॥७॥

य एवं सन्तमात्मानं आत्मस्थं वेद पूरुषः ।

नाज्यते प्रकृतिस्थोऽपि तद्गुणैः स मयि स्थितः

॥८॥

यः स्वधर्मेण मां नित्यं निराशीः श्रद्धयान्वितः ।

भजते शनकैस्तस्य मनो राजन् प्रसीदति

॥९॥

परित्यक्तगुणः सम्यग् दर्शनो विशदाशयः ।

शान्तिं मे समवस्थानं ब्रह्म कैवल्यमश्नुते

॥१०॥

उदासीनमिवाध्यक्षं द्रव्यज्ञानक्रियात्मनाम् ।

कूटस्थं इममात्मानं यो वेदाप्नोति शोभनम्

॥११॥

भिन्नस्य लिङ्गस्य गुणप्रवाहो द्रव्यक्रियाकारकचेतनात्मनः ।

दृष्टासु सम्पत्सु विपत्सु सूरयो न विक्रियन्ते मयि बद्धसौहृदाः

॥१२॥

समः समानोत्तममध्यमाधमः सुखे च दुःखे च जितेन्द्रियाशयः ।

मयोपकॢप्ताखिललोकसंयुतो विधत्स्व वीराखिललोकरक्षणम्

॥१३॥

श्रेयः प्रजापालनमेव राज्ञो यत्साम्पराये सुकृतात् षष्ठमंशम् ।

हर्तान्यथा हृतपुण्यः प्रजानां अरक्षिता करहारोऽघमत्ति

॥१४॥

एवं द्विजाग्र्यानुमतानुवृत्त धर्मप्रधानोऽन्यतमोऽवितास्याः ।

ह्रस्वेन कालेन गृहोपयातान् द्रष्टासि सिद्धाननुरक्तलोकः

॥१५॥

वरं च मत् कञ्चन मानवेन्द्र वृणीष्व तेऽहं गुणशीलयन्त्रितः ।

नाहं मखैर्वै सुलभस्तपोभिः योगेन वा यत्समचित्तवर्ती

॥१६॥

मैत्रेय उवाच

(अनुष्टुप्) स इत्थं लोकगुरुणा विष्वक्सेनेन विश्वजित् ।

अनुशासित आदेशं शिरसा जगृहे हरेः

॥१७॥

स्पृशन्तं पादयोः प्रेम्णा व्रीडितं स्वेन कर्मणा ।

शतक्रतुं परिष्वज्य विद्वेषं विससर्ज ह

॥१८॥

भगवानथ विश्वात्मा पृथुनोपहृतार्हणः ।

समुज्जिहानया भक्त्या गृहीतचरणाम्बुजः

॥१९॥

प्रस्थानाभिमुखोऽप्येनं अनुग्रहविलम्बितः ।

पश्यन् पद्मपलाशाक्षो न प्रतस्थे सुहृत्सताम्

॥२०॥

स आदिराजो रचिताञ्जलिर्हरिं विलोकितुं नाशकदश्रुलोचनः ।

न किञ्चनोवाच स बाष्पविक्लवो हृदोपगुह्यामुमधादवस्थितः

॥२१॥

अथावमृज्याश्रुकला विलोकयन् अतृप्तदृग्गोचरमाह पूरुषम् ।

पदा स्पृशन्तं क्षितिमंस उन्नते विन्यस्तहस्ताग्रमुरङ्गविद्विषः

॥२२॥

पृथुरुवाच

वरान् विभो त्वद्वरदेश्वराद्बुधः कथं वृणीते गुणविक्रियात्मनाम् ।

ये नारकाणामपि सन्ति देहिनां तानीश कैवल्यपते वृणे न च

॥२३॥

न कामये नाथ तदप्यहं क्वचित् न यत्र युष्मत् चरणाम्बुजासवः ।

महत्तमान्तर्हृदयान्मुखच्युतो विधत्स्व कर्णायुतमेष मे वरः

॥२४॥

स उत्तमश्लोक महन्मुखच्युतो भवत्पदाम्भोजसुधा कणानिलः ।

स्मृतिं पुनर्विस्मृततत्त्ववर्त्मनां कुयोगिनां नो वितरत्यलं वरैः

॥२५॥

यशः शिवं सुश्रव आर्यसङ्गमे यदृच्छया चोपशृणोति ते सकृत् ।

कथं गुणज्ञो विरमेद्विना पशुं श्रीर्यत्प्रवव्रे गुणसङ्ग्रहेच्छया

॥२६॥

अथाभजे त्वाखिलपूरुषोत्तमं गुणालयं पद्मकरेव लालसः ।

अप्यावयोरेकपतिस्पृधोः कलिः न स्यात्कृतत्वच्चरणैकतानयोः

॥२७॥

जगज्जनन्यां जगदीश वैशसं स्यादेव यत्कर्मणि नः समीहितम् ।

करोषि फल्ग्वप्युरु दीनवत्सलः स्व एव धिष्ण्येऽभिरतस्य किं तया

॥२८॥

भजन्त्यथ त्वामत एव साधवो व्युदस्तमायागुणविभ्रमोदयम् ।

भवत्पदानुस्मरणादृते सतां निमित्तमन्यद्भगवन्न विद्महे

॥२९॥

मन्ये गिरं ते जगतां विमोहिनीं वरं वृणीष्वेति भजन्तमात्थ यत् ।

वाचा नु तन्त्या यदि ते जनोऽसितः कथं पुनः कर्म करोति मोहितः

॥३०॥

त्वन्माययाद्धा जन ईश खण्डितो यदन्यदाशास्त ऋतात्मनोऽबुधः ।

यथा चरेद्बालहितं पिता स्वयं तथा त्वमेवार्हसि नः समीहितुम्

॥३१॥

मैत्रेय उवाच

इत्यादिराजेन नुतः स विश्वदृक् तमाह राजन् मयि भक्तिरस्तु ते ।

दिष्ट्येदृशी धीर्मयि ते कृता यया मायां मदीयां तरति स्म दुस्त्यजाम्

॥३२॥

(अनुष्टुप्) तत्त्वं कुरु मयादिष्टं अप्रमत्तः प्रजापते ।

मदादेशकरो लोकः सर्वत्राप्नोति शोभनम्

॥३३॥

मैत्रेय उवाच

इति वैन्यस्य राजर्षेः प्रतिनन्द्यार्थवद्वचः ।

पूजितोऽनुगृहीत्वैनं गन्तुं चक्रेऽच्युतो मतिम्

॥३४॥

देवर्षिपितृगन्धर्व सिद्धचारणपन्नगाः ।

किन्नराप्सरसो मर्त्याः खगा भूतान्यनेकशः

॥३५॥

यज्ञेश्वरधिया राज्ञा वाग्वित्ताञ्जलिभक्तितः ।

सभाजिता ययुः सर्वे वैकुण्ठानुगतास्ततः

॥३६॥

भगवानपि राजर्षेः सोपाध्यायस्य चाच्युतः ।

हरन्निव मनोऽमुष्य स्वधाम प्रत्यपद्यत

॥३७॥

अदृष्टाय नमस्कृत्य नृपः सन्दर्शितात्मने ।

अव्यक्ताय च देवानां देवाय स्वपुरं ययौ

॥३८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते विंशोऽध्यायः ॥ २० ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 20