मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ५५

3
दशमस्कन्धः (उत्तरार्धः) · 55

प्रद्युम्नस्य जन्म, शम्बरासुरवधश्च

श्रीशुक उवाच

( अनुष्टुप् ) कामस्तु वासुदेवांशो दग्धः प्राग् रुद्रमन्युना ।

देहोपपत्तये भूयः तमेव प्रत्यपद्यत

॥१॥

स एव जातो वैदर्भ्यां कृष्णवीर्यसमुद्भवः ।

प्रद्युम्न इति विख्यातः सर्वतोऽनवमः पितुः

॥२॥

तं शम्बरः कामरूपी हृत्वा तोकमनिर्दशम् ।

स विदित्वात्मनः शत्रुं प्रास्योदन्वत्यगाद् गृहम्

॥३॥

तं निर्जगार बलवान् मीनः सोऽप्यपरैः सह ।

वृतो जालेन महता गृहीतो मत्स्यजीविभिः

॥४॥

तं शम्बराय कैवर्ता उपाजह्रुरुपायनम् ।

सूदा महानसं नीत्वा वद्यन् स्वधितिनाद्भुतम्

॥५॥

दृष्ट्वा तद् उदरे बालं मायावत्यै न्यवेदयन् ।

नारदोऽकथयत्सर्वं तस्याः शङ्कितचेतसः ।

बालस्य तत्त्वमुत्पत्तिं मत्स्योदरनिवेशनम्

॥६॥

सा च कामस्य वै पत्नी रतिर्नाम यशस्विनी ।

पत्युर्निर्दग्धदेहस्य देहोत्पत्तिं प्रतीक्षती

॥७॥

निरूपिता शम्बरेण सा सूदौदनसाधने ।

कामदेवं शिशुं बुद्ध्वा चक्रे स्नेहं तदार्भके

॥८॥

नातिदीर्घेण कालेन स कार्ष्णि रूढयौवनः ।

जनयामास नारीणां वीक्षन्तीनां च विभ्रमम्

॥९॥

( इंद्रवंशा ) सा तं पतिं पद्मदलायतेक्षणं प्रलम्बबाहुं नरलोकसुन्दरम् ।

सव्रीडहासोत्तभितभ्रुवेक्षती प्रीत्योपतस्थे रतिरङ्ग सौरतैः

॥१०॥

( अनुष्टुप् ) तामह भगवान् कार्ष्णिः मातस्ते मतिरन्यथा ।

मातृभावं अतिक्रम्य वर्तसे कामिनी यथा

॥११॥

रतिरुवाच

भवान् नारायणसुतः शम्बरेणाहृतो गृहात् ।

अहं तेऽधिकृता पत्नी रतिः कामो भवान् प्रभो

॥१२॥

एष त्वानिर्दशं सिन्धौ अक्षिपत् शंबरोऽसुरः ।

मत्स्योऽग्रसीत् तत् उदराद् इतः प्राप्तो भवान् प्रभो

॥१३॥

तमिमं जहि दुर्धर्षं दुर्जयं शत्रुमात्मनः ।

मायाशतविदं तं च मायाभिर्मोहनादिभिः

॥१४॥

परीशोचति ते माता कुररीव गतप्रजा ।

पुत्रस्नेहाकुला दीना विवत्सा गौरिवातुरा

॥१५॥

प्रभाष्यैवं ददौ विद्यां प्रद्युम्नाय महात्मने ।

मायावती महामायां सर्वमायाविनाशिनीम्

॥१६॥

स च शम्बरमभ्येत्य संयुगाय समाह्वयत् ।

अविषह्यैस्तमाक्षेपैः क्षिपन् सञ्जनयन् कलिम्

॥१७॥

सोऽधिक्षिप्तो दुर्वाचोभिः पदाहत इवोरगः ।

निश्चक्राम गदापाणिः अमर्षात् ताम्रलोचनः

॥१८॥

गदामाविध्य तरसा प्रद्युम्नाय महात्मने ।

प्रक्षिप्य व्यनदद् नादं वज्रनिष्पेषनिष्ठुरम्

॥१९॥

तामापतन्तीं भगवानन् प्रद्युम्नो गदया गदाम् ।

अपास्य शत्रवे क्रुद्धः प्राहिणोर् स्वगदां नृप

॥२०॥

स च मायां समाश्रित्य दैतेयीं मयदर्शितम् ।

मुमुचेऽस्त्रमयं वर्षं कार्ष्णौ वैहायसोऽसुरः

॥२१॥

बाध्यमानोऽस्त्रवर्षेण रौक्मिणेयो महारथः ।

सत्त्वात्मिकां महाविद्यां सर्वमायोपमर्दिनीम्

॥२२॥

ततो गौह्यकगान्धर्व पैशाचोरगराक्षसीः ।

प्रायुङ्क्त शतशो दैत्यः कार्ष्णिर्व्यधमयत्स ताः

॥२३॥

निशातमसिमुद्यम्य सकिरीटं सकुण्डलम् ।

शम्बरस्य शिरः कायात् ताम्रश्मश्र्वोजसाहरत्

॥२४॥

आकीर्यमाणो दिविजैः स्तुवद्भिः कुसुमोत्करैः ।

भार्ययाम्बरचारिण्या पुरं नीतो विहायसा

॥२५॥

अन्तःपुरवरं राजन् ललनाशतसङ्कुलम् ।

विवेश पत्न्या गगनाद् विद्युतेव बलाहकः

॥२६॥

तं दृष्ट्वा जलदश्यामं पीतकौशेयवाससम् ।

प्रलम्बबाहुं ताम्राक्षं सुस्मितं रुचिराननम्

॥२७॥

स्वलङ्कृतमुखाम्भोजं नीलवक्रालकालिभिः ।

कृष्णं मत्वा स्त्रियो ह्रीता निलिल्युस्तत्र तत्र ह

॥२८॥

अवधार्य शनैरीषद् वैलक्षण्येन योषितः ।

उपजग्मुः प्रमुदिताः सस्त्री रत्नं सुविस्मिताः

॥२९॥

अथ तत्रासितापाङ्गी वैदर्भी वल्गुभाषिणी ।

अस्मरत् स्वसुतं नष्टं स्नेहस्नुतपयोधरा

॥३०॥

को न्वयं नरवैदूर्यः कस्य वा कमलेक्षणः ।

धृतः कया वा जठरे केयं लब्धा त्वनेन वा

॥३१॥

मम चाप्यात्मजो नष्टो नीतो यः सूतिकागृहात् ।

एतत्तुल्यवयोरूपो यदि जीवति कुत्रचित्

॥३२॥

कथं त्वनेन संप्राप्तं सारूप्यं शार्ङ्गधन्वनः ।

आकृत्यावयवैर्गत्या स्वरहासावलोकनैः

॥३३॥

स एव वा भवेत् नूनं यो मे गर्भे धृतोऽर्भकः ।

अमुष्मिन् प्रीतिरधिका वामः स्फुरति मे भुजः

॥३४॥

एवं मीमांसमणायां वैदर्भ्यां देवकीसुतः ।

देवक्यानकदुन्दुभ्यां उत्तमःश्लोक आगमत्

॥३५॥

विज्ञातार्थोऽपि भगवान् तूष्णीमास जनार्दनः ।

नारदोऽकथयत् सर्वं शम्बराहरणादिकम्

॥३६॥

तच्छ्रुत्वा महदाश्चर्यं कृष्णान्तःपुरयोषितः ।

अभ्यनन्दन् ब्बहूनब्दान् नष्टं मृतमिवागतम्

॥३७॥

देवकी वसुदेवश्च कृष्णरामौ तथा स्त्रियः ।

दम्पती तौ परिष्वज्य रुक्मिणी च ययुर्मुदम्

॥३८॥

नष्टं प्रद्युम्नमायातं आकर्ण्य द्वारकौकसः ।

अहो मृत इवायातो बालो दिष्ट्येति हाब्रुवन्

॥३९॥

( वसंततिलका ) यं वै मुहुः पितृसरूपनिजेशभावाः तन्मातरो यदभजन् रहरूढभावाः ।

चित्रं न तत्खलु रमास्पदबिम्बबिम्बे कामे स्मरेऽक्षविषये किमुतान्यनार्यः

॥४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे प्रद्युम्नोत्पत्तिनिरूपणं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु