मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २२

3
चतुर्थस्कन्धः · 22

तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः

मैत्रेय उवाच

(अनुष्टुप्) जनेषु प्रगृणत्स्वेवं पृथुं पृथुलविक्रमम् ।

तत्रोपजग्मुर्मुनयः चत्वारः सूर्यवर्चसः

॥१॥

तांस्तु सिद्धेश्वरान् राजा व्योम्नोऽवतरतोऽर्चिषा ।

लोकानपापान् कुर्वत्या सानुगोऽचष्ट लक्षितान्

॥२॥

तद्दर्शनोद्गतान् प्राणान् प्रत्यादित्सुरिवोत्थितः ।

ससदस्यानुगो वैन्य इन्द्रियेशो गुणानिव

॥३॥

गौरवाद्यन्त्रितः सभ्यः प्रश्रयानतकन्धरः ।

विधिवत्पूजयां चक्रे गृहीताध्यर्हणासनान्

॥४॥

तत्पादशौचसलिलैः मार्जितालकबन्धनः ।

तत्र शीलवतां वृत्तं आचरन् मानयन्निव

॥५॥

हाटकासन आसीनान् स्वधिष्ण्येष्विव पावकान् ।

श्रद्धासंयमसंयुक्तः प्रीतः प्राह भवाग्रजान्

॥६॥

पृथुरुवाच

अहो आचरितं किं मे मङ्गलं मङ्गलायनाः ।

यस्य वो दर्शनं ह्यासीद् दुर्दर्शानां च योगिभिः

॥७॥

किं तस्य दुर्लभतरं इह लोके परत्र च ।

यस्य विप्राः प्रसीदन्ति शिवो विष्णुश्च सानुगः

॥८॥

नैव लक्षयते लोको लोकान् पर्यटतोऽपि यान् ।

यथा सर्वदृशं सर्व आत्मानं येऽस्य हेतवः

॥९॥

अधना अपि ते धन्याः साधवो गृहमेधिनः ।

यद्गृहा ह्यर्हवर्याम्बु तृणभूमीश्वरावराः

॥१०॥

व्यालालयद्रुमा वै तेऽपि अरिक्ताखिलसम्पदः ।

यद्गृहास्तीर्थपादीय पादतीर्थविवर्जिताः

॥११॥

स्वागतं वो द्विजश्रेष्ठा यद्व्रतानि मुमुक्षवः ।

चरन्ति श्रद्धया धीरा बाला एव बृहन्ति च

॥१२॥

कच्चिन्नः कुशलं नाथा इन्द्रियार्थार्थवेदिनाम् ।

व्यसनावाप एतस्मिन् पतितानां स्वकर्मभिः

॥१३॥

भवत्सु कुशलप्रश्न आत्मारामेषु नेष्यते ।

कुशलाकुशला यत्र न सन्ति मतिवृत्तयः

॥१४॥

तदहं कृतविश्रम्भः सुहृदो वस्तपस्विनाम् ।

सम्पृच्छे भव एतस्मिन् क्षेमः केनाञ्जसा भवेत्

॥१५॥

व्यक्तमात्मवतामात्मा भगवान् आत्मभावनः ।

स्वानां अनुग्रहायेमां सिद्धरूपी चरत्यजः

॥१६॥

मैत्रेय उवाच

पृथोस्तत्सूक्तमाकर्ण्य सारं सुष्ठु मितं मधु ।

स्मयमान इव प्रीत्या कुमारः प्रत्युवाच ह

॥१७॥

सनत्कुमार उवाच

साधु पृष्टं महाराज सर्वभूतहितात्मना ।

भवता विदुषा चापि साधूनां मतिरीदृशी

॥१८॥

सङ्गमः खलु साधूनां उभयेषां च सम्मतः ।

यत्सम्भाषणसम्प्रश्नः सर्वेषां वितनोति शम्

॥१९॥

अस्त्येव राजन् भवतो मधुद्विषः पादारविन्दस्य गुणानुवादने ।

रतिर्दुरापा विधुनोति नैष्ठिकी कामं कषायं मलमन्तरात्मनः

॥२०॥

शास्त्रेष्वियानेव सुनिश्चितो नृणां क्षेमस्य सध्र्यग्विमृशेषु हेतुः ।

असङ्ग आत्मव्यतिरिक्त आत्मनि दृढा रतिर्ब्रह्मणि निर्गुणे च या

॥२१॥

सा श्रद्धया भगवद्धर्मचर्यया जिज्ञासयाऽऽध्यात्मिकयोगनिष्ठया ।

योगेश्वरोपासनया च नित्यं पुण्यश्रवःकथया पुण्यया च

॥२२॥

अर्थेन्द्रियारामसगोष्ठ्यतृष्णया तत्सम्मतानामपरिग्रहेण च ।

विविक्तरुच्या परितोष आत्मन् विना हरेर्गुणपीयूषपानात्

॥२३॥

अहिंसया पारमहंस्यचर्यया स्मृत्या मुकुन्दाचरिताग्र्यसीधुना ।

यमैरकामैर्नियमैश्चाप्यनिन्दया निरीहया द्वन्द्वतितिक्षया च

॥२४॥

हरेर्मुहुस्तत्परकर्णपूर गुणाभिधानेन विजृम्भमाणया ।

भक्त्या ह्यसङ्गः सदसत्यनात्मनि स्यान्निर्गुणे ब्रह्मणि चाञ्जसा रतिः

॥२५॥

यदा रतिर्ब्रह्मणि नैष्ठिकी पुमान् आचार्यवान् ज्ञानविरागरंहसा ।

दहत्यवीर्यं हृदयं जीवकोशं पञ्चात्मकं योनिमिवोत्थितोऽग्निः

॥२६॥

दग्धाशयो मुक्तसमस्ततद्गुणो नैवात्मनो बहिरन्तर्विचष्टे ।

परात्मनोर्यद् व्यवधानं पुरस्तात् स्वप्ने यथा पुरुषस्तद्विनाशे

॥२७॥

(अनुष्टुप्) आत्मानमिन्द्रियार्थं च परं यदुभयोरपि ।

सत्याशय उपाधौ वै पुमान् पश्यति नान्यदा

॥२८॥

निमित्ते सति सर्वत्र जलादौ अपि पूरुषः ।

आत्मनश्च परस्यापि भिदां पश्यति नान्यदा

॥२९॥

इन्द्रियैर्विषयाकृष्टैः आक्षिप्तं ध्यायतां मनः ।

चेतनां हरते बुद्धेः स्तम्बस्तोयमिव ह्रदात्

॥३०॥

भ्रश्यत्यनु स्मृतिश्चित्तं ज्ञानभ्रंशः स्मृतिक्षये ।

तद्रोधं कवयः प्राहुः आत्मापह्नवमात्मनः

॥३१॥

नातः परतरो लोके पुंसः स्वार्थव्यतिक्रमः ।

यदध्यन्यस्य प्रेयस्त्वं आत्मनः स्वव्यतिक्रमात्

॥३२॥

अर्थेन्द्रियार्थाभिध्यानं सर्वार्थापह्नवो नृणाम् ।

भ्रंशितो ज्ञानविज्ञानाद् येनाविशति मुख्यताम्

॥३३॥

न कुर्यात्कर्हिचित्सङ्गं तमस्तीव्रं तितीरिषुः ।

धर्मार्थकाममोक्षाणां यदत्यन्तविघातकम्

॥३४॥

तत्रापि मोक्ष एवार्थ आत्यन्तिकतयेष्यते ।

त्रैवर्ग्योऽर्थो यतो नित्यं कृतान्तभयसंयुतः

॥३५॥

परेऽवरे च ये भावा गुणव्यतिकरादनु ।

न तेषां विद्यते क्षेमं ईशविध्वंसिताशिषाम्

॥३६॥

तत्त्वं नरेन्द्र जगतामथ तस्थूषां च देहेन्द्रियासुधिषणात्मभिरावृतानाम् ।

यः क्षेत्रवित्तपतया हृदि विश्वगाविः प्रत्यक् चकास्ति भगवान् तमवेहि सोऽस्मि

॥३७॥

यस्मिन्निदं सदसदात्मतया विभाति माया विवेकविधुति स्रजि वाहिबुद्धिः ।

तं नित्यमुक्तपरिशुद्धविशुद्धतत्त्वं प्रत्यूढकर्मकलिलप्रकृतिं प्रपद्ये

॥३८॥

यत्पादपङ्कजपलाशविलासभक्त्या कर्माशयं ग्रथितमुद्ग्रथयन्ति सन्तः ।

तद्वन्न रिक्तमतयो यतयोऽपि रुद्ध स्रोतोगणास्तमरणं भज वासुदेवम्

॥३९॥

कृच्छ्रो महानिह भवार्णवमप्लवेशां षड्वर्गनक्रमसुखेन तितीरषन्ति ।

तत्त्वं हरेर्भगवतो भजनीयमङ्घ्रिं कृत्वोडुपं व्यसनमुत्तर दुस्तरार्णम्

॥४०॥

मैत्रेय उवाच

(अनुष्ट्प्) स एवं ब्रह्मपुत्रेण कुमारेणात्ममेधसा ।

दर्शितात्मगतिः सम्यक् प्रशस्योवाच तं नृपः

॥४१॥

राजोवाच

कृतो मेऽनुग्रहः पूर्वं हरिणाऽऽर्तानुकम्पिना ।

तमापादयितुं ब्रह्मन् भगवन् यूयमागताः

॥४२॥

निष्पादितश्च कार्त्स्न्येन भगवद्भिः घृणालुभिः ।

साधूच्छिष्टं हि मे सर्वं आत्मना सह किं ददे

॥४३॥

प्राणा दाराः सुता ब्रह्मन् गुहाश्च सपरिच्छदाः ।

राज्यं बलं मही कोश इति सर्वं निवेदितम्

॥४४॥

सैनापत्यं च राज्यं च दण्डनेतृत्वमेव च ।

सर्व लोकाधिपत्यं च वेदशास्त्रविदर्हति

॥४५॥

स्वमेव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च ।

तस्यैवानुग्रहेणान्नं भुञ्जते क्षत्रियादयः

॥४६॥

यैरीदृशी भगवतो गतिरात्मवादे एकान्ततो निगमिभिः प्रतिपादिता नः ।

तुष्यन्त्वदभ्रकरुणाः स्वकृतेन नित्यं को नाम तत्प्रतिकरोति विनोदपात्रम्

॥४७॥

मैत्रेय उवाच

(अनुष्टुप्) ते आत्मयोगपतय आदिराजेन पूजिताः ।

शीलं तदीयं शंसन्तः खेऽभूवन् मिषतां नृणाम्

॥४८॥

वैन्यस्तु धुर्यो महतां संस्थित्याध्यात्मशिक्षया ।

आप्तकामं इवात्मानं मेन आत्मन्यवस्थितः

॥४९॥

कर्माणि च यथाकालं यथादेशं यथाबलम् ।

यथोचितं यथावित्तं अकरोद्ब्रह्मसात्कृतम्

॥५०॥

फलं ब्रह्मणि विन्यस्य निर्विषङ्गः समाहितः ।

कर्माध्यक्षं च मन्वान आत्मानं प्रकृतेः परम्

॥५१॥

गृहेषु वर्तमानोऽपि स साम्राज्यश्रियान्वितः ।

नासज्जतेन्द्रियार्थेषु निरहंमतिरर्कवत्

॥५२॥

एवं अध्यात्मयोगेन कर्माणि अनुसमाचरन् ।

पुत्रान् उत्पादयामास पञ्चार्चिष्यात्मसम्मतान्

॥५३॥

विजिताश्वं धूम्रकेशं हर्यक्षं द्रविणं वृकम् ।

सर्वेषां लोकपालानां दधारैकः पृथुर्गुणान्

॥५४॥

गोपीथाय जगत्सृष्टेः काले स्वे स्वेऽच्युतात्मकः ।

मनोवाग् वृत्तिभिः सौम्यैः गुणैः संरञ्जयन् प्रजाः

॥५५॥

राजेत्यधान् नामधेयं सोमराज इवापरः ।

सूर्यवद्विसृजन्गृह्णन् प्रतपंश्च भुवो वसु

॥५६॥

दुर्धर्षस्तेजसेवाग्निः महेन्द्र इव दुर्जयः ।

तितिक्षया धरित्रीव द्यौरिवाभीष्टदो नृणाम्

॥५७॥

वर्षति स्म यथाकामं पर्जन्य इव तर्पयन् ।

समुद्र इव दुर्बोधः सत्त्वेनाचलराडिव

॥५८॥

धर्मराडिव शिक्षायां आश्चर्ये हिमवानिव ।

कुवेर इव कोशाढ्यो गुप्तार्थो वरुणो यथा

॥५९॥

मातरिश्वेव सर्वात्मा बलेन महसौजसा ।

अविषह्यतया देवो भगवान् भूतराडिव

॥६०॥

कन्दर्प इव सौन्दर्ये मनस्वी मृगराडिव ।

वात्सल्ये मनुवन्नॄणां प्रभुत्वे भगवानजः

॥६१॥

बृहस्पतिर्ब्रह्मवादे आत्मवत्त्वे स्वयं हरिः ।

भक्त्या गोगुरुविप्रेषु विष्वक्सेनानुवर्तिषु

॥६२॥

ह्रिया प्रश्रयशीलाभ्यां आत्मतुल्यः परोद्यमे

॥६२॥

कीर्त्योर्ध्वगीतया पुम्भिः त्रैलोक्ये तत्र तत्र ह ।

प्रविष्टः कर्णरन्ध्रेषु स्त्रीणां रामः सतामिव

॥६३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे पृथुचरिते द्वाविंशोऽध्यायः ॥ २२ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 22