मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय १९

3
चतुर्थस्कन्धः · 19

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती

मैत्रेय उवाच

(अनुष्टुप्) अथादीक्षत राजा तु हयमेधशतेन सः ।

ब्रह्मावर्ते मनोः क्षेत्रे यत्र प्राची सरस्वती

॥१॥

तदभिप्रेत्य भगवान् कर्मातिशयमात्मनः ।

शतक्रतुर्न ममृषे पृथोर्यज्ञमहोत्सवम्

॥२॥

यत्र यज्ञपतिः साक्षाद् भगवान् हरिरीश्वरः ।

अन्वभूयत सर्वात्मा सर्वलोकगुरुः प्रभुः

॥३॥

अन्वितो ब्रह्मशर्वाभ्यां लोकपालैः सहानुगैः ।

उपगीयमानो गन्धर्वैः मुनिभिश्चाप्सरोगणैः

॥४॥

सिद्धा विद्याधरा दैत्या दानवा गुह्यकादयः ।

सुनन्दनन्दप्रमुखाः पार्षदप्रवरा हरेः

॥५॥

कपिलो नारदो दत्तो योगेशाः सनकादयः ।

तमन्वीयुर्भागवता ये च तत्सेवनोत्सुकाः

॥६॥

यत्र धर्मदुघा भूमिः सर्वकामदुघा सती ।

दोग्धि स्माभीप्सितान् अर्थान् यजमानस्य भारत

॥७॥

ऊहुः सर्वरसान्नद्यः क्षीरदध्यन्नगोरसान् ।

तरवो भूरिवर्ष्माणः प्रासूयन्त मधुच्युतः

॥८॥

सिन्धवो रत्ननिकरान् गिरयोऽन्नं चतुर्विधम् ।

उपायनं उपाजह्रुः सर्वे लोकाः सपालकाः

॥९॥

इति चाधोक्षजेशस्य पृथोस्तु परमोदयम् ।

असूयन् भगवान् इन्द्रः प्रतिघातमचीकरत्

॥१०॥

चरमेणाश्वमेधेन यजमाने यजुष्पतिम् ।

वैन्ये यज्ञपशुं स्पर्धन् अपोवाह तिरोहितः

॥११॥

तं अत्रिर्भगवानैक्षत् त्वरमाणं विहायसा ।

आमुक्तमिव पाखण्डं योऽधर्मे धर्मविभ्रमः

॥१२॥

अत्रिणा चोदितो हन्तुं पृथुपुत्रो महारथः ।

अन्वधावत सङ्क्रुद्धः तिष्ठ तिष्ठेति चाब्रवीत्

॥१३॥

तं तादृशाकृतिं वीक्ष्य मेने धर्मं शरीरिणम् ।

जटिलं भस्मनाच्छन्नं तस्मै बाणं न मुञ्चति

॥१४॥

वधान्निवृत्तं तं भूयो हन्तवेऽत्रिरचोदयत् ।

जहि यज्ञहनं तात महेन्द्रं विबुधाधमम्

॥१५॥

एवं वैन्यसुतः प्रोक्तः त्वरमाणं विहायसा ।

अन्वद्रवद् अभिक्रुद्धो रावणं गृध्रराडिव

॥१६॥

सोऽश्वं रूपं च तद्धित्वा तस्मा अन्तर्हितः स्वराट् ।

वीरः स्वपशुमादाय पितुर्यज्ञं उपेयिवान्

॥१७॥

तत्तस्य चाद्भुतं कर्म विचक्ष्य परमर्षयः ।

नामधेयं ददुस्तस्मै विजिताश्व इति प्रभो

॥१८॥

उपसृज्य तमस्तीव्रं जहाराश्वं पुनर्हरिः ।

चषालयूपतश्छन्नो हिरण्यरशनं विभुः

॥१९॥

अत्रिः सन्दर्शयामास त्वरमाणं विहायसा ।

कपालखट्वाङ्गधरं वीरो नैनमबाधत

॥२०॥

अत्रिणा चोदितस्तस्मै सन्दधे विशिखं रुषा ।

सोऽश्वं रूपं च तद्धित्वा तस्थावन्तर्हितः स्वराट्

॥२१॥

वीरश्चाश्वमुपादाय पितृयज्ञमथाव्रजत् ।

तदवद्यं हरे रूपं जगृहुर्ज्ञानदुर्बलाः

॥२२॥

यानि रूपाणि जगृहे इन्द्रो हयजिहीर्षया ।

तानि पापस्य खण्डानि लिङ्गं खण्डमिहोच्यते

॥२३॥

एवमिन्द्रे हरत्यश्वं वैन्ययज्ञजिघांसया ।

तद्गृहीतविसृष्टेषु पाखण्डेषु मतिर्नृणाम्

॥२४॥

धर्म इत्युपधर्मेषु नग्नरक्तपटादिषु ।

प्रायेण सज्जते भ्रान्त्या पेशलेषु च वाग्मिषु

॥२५॥

तदभिज्ञाय भगवान् पृथुः पृथुपराक्रमः ।

इन्द्राय कुपितो बाणं आदत्तोद्यतकार्मुकः

॥२६॥

तमृत्विजः शक्रवधाभिसन्धितं विचक्ष्य दुष्प्रेक्ष्यमसह्यरंहसम् ।

निवारयामासुरहो महामते न युज्यतेऽत्रान्यवधः प्रचोदितात्

॥२७॥

वयं मरुत्वन्तमिहार्थनाशनं ह्वयामहे त्वच्छ्रवसा हतत्विषम् ।

अयातयामोपहवैरनन्तरं प्रसह्य राजन् जुहवाम तेऽहितम्

॥२८॥

(अनुष्टुप्) इत्यामन्त्र्य क्रतुपतिं विदुरास्यर्त्विजो रुषा ।

स्रुग्घस्तान् जुह्वतोऽभ्येत्य स्वयम्भूः प्रत्यषेधत

॥२९॥

न वध्यो भवतां इन्द्रो यद्यज्ञो भगवत्तनुः ।

यं जिघांसथ यज्ञेन यस्येष्टास्तनवः सुराः

॥३०॥

तदिदं पश्यत महद् धर्मव्यतिकरं द्विजाः ।

इन्द्रेणानुष्ठितं राज्ञः कर्मैतद्विजिघांसता

॥३१॥

पृथुकीर्तेः पृथोर्भूयात् तर्ह्येकोनशतक्रतुः ।

अलं ते क्रतुभिः स्विष्टैः यद्भवान् मोक्षधर्मवित्

॥३२॥

नैवात्मने महेन्द्राय रोषमाहर्तुमर्हसि ।

उभावपि हि भद्रं ते उत्तमश्लोकविग्रहौ

॥३३॥

मास्मिन्महाराज कृथाः स्म चिन्तां निशामयास्मद्वच आदृतात्मा ।

यद्ध्यायतो दैवहतं नु कर्तुं मनोऽतिरुष्टं विशते तमोऽन्धम्

॥३४॥

(अनुष्टुप्) क्रतुर्विरमतामेष देवेषु दुरवग्रहः ।

धर्मव्यतिकरो यत्र पाखण्डैः इन्द्रनिर्मितैः

॥३५॥

एभिरिन्द्रोपसंसृष्टैः पाखण्डैर्हारिभिर्जनम् ।

ह्रियमाणं विचक्ष्वैनं यस्ते यज्ञध्रुगश्वमुट्

॥३६॥

भवान्परित्रातुमिहावतीर्णो धर्मं जनानां समयानुरूपम् ।

वेनापचारादवलुप्तमद्य तद्देहतो विष्णुकलासि वैन्य

॥३७॥

स त्वं विमृश्यास्य भवं प्रजापते सङ्कल्पनं विश्वसृजां पिपीपृहि ।

ऐन्द्रीं च मायामुपधर्ममातरं प्रचण्डपाखण्डपथं प्रभो जहि

॥३८॥

मैत्रेय उवाच

इत्थं स लोकगुरुणा समादिष्टो विशाम्पतिः ।

तथा च कृत्वा वात्सल्यं मघोनापि च सन्दधे

॥३९॥

कृतावभृथस्नानाय पृथवे भूरिकर्मणे ।

वरान्ददुस्ते वरदा ये तद्बर्हिषि तर्पिताः

॥४०॥

विप्राः सत्याशिषस्तुष्टाः श्रद्धया लब्धदक्षिणाः ।

आशिषो युयुजुः क्षत्तः आदिराजाय सत्कृताः

॥४१॥

त्वयाऽऽहूता महाबाहो सर्व एव समागताः ।

पूजिता दानमानाभ्यां पितृदेवर्षिमानवाः

॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकोनविंशोऽध्यायः ॥ १९ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 19