मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — चतुर्थस्कन्धः, अध्याय २१

3
चतुर्थस्कन्धः · 21

महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै

मैत्रेय उवाच

(अनुष्टुप्) मौक्तिकैः कुसुमस्रग्भिः दुकूलैः स्वर्णतोरणैः ।

महासुरभिभिर्धूपैः मण्डितं तत्र तत्र वै

॥१॥

चन्दनागुरुतोयार्द्र-रथ्याचत्वरमार्गवत् ।

पुष्पाक्षतफलैस्तोक्मैः लाजैरर्चिर्भिरर्चितम्

॥२॥

सवृन्दैः कदलीस्तम्भैः पूगपोतैः परिष्कृतम् ।

तरुपल्लवमालाभिः सर्वतः समलङ्कृतम्

॥३॥

प्रजास्तं दीपबलिभिः संभृताशेषमङ्गलैः ।

अभीयुर्मृष्टकन्याश्च मृष्टकुण्डलमण्डिताः

॥४॥

शङ्खदुन्दुभिघोषेण ब्रह्मघोषेण चर्त्विजाम् ।

विवेश भवनं वीरः स्तूयमानो गतस्मयः

॥५॥

पूजितः पूजयामास तत्र तत्र महायशाः ।

पौराञ्जानपदान् तांस्तान् प्रीतः प्रियवरप्रदः

॥६॥

स एवमादीन्यनवद्यचेष्टितः कर्माणि भूयांसि महान्महत्तमः ।

कुर्वन्शशासावनिमण्डलं यशः स्फीतं निधायारुरुहे परं पदम्

॥७॥

सूत उवाच

तदादिराजस्य यशो विजृम्भितं गुणैरशेषैर्गुणवत्सभाजितम् ।

क्षत्ता महाभागवतः सदस्पते कौषारविं प्राह गृणन्तमर्चयन्

॥८॥

विदुर उवाच

(अनुष्टुप्) सोऽभिषिक्तः पृथुर्विप्रैः लब्धाशेषसुरार्हणः ।

बिभ्रत् स वैष्णवं तेजो बाह्वोर्याभ्यां दुदोह गाम्

॥९॥

को न्वस्य कीर्तिं न शृणोत्यभिज्ञो यद्विक्रमोच्छिष्टमशेषभूपाः ।

लोकाः सपाला उपजीवन्ति कामं अद्यापि तन्मे वद कर्म शुद्धम्

॥१०॥

मैत्रेय उवाच

(अनुष्ट्प्) गङ्गायमुनयोर्नद्योः अन्तरा क्षेत्रमावसन् ।

आरब्धानेव बुभुजे भोगान् पुण्यजिहासया

॥११॥

सर्वत्रास्खलितादेशः सप्तद्वीपैकदण्डधृक् ।

अन्यत्र ब्राह्मणकुलाद् अन्यत्राच्युतगोत्रतः

॥१२॥

एकदासीन् महासत्र दीक्षा तत्र दिवौकसाम् ।

समाजो ब्रह्मर्षीणां च राजर्षीणां च सत्तम

॥१३॥

तस्मिन् अर्हत्सु सर्वेषु स्वर्चितेषु यथार्हतः ।

उत्थितः सदसो मध्ये ताराणां उडुराडिव

॥१४॥

प्रांशुः पीनायतभुजो गौरः कञ्जारुणेक्षणः ।

सुनासः सुमुखः सौम्यः पीनांसः सुद्विजस्मितः

॥१५॥

व्यूढवक्षा बृहच्छ्रोणिः वलिवल्गुदलोदरः ।

आवर्तनाभिरोजस्वी काञ्चनोरुरुदग्रपात्

॥१६॥

सूक्ष्मवक्रासितस्निग्ध मूर्धजः कम्बुकन्धरः ।

महाधने दुकूलाग्र्ये परिधायोपवीय च

॥१७॥

व्यञ्जिताशेषगात्रश्रीः नियमे न्यस्तभूषणः ।

कृष्णाजिनधरः श्रीमान् कुशपाणिः कृतोचितः

॥१८॥

शिशिरस्निग्धताराक्षः समैक्षत समन्ततः ।

ऊचिवान् इदमुर्वीशः सदः संहर्षयन्निव

॥१९॥

चारु चित्रपदं श्लक्ष्णं मृष्टं गूढमविक्लवम् ।

सर्वेषां उपकारार्थं तदा अनुवदन्निव

॥२०॥

राजोवाच

सभ्याः श्रृणुत भद्रं वः साधवो य इहागताः ।

सत्सु जिज्ञासुभिर्धर्मं आवेद्यं स्वमनीषितम्

॥२१॥

अहं दण्डधरो राजा प्रजानामिह योजितः ।

रक्षिता वृत्तिदः स्वेषु सेतुषु स्थापिता पृथक्

॥२२॥

तस्य मे तदनुष्ठानाद् यानाहुर्ब्रह्मवादिनः ।

लोकाः स्युः कामसन्दोहा यस्य तुष्यति दिष्टदृक्

॥२३॥

य उद्धरेत्करं राजा प्रजा धर्मेष्वशिक्षयन् ।

प्रजानां शमलं भुङ्क्ते भगं च स्वं जहाति सः

॥२४॥

तत्प्रजा भर्तृपिण्डार्थं स्वार्थमेवानसूयवः ।

कुरुताधोक्षजधियः तर्हि मेऽनुग्रहः कृतः

॥२५॥

यूयं तदनुमोदध्वं पितृदेवर्षयोऽमलाः ।

कर्तुः शास्तुरनुज्ञातुः तुल्यं यत्प्रेत्य तत्फलम्

॥२६॥

अस्ति यज्ञपतिर्नाम केषाञ्चिदर्हसत्तमाः ।

इहामुत्र च लक्ष्यन्ते ज्योत्स्नावत्यः क्वचिद्भुवः

॥२७॥

मनोरुत्तानपादस्य ध्रुवस्यापि महीपतेः ।

प्रियव्रतस्य राजर्षेः अङ्गस्यास्मत्पितुः पितुः

॥२८॥

ईदृशानां अथान्येषां अजस्य च भवस्य च ।

प्रह्लादस्य बलेश्चापि कृत्यमस्ति गदाभृता

॥२९॥

दौहित्रादीन् ऋते मृत्योः शोच्यान् धर्मविमोहितान् ।

वर्गस्वर्गापवर्गाणां प्रायेणैकात्म्यहेतुना

॥३०॥

यत्पादसेवाभिरुचिः तपस्विनां अशेषजन्मोपचितं मलं धियः ।

सद्यः क्षिणोत्यन्वहमेधती सती यथा पदाङ्गुष्ठविनिःसृता सरित्

॥३१॥

विनिर्धुताशेषमनोमलः पुमान् असङ्गविज्ञानविशेषवीर्यवान् ।

यदङ्घ्रिमूले कृतकेतनः पुनः न संसृतिं क्लेशवहां प्रपद्यते

॥३२॥

तमेव यूयं भजतात्मवृत्तिभिः मनोवचःकायगुणैः स्वकर्मभिः ।

अमायिनः कामदुघाङ्घ्रिपङ्कजं यथाधिकारावसितार्थसिद्धयः

॥३३॥

असौ इहानेकगुणोऽगुणोऽध्वरः पृथक् विधद्रव्यगुणक्रियोक्तिभिः ।

सम्पद्यतेऽर्थाशयलिङ्गनामभिः विशुद्धविज्ञानघनः स्वरूपतः

॥३४॥

प्रधानकालाशयधर्मसङ्ग्रहे शरीर एष प्रतिपद्य चेतनाम् ।

क्रियाफलत्वेन विभुर्विभाव्यते यथानलो दारुषु तद्गुणात्मकः

॥३५॥

अहो ममामी वितरन्त्यनुग्रहं हरिं गुरुं यज्ञभुजामधीश्वरम् ।

स्वधर्मयोगेन यजन्ति मामका निरन्तरं क्षोणितले दृढव्रताः

॥३६॥

मा जातु तेजः प्रभवेन्महर्द्धिभिः तितिक्षया तपसा विद्यया च ।

देदीप्यमानेऽजितदेवतानां कुले स्वयं राजकुलाद् द्विजानाम्

॥३७॥

ब्रह्मण्यदेवः पुरुषः पुरातनो नित्यं हरिर्यच्चरणाभिवन्दनात् ।

अवाप लक्ष्मीं अनपायिनीं यशो जगत्पवित्रं च महत्तमाग्रणीः

॥३८॥

यत्सेवयाशेषगुहाशयः स्वराड् विप्रप्रियस्तुष्यति काममीश्वरः ।

तदेव तद्धर्मपरैर्विनीतैः सर्वात्मना ब्रह्मकुलं निषेव्यताम्

॥३९॥

पुमान् लभेतान् अतिवेलमात्मनः प्रसीदतोऽत्यन्तशमं स्वतः स्वयम् ।

यन्नित्यसंबन्धनिषेवया ततः परं किमत्रास्ति मुखं हविर्भुजाम्

॥४०॥

अश्नात्यनन्तः खलु तत्त्वकोविदैः श्रद्धाहुतं यन्मुख इज्यनामभिः ।

न वै तथा चेतनया बहिष्कृते हुताशने पारमहंस्यपर्यगुः

॥४१॥

यद्ब्रह्म नित्यं विरजं सनातनं श्रद्धातपोमङ्गल मौनसंयमैः ।

समाधिना बिभ्रति हार्थदृष्टये यत्रेदमादर्श इवावभासते

॥४२॥

तेषामहं पादसरोजरेणुं आर्या वहेयाधिकिरीटमाऽऽयुः ।

यं नित्यदा बिभ्रत आशु पापं नश्यत्यमुं सर्वगुणा भजन्ति

॥४३॥

गुणायनं शीलधनं कृतज्ञं वृद्धाश्रयं संवृणतेऽनु सम्पदः ।

प्रसीदतां ब्रह्मकुलं गवां च जनार्दनः सानुचरश्च मह्यम्

॥४४॥

मैत्रेय उवाच

(अनुष्ट्प्) इति ब्रुवाणं नृपतिं पितृदेवद्विजातयः ।

तुष्टुवुर्हृष्टमनसः साधुवादेन साधवः

॥४६॥

पुत्रेण जयते लोकान् इति सत्यवती श्रुतिः ।

ब्रह्मदण्डहतः पापो यद्वेनोऽत्यतरत्तमः

॥४७॥

हिरण्यकशिपुश्चापि भगवन् निन्दया तमः ।

विविक्षुरत्यगात्सूनोः प्रह्लादस्यानुभावतः

॥४८॥

वीरवर्य पितः पृथ्व्याः समाः सञ्जीव शाश्वतीः ।

यस्येदृश्यच्युते भक्तिः सर्वलोकैकभर्तरि

॥४९॥

अहो वयं ह्यद्य पवित्रकीर्ते त्वयैव नाथेन मुकुन्दनाथाः ।

य उत्तमश्लोकतमस्य विष्णोः ब्रह्मण्यदेवस्य कथां व्यनक्ति

॥५०॥

नात्यद्भुतमिदं नाथ तवाजीव्यानुशासनम् ।

प्रजानुरागो महतां प्रकृतिः करुणात्मनाम्

॥५१॥

अद्य नस्तमसः पारः त्वयोपासादितः प्रभो ।

भ्राम्यतां नष्टदृष्टीनां कर्मभिर्दैवसंज्ञितैः

॥५२॥

नमो विवृद्धसत्त्वाय पुरुषाय महीयसे ।

यो ब्रह्म क्षत्रमाविश्य बिभर्तीदं स्वतेजसा

॥५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां चतुर्थस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

fr:Le Bhâgavata Purâna/Livre IV/Chapitre 21