मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ८०

3
दशमस्कन्धः (उत्तरार्धः) · 80

वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो

सुदामोपाख्यानम् – पत्नीप्रेरणया सुदाम्नो भगवत् समीपे गमनं; भगवता तस्य सत्कारश्च - श्रीराजोवाच ।

( अनुष्टुप् ) भगवन् यानि चान्यानि मुकुन्दस्य महात्मनः ।

वीर्याण्यनन्तवीर्यस्य श्रोतुमिच्छामि हे प्रभो

॥१॥

को नु श्रुत्वासकृद् ब्रह्मन् उत्तमःश्लोकसत्कथाः ।

विरमेत विशेषज्ञो विषण्णः काममार्गणैः

॥२॥

( मिश्र ) सा वाग् यया तस्य गुणान् गृणीते करौ च तत्कर्मकरौ मनश्च ।

स्मरेद् वसन्तं स्थिरजङ्गमेषु श्रृणोति तत्पुण्यकथाः स कर्णः

॥३॥

शिरस्तु तस्योभयलिङ्गमानं एत्तदेव यत्पश्यति तद्धि चक्षुः ।

अङ्गानि विष्णोरथ तज्जनानां पादोदकं यानि भजन्ति नित्यम्

॥४॥

सूत उवाच

( अनुष्टुप् ) विष्णुरातेन सम्पृष्टो भगवान् बादरायणिः ।

वासुदेवे भगवति निमग्नहृदयोऽब्रवीत्

॥५॥

श्रीशुक उवाच

कृष्णस्यासीत् सखा कश्चिद् ब्राह्मणो ब्रह्मवित्तमः ।

विरक्त इन्द्रियार्थेषु प्रशान्तात्मा जितेन्द्रियः

॥६॥

यदृच्छयोपपन्नेन वर्तमानो गृहाश्रमी ।

तस्य भार्या कुचैलस्य क्षुत्क्षामा च तथाविधा

॥७॥

पतिव्रता पतिं प्राह म्लायता वदनेन सा ।

दरिद्रं सीदमाना वै वेपमानाभिगम्य च

॥८॥

ननु ब्रह्मन् भगवतः सखा साक्षाच्छ्रियः पतिः ।

ब्रह्मण्यश्च शरण्यश्च भगवान् सात्वतर्षभः

॥९॥

तमुपैहि महाभाग साधूनां च परायणम् ।

दास्यति द्रविणं भूरि सीदते ते कुटुम्बिने

॥१०॥

आस्तेऽधुना द्वारवत्यां भोजवृष्ण्यन्धकेश्वरः ।

स्मरतः पादकमलं आत्मानमपि यच्छति ।

किं न्वर्थकामान् भजतो नात्यभीष्टान्जगद्गुरुः

॥११॥

स एवं भार्यया विप्रो बहुशः प्रार्थितो मृदु ।

अयं हि परमो लाभ उत्तमःश्लोकदर्शनम्

॥१२॥

इति सञ्चिन्त्य मनसा गमनाय मतिं दधे ।

अप्यस्त्युपायनं किञ्चिद् गृहे कल्याणि दीयताम्

॥१३॥

याचित्वा चतुरो मुष्टीन् विप्रान् पृथुकतण्डुलान् ।

चैलखण्डेन तान् बद्ध्वा भर्त्रे प्रादादुपायनम्

॥१४॥

स तानादाय विप्राग्र्यः प्रययौ द्वारकां किल ।

कृष्णसन्दर्शनं मह्यं कथं स्यादिति चिन्तयन्

॥१५॥

त्रीणि गुल्मान्यतीयाय तिस्रः कक्षाश्च सद्विजः ।

विप्रोऽगम्यान्धकवृष्णीनां गृहेष्वच्युतधर्मिणाम्

॥१६॥

गृहं द्व्यष्टसहस्राणां महिषीणां हरेर्द्विजः ।

विवेशैकतमं श्रीमद् ब्रह्मानन्दं गतो यथा

॥१७॥

तं विलोक्याच्युतो दूरात् प्रियापर्यङ्कमास्थितः ।

सहसोत्थाय चाभ्येत्य दोर्भ्यां पर्यग्रहीन्मुदा

॥१८॥

सख्युः प्रियस्य विप्रर्षेः अङ्गसङ्गातिनिर्वृतः ।

प्रीतो व्यमुञ्चदब्बिन्दून् नेत्राभ्यां पुष्करेक्षणः

॥१९॥

अथोपवेश्य पर्यङ्के स्वयं सख्युः समर्हणम् ।

उपहृत्यावनिज्यास्य पादौ पादावनेजनीः

॥२०॥

अग्रहीच्छिरसा राजन् भगवान् लोकपावनः ।

व्यलिम्पद् दिव्यगन्धेन चन्दनागुरुकुङ्कमैः

॥२१॥

धूपैः सुरभिभिर्मित्रं प्रदीपावलिभिर्मुदा ।

अर्चित्वाऽऽवेद्य ताम्बूलं गां च स्वागतमब्रवीत्

॥२२॥

कुचैलं मलिनं क्षामं द्विजं धमनिसंततम् ।

देवी पर्यचरत् साक्षात् चामरव्यजनेन वै

॥२३॥

अन्तःपुरजनो दृष्ट्वा कृष्णेनामलकीर्तिना ।

विस्मितोऽभूदतिप्रीत्या अवधूतं सभाजितम्

॥२४॥

किमनेन कृतं पुण्यं अवधूतेन भिक्षुणा ।

श्रिया हीनेन लोकेऽस्मिन् गर्हितेनाधमेन च

॥२५॥

योऽसौ त्रिलोकगुरुणा श्रीनिवासेन सम्भृतः ।

पर्यङ्कस्थां श्रियं हित्वा परिष्वक्तोऽग्रजो यथा

॥२६॥

कथयां चक्रतुर्गाथाः पूर्वा गुरुकुले सतोः ।

आत्मनोर्ललिता राजन् करौ गृह्य परस्परम्

॥२७॥

श्रीभगवानुवाच

अपि ब्रह्मन्गुरुकुलाद् भवता लब्धदक्षिणात् ।

समावृत्तेन धर्मज्ञ भार्योढा सदृशी न वा

॥२८॥

प्रायो गृहेषु ते चित्तं अकामविहितं तथा ।

नैवातिप्रीयसे विद्वन् धनेषु विदितं हि मे

॥२९॥

केचित् कुर्वन्ति कर्माणि कामैरहतचेतसः ।

त्यजन्तः प्रकृतीर्दैवीः यथाहं लोकसङ्ग्रहम्

॥३०॥

कच्चिद् गुरुकुले वासं ब्रह्मन् स्मरसि नौ यतः ।

द्विजो विज्ञाय विज्ञेयं तमसः पारमश्नुते

॥३१॥

स वै सत्कर्मणां साक्षाद् द्विजातेरिह सम्भवः ।

आद्योऽङ्ग यत्राश्रमिणां यथाहं ज्ञानदो गुरुः

॥३२॥

नन्वर्थकोविदा ब्रह्मन् वर्णाश्रमवतामिह ।

ये मया गुरुणा वाचा तरन्त्यञ्जो भवार्णवम्

॥३३॥

नाहमिज्याप्रजातिभ्यां तपसोपशमेन वा ।

तुष्येयं सर्वभूतात्मा गुरुशुश्रूषया यथा

॥३४॥

अपि नः स्मर्यते ब्रह्मन् वृत्तं निवसतां गुरौ ।

गुरुदारैश्चोदितानां इन्धनानयने क्वचित्

॥३५॥

प्रविष्टानां महारण्यं अपर्तौ सुमहद् द्विज ।

वातवर्षं अभूत्तीव्रं निष्ठुराः स्तनयित्नवः

॥३६॥

सूर्यश्चास्तं गतस्तावत् तमसा चावृता दिशः ।

निम्नं कूलं जलमयं न प्राज्ञायत किञ्चन

॥३७॥

( वंशस्था ) वयं भृशम्तत्र महानिलाम्बुभिः निहन्यमाना महुरम्बुसम्प्लवे ।

दिशोऽविदन्तोऽथ परस्परं वने गृहीतहस्ताः परिबभ्रिमातुराः

॥३८॥

( अनुष्टुप् ) एतद् विदित्वा उदिते रवौ सान्दीपनिर्गुरुः ।

अन्वेषमाणो नः शिष्यान् आचार्योऽपश्यदातुरान्

॥३९॥

अहो हे पुत्रका यूयं अस्मदर्थेऽतिदुःखिताः ।

आत्मा वै प्राणिनां प्रेष्ठः तं अनादृत्य मत्पराः

॥४०॥

एतदेव हि सच्छिष्यैः कर्तव्यं गुरुनिष्कृतम् ।

यद् वै विशुद्धभावेन सर्वार्थात्मार्पणं गुरौ

॥४१॥

तुष्टोऽहं भो द्विजश्रेष्ठाः सत्याः सन्तु मनोरथाः ।

छन्दांस्ययातयामानि भवन्त्विह परत्र च

॥४२॥

इत्थंविधान्यनेकानि वसतां गुरुवेश्मसु ।

गुरोरनुग्रहेणैव पुमान् पूर्णः प्रशान्तये

॥४३॥

श्रीब्राह्मण उवाच

किमस्माभिरनिर्वृत्तं देवदेव जगद्गुरो ।

भवता सत्यकामेन येषां वासो गुरावभूत्

॥४४॥

यस्य च्छन्दोमयं ब्रह्म देह आवपनं विभो ।

श्रेयसां तस्य गुरुषु वासोऽत्यन्तविडम्बनम्

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीदामचरिते अशीतितमोऽध्यायः ॥ ८० ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु