मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय ३१

3
चतुर्थस्कन्धः · 31

प्रचेतौपाख्यानम्

मैत्रेय उवाच

(अनुष्टुप्) तत उत्पन्नविज्ञाना आश्वधोक्षजभाषितम् ।

स्मरन्त आत्मजे भार्यां विसृज्य प्राव्रजन् गृहात्

॥१॥

दीक्षिता ब्रह्मसत्रेण सर्वभूतात्ममेधसा ।

प्रतीच्यां दिशि वेलायां सिद्धोऽभूद् यत्र जाजलिः

॥२॥

तान्निर्जितप्राणमनोवचोदृशो जितासनान् शान्तसमानविग्रहान् ।

परेऽमले ब्रह्मणि योजितात्मनः सुरासुरेड्यो ददृशे स्म नारदः

॥३॥

(अनुष्टुप्) तमागतं त उत्थाय प्रणिपत्याभिनन्द्य च ।

पूजयित्वा यथादेशं सुखासीनं अथाब्रुवन्

॥४॥

प्रचेतस ऊचुः

स्वागतं ते सुरर्षेऽद्य दिष्ट्या नो दर्शनं गतः ।

तव चङ्क्रमणं ब्रह्मन् अभयाय यथा रवेः

॥५॥

यदादिष्टं भगवता शिवेनाधोक्षजेन च ।

तद्गृहेषु प्रसक्तानां प्रायशः क्षपितं प्रभो

॥६॥

तन्नः प्रद्योतयाध्यात्म ज्ञानं तत्त्वार्थदर्शनम् ।

येनाञ्जसा तरिष्यामो दुस्तरं भवसागरम्

॥७॥

मैत्रेय उवाच

इति प्रचेतसां पृष्टो भगवान् नारदो मुनिः ।

भगवति उत्तमश्लोक आविष्टात्माब्रवीन् नृपान्

॥८॥

नारद उवाच

तज्जन्म तानि कर्माणि तदायुस्तन्मनो वचः ।

नृणां येन हि विश्वात्मा सेव्यते हरिरीश्वरः

॥९॥

किं जन्मभिः त्रिभिर्वेह शौक्रसावित्रयाज्ञिकैः ।

कर्मभिर्वा त्रयीप्रोक्तैः पुंसोऽपि विबुधायुषा

॥१०॥

श्रुतेन तपसा वा किं वचोभिश्चित्तवृत्तिभिः ।

बुद्ध्या वा किं निपुणया बलेनेन्द्रियराधसा

॥११॥

किं वा योगेन साङ्ख्येन न्यासस्वाध्याययोरपि ।

किं वा श्रेयोभिरन्यैश्च न यत्रात्मप्रदो हरिः

॥१२॥

श्रेयसामपि सर्वेषां आत्मा ह्यवधिरर्थतः ।

सर्वेषामपि भूतानां हरिरात्माऽऽत्मदः प्रियः

॥१३॥

यथा तरोर्मूलनिषेचनेन तृप्यन्ति तत्स्कन्धभुजोपशाखाः ।

प्राणोपहाराच्च यथेन्द्रियाणां तथैव सर्वार्हणमच्युतेज्या

॥१४॥

यथैव सूर्यात्प्रभवन्ति वारः पुनश्च तस्मिन् प्रविशन्ति काले ।

भूतानि भूमौ स्थिरजङ्गमानि तथा हरावेव गुणप्रवाहः

॥१५॥

एतत्पदं तज्जगदात्मनः परं सकृद्विभातं सवितुर्यथा प्रभा ।

यथासवो जाग्रति सुप्तशक्तयो द्रव्यक्रियाज्ञानभिदाभ्रमात्ययः

॥१६॥

यथा नभस्यभ्रतमःप्रकाशा भवन्ति भूपा न भवन्त्यनुक्रमात् ।

एवं परे ब्रह्मणि शक्तयस्त्वमू रजस्तमः सत्त्वमिति प्रवाहः

॥१७॥

तेनैकमात्मानमशेषदेहिनां कालं प्रधानं पुरुषं परेशम् ।

स्वतेजसा ध्वस्तगुणप्रवाहं आत्मैकभावेन भजध्वमद्धा

॥१८॥

(अनुष्टुप्) दयया सर्वभूतेषु सन्तुष्ट्या येन केन वा ।

सर्वेन्द्रियोपशान्त्या च तुष्यत्याशु जनार्दनः

॥१९॥

अपहतसकलैषणामलात्मनि अविरतमेधितभावनोपहूतः ।

निजजनवशगत्वमात्मनोऽयन् न सरति छिद्रवदक्षरः सतां हि

॥२०॥

न भजति कुमनीषिणां स इज्यां हरिरधनात्मधनप्रियो रसज्ञः ।

श्रुतधनकुलकर्मणां मदैर्ये विदधति पापमकिञ्चनेषु सत्सु

॥२१॥

श्रियमनुचरतीं तदर्थिनश्च द्विपदपतीन् विबुधांश्च यत्स्वपूर्णः ।

न भजति निजभृत्यवर्गतन्त्रः कथममुमुद्विसृजेत्पुमान् कृतज्ञः

॥२२॥

मैत्रेय उवाच

(अनुष्टुप्) इति प्रचेतसो राजन् अन्याश्च भगवत्कथाः ।

श्रावयित्वा ब्रह्मलोकं ययौ स्वायम्भुवो मुनिः

॥२३॥

तेऽपि तन्मुखनिर्यातं यशो लोकमलापहम् ।

हरेर्निशम्य तत्पादं ध्यायन्तस्तद्गतिं ययुः

॥२४॥

एतत्तेऽभिहितं क्षत्तः यन्मां त्वं परिपृष्टवान् ।

प्रचेतसां नारदस्य संवादं हरिकीर्तनम्

॥२५॥

श्रीशुक उवाच

य एष उत्तानपदो मानवस्यानुवर्णितः ।

वंशः प्रियव्रतस्यापि निबोध नृपसत्तम

॥२६॥

यो नारदादात् आत्मविद्यां अधिगम्य पुनर्महीम् ।

भुक्त्वा विभज्य पुत्रेभ्य ऐश्वरं समगात्पदम्

॥२७॥

इमां तु कौषारविणोपवर्णितां क्षत्ता निशम्याजितवादसत्कथाम् ।

प्रवृद्धभावोऽश्रुकलाकुलो मुनेः दधार मूर्ध्ना चरणं हृदा हरेः

॥२८॥

विदुर उवाच

(अनुष्टुप्) सोऽयमद्य महायोगिन् भवता करुणात्मना ।

दर्शितस्तमसः पारो यत्राकिञ्चनगो हरिः

॥२९॥

श्रीशुक उवाच

इत्यानम्य तमामन्त्र्य विदुरो गजसाह्वयम् ।

स्वानां दिदृक्षुः प्रययौ ज्ञातीनां निर्वृताशयः

॥३०॥

एतद् यः शृणुयाद् राजन् राज्ञां हर्यर्पितात्मनाम् ।

आयुर्धनं यशः स्वस्ति गतिमैश्वर्यमाप्नुयात्

॥३१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे प्रचेतौपाख्यानं नाम एकयस्त्रिंशोऽध्यायः ॥ ३१ ॥