मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २६

3
चतुर्थस्कन्धः · 26

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम्

नारद उवाच

(अनुष्टुप्) स एकदा महेष्वासो रथं पञ्चाश्वमाशुगम् ।

द्वीषं द्विचक्रमेकाक्षं त्रिवेणुं पञ्चबन्धुरम्

॥१॥

रथोपरि टिप्पणी एकरश्म्येकदमनम् एकनीडं द्विकूबरम् ।

पञ्चप्रहरणं सप्त वरूथं पञ्चविक्रमम्

॥२॥

हैमोपस्करमारुह्य स्वर्णवर्माक्षयेषुधिः ।

एकादशचमूनाथः पञ्चप्रस्थमगाद्वनम्

॥३॥

चचार मृगयां तत्र दृप्त आत्तेषुकार्मुकः ।

विहाय जायामतदर्हां मृगव्यसनलालसः

॥४॥

आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः ।

न्यहनन् निशितैर्बाणैः वनेषु वनगोचरान्

॥५॥

तीर्थेषु प्रतिदृष्टेषु राजा मेध्यान् पशून् वने ।

यावदर्थमलं लुब्धो हन्यादिति नियम्यते

॥६॥

य एवं कर्म नियतं विद्वान्कुर्वीत मानवः ।

कर्मणा तेन राजेन्द्र ज्ञानेन न स लिप्यते

॥७॥

अन्यथा कर्म कुर्वाणो मानारूढो निबध्यते ।

गुणप्रवाहपतितो नष्टप्रज्ञो व्रजत्यधः

॥८॥

तत्र निर्भिन्नगात्राणां चित्रवाजैः शिलीमुखैः ।

विप्लवोऽभूद् दुःखितानां दुःसहः करुणात्मनाम्

॥९॥

शशान् वराहान् महिषान् गवयान् रुरुशल्यकान् ।

मेध्यानन्यांश्च विविधान् विनिघ्नन् श्रममध्यगात्

॥१०॥

ततः क्षुत्तृट्परिश्रान्तो निवृत्तो गृहमेयिवान् ।

कृतस्नानोचिताहारः संविवेश गतक्लमः

॥११॥

आत्मानमर्हयां चक्रे धूपालेपस्रगादिभिः ।

साध्वलङ्कृतसर्वाङ्गो महिष्यां आदधे मनः

॥१२॥

तृप्तो हृष्टः सुदृप्तश्च कन्दर्पाकृष्टमानसः ।

न व्यचष्ट वरारोहां गृहिणीं गृहमेधिनीम्

॥१३॥

अन्तःपुरस्त्रियोऽपृच्छद् विमना इव वेदिषत् ।

अपि वः कुशलं रामाः सेश्वरीणां यथा पुरा

॥१४॥

न तथैतर्हि रोचन्ते गृहेषु गृहसम्पदः ।

यदि न स्याद्गृहे माता पत्नी वा पतिदेवता ।

व्यङ्गे रथ इव प्राज्ञः को नामासीत दीनवत्

॥१५॥

तुलनीय - ऋ. ३.५३.५-६ क्व वर्तते सा ललना मज्जन्तं व्यसनार्णवे ।

या मामुद्धरते प्रज्ञां दीपयन्ती पदे पदे

॥१६॥

रामा ऊचुः

नरनाथ न जानीमः त्वत्प्रिया यद्व्यवस्यति ।

भूतले निरवस्तारे शयानां पश्य शत्रुहन्

॥१७॥

नारद उवाच

पुरञ्जनः स्वमहिषीं निरीक्ष्य अवधुतां भुवि ।

तत्सङ्गोन्मथितज्ञानो वैक्लव्यं परमं ययौ

॥१८॥

सान्त्वयन् श्कक्ष्णया वाचा हृदयेन विदूयता ।

प्रेयस्याः स्नेहसंरम्भ लिङ्गमात्मनि नाभ्यगात्

॥१९॥

अनुनिन्येऽथ शनकैः वीरोऽनुनयकोविदः ।

पस्पर्श पादयुगलं आह चोत्सङ्गलालिताम्

॥२०॥

पुरञ्जन उवाच

नूनं त्वकृतपुण्यास्ते भृत्या येष्वीश्वराः शुभे ।

कृतागःस्वात्मसात्कृत्वा शिक्षादण्डं न युञ्जते

॥२१॥

परमोऽनुग्रहो दण्डो भृत्येषु प्रभुणार्पितः ।

बालो न वेद तत्तन्वि बन्धुकृत्यममर्षणः

॥२२॥

सा त्वं मुखं सुदति सुभ्र्वनुरागभार व्रीडाविलम्बविलसद् हसितावलोकम् ।

नीलालकालिभिरुपस्कृतमुन्नसं नः स्वानां प्रदर्शय मनस्विनि वल्गुवाक्यम्

॥२३॥

तस्मिन्दधे दममहं तव वीरपत्नि योऽन्यत्र भूसुरकुलात्कृतकिल्बिषस्तम् ।

पश्ये न वीतभयमुन्मुदितं त्रिलोक्यां अन्यत्र वै मुररिपोरितरत्र दासात्

॥२४॥

वक्त्रं न ते वितिलकं मलिनं विहर्षं संरम्भभीममविमृष्टमपेतरागम् ।

पश्ये स्तनावपि शुचोपहतौ सुजातौ बिम्बाधरं विगतकुङ्कुमपङ्करागम्

॥२५॥

तन्मे प्रसीद सुहृदः कृतकिल्बिषस्य स्वैरं गतस्य मृगयां व्यसनातुरस्य ।

का देवरं वशगतं कुसुमास्त्रवेग विस्रस्तपौंस्नमुशती न भजेत कृत्ये

॥२६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पुरंजनोपाख्याने षड्विंशोऽध्यायः ॥ २६ ॥