मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ६३

3
दशमस्कन्धः (उत्तरार्धः) · 63

अनिरुद्धानयनम्

श्रीकृष्णबाणासुरसंग्रामः; तत्र माहेश्वरज्वरेण माहेश्वरेण च कृता भगवत् स्तुतिः - श्रीशुक उवाच ।

( अनुष्टुप् ) अपश्यतां चानिरुद्धं तद्बन्धूनां च भारत ।

चत्वारो वार्षिका मासा व्यतीयुरनुशोचताम्

॥१॥

नारदात् तदुपाकर्ण्य वार्तां बद्धस्य कर्म च ।

प्रययुः शोणितपुरं वृष्णयः कृष्णदैवताः

॥२॥

प्रद्युम्नो युयुधानश्च गदः साम्बोऽथ सारणः ।

नन्दोपनन्दभद्राद्या रामकृष्णानुवर्तिनः

॥३॥

अक्षौहिणीभिर्द्वादशभिः समेताः सर्वतो दिशम् ।

रुरुधुर्बाणनगरं समन्तात् सात्वतर्षभाः

॥४॥

भज्यमानपुरोद्यान प्राकाराट्टालगोपुरम् ।

प्रेक्षमाणो रुषाविष्टः तुल्यसैन्योऽभिनिर्ययौ

॥५॥

बाणार्थे भगवान् रुद्रः ससुतः प्रमथैर्वृतः ।

आरुह्य नन्दिवृषभं युयुधे रामकृष्णयोः

॥६॥

आसीत् सुतुमुलं युद्धं अद्भुतं रोमहर्षणम् ।

कृष्णशङ्करयो राजन् प्रद्युम्नगुहयोरपि

॥७॥

कुम्भाण्डकूपकर्णाभ्यां बलेन सह संयुगः ।

साम्बस्य बाणपुत्रेण बाणेन सह सात्यकेः

॥८॥

ब्रह्मादयः सुराधीशा मुनयः सिद्धचारणाः ।

गन्धर्वाप्सरसो यक्षा विमानैर्द्रष्टुमागमन्

॥९॥

शङ्करानुचरान् शौरिः भूतप्रमथगुह्यकान् ।

डाकिनीर्यातुधानांश्च वेतालान् सविनायकान्

॥१०॥

प्रेतमातृपिशाचांश्च कुष्माण्डान् ब्रह्मराक्षसान् ।

द्रावयामास तीक्ष्णाग्रैः शरैः शार्ङ्गधनुश्च्युतैः

॥११॥

पृथग्विधानि प्रायुङ्क्त पिणाक्यस्त्राणि शाङ्र्गिणे ।

प्रत्यस्त्रैः शमयामास शार्ङ्गपाणिरविस्मितः

॥१२॥

ब्रह्मास्त्रस्य च ब्रह्मास्त्रं वायव्यस्य च पार्वतम् ।

आग्नेयस्य च पार्जन्यं नैजं पाशुपतस्य च

॥१३॥

मोहयित्वा तु गिरिशं जृम्भणास्त्रेण जृम्भितम् ।

बाणस्य पृतनां शौरिः जघानासिगदेषुभिः

॥१४॥

स्कन्दः प्रद्युम्नबाणौघैः अर्द्यमानः समन्ततः ।

असृग् विमुञ्चन् गात्रेभ्यः शिखिनापक्रमद् रणात्

॥१५॥

कुम्भाण्डः कूपकर्णश्च पेततुर्मुषलार्दितौ ।

दुद्रुवुस्तदनीकनि हतनाथानि सर्वतः

॥१६॥

विशीर्यमाणं स्वबलं दृष्ट्वा बाणोऽत्यमर्षणः ।

कृष्णं अभ्यद्रवत् संख्ये रथी हित्वैव सात्यकिम्

॥१७॥

धनूंष्याकृष्य युगपद् बाणः पञ्चशतानि वै ।

एकैकस्मिन् शरौ द्वौ द्वौ सन्दधे रणदुर्मदः

॥१८॥

तानि चिच्छेद भगवान् धनूंसि युगपद्धरिः ।

सारथिं रथमश्वांश्च हत्वा शङ्खमपूरयत्

॥१९॥

तन्माता कोटरा नाम नग्ना मक्तशिरोरुहा ।

पुरोऽवतस्थे कृष्णस्य पुत्रप्राणरिरक्षया

॥२०॥

ततस्तिर्यङ्मुखो नग्नां अनिरीक्षन् गदाग्रजः ।

बाणश्च तावद् विरथः छिन्नधन्वाविशत् पुरम्

॥२१॥

विद्राविते भूतगणे ज्वरस्तु त्रीशिरास्त्रिपात् ।

अभ्यधावत दाशार्हं दहन्निव दिशो दश

॥२२॥

अथ नारायणः देवः तं दृष्ट्वा व्यसृजज्ज्वरम् ।

माहेश्वरो वैष्णवश्च युयुधाते ज्वरावुभौ

॥२३॥

माहेश्वरः समाक्रन्दन् वैष्णवेन बलार्दितः ।

अलब्ध्वाभयमन्यत्र भीतो माहेश्वरो ज्वरः ।

शरणार्थी हृषीकेशं तुष्टाव प्रयताञ्जलिः

॥२४॥

ज्वर उवाच

( मिश्र ) नमामि त्वानन्तशक्तिं परेशं सर्वात्मानं केवलं ज्ञप्तिमात्रम् ।

विश्वोत्पत्तिस्थानसंरोधहेतुं यत्तद् ब्रह्म ब्रह्मलिङ्गं प्रशान्तम्

॥२५॥

कालो दैवं कर्म जीवः स्वभावो द्रव्यं क्षेत्रं प्राण आत्मा विकारः ।

तत्सङ्घातो बीजरोहप्रवाहः त्वन्मायैषा तन्निषेधं प्रपद्ये

॥२६॥

नानाभावैर्लीलयैवोपपन्नैः देवान् साधून् लोकसेतून्बिभर्षि ।

हंस्युन्मार्गान् हिंसया वर्तमानान् जन्मैतत्ते भारहाराय भूमेः

॥२७॥

तप्तोऽहं ते तेजसा दुःसहेन शान्तोग्रेणात्युल्बणेन ज्वरेण ।

तावत्तापो देहिनां तेऽङ्घ्रिमूलं नो सेवेरन् यावदाशानुबद्धाः

॥२८॥

श्रीभगवानुवाच

( अनुष्टुप् ) त्रिशिरस्ते प्रसन्नोऽस्मि व्येतु ते मज्ज्वराद्भयम् ।

यो नौ स्मरति संवादं तस्य त्वन्न भवेद्भयम्

॥२९॥

इत्युक्तोऽच्युतमानम्य गतो माहेश्वरो ज्वरः ।

बाणस्तु रथमारूढः प्रागाद्योत्स्यञ्जनार्दनम्

॥३०॥

ततो बाहुसहस्रेण नानायुधधरोऽसुरः ।

मुमोच परमक्रुद्धो बाणांश्चक्रायुधे नृप

॥३१॥

तस्यास्यतोऽस्त्राण्यसकृत् चक्रेण क्षुरनेमिना ।

चिच्छेद भगवान्बाहून् शाखा इव वनस्पतेः

॥३२॥

बाहुषु छिद्यमानेषु बाणस्य भगवान् भवः ।

भक्तानकम्प्युपव्रज्य चक्रायुधमभाषत

॥३३॥

श्रीरुद्र उवाच

त्वं हि ब्रह्म परं ज्योतिः गूढं ब्रह्मणि वाङ्मये ।

यं पश्यन्त्यमलात्मान आकाशमिव केवलम्

॥३४॥

( मिश्र ) नाभिर्नभोऽग्निर्मुखमम्बु रेतो द्यौः शीर्षमाशाः श्रुतिरङ्घ्रिरुर्वी ।

चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्रः

॥३५॥

रोमाणि यस्यौषधयोऽम्बुवाहाः केशा विरिञ्चो धिषणा विसर्गः ।

प्रजापतिर्हृदयं यस्य धर्मः स वै भवान् पुरुषो लोककल्पः

॥३६॥

तवावतारोऽयमकुण्ठधामन् धर्मस्य गुप्त्यै जगतो हिताय ।

वयं च सर्वे भवतानुभाविता विभावयामो भुवनानि सप्त

॥३७॥

त्वमेक आद्यः पुरुषोऽद्वितीयः तुर्यः स्वदृग् हेतुरहेतुरीशः ।

प्रतीयसेऽथापि यथाविकारं स्वमायया सर्वगुणप्रसिद्ध्यै

॥३८॥

यथैव सूर्यः पिहितश्छायया स्वया छायां च रूपाणि च सञ्चकास्ति ।

एवं गुणेनापिहितो गुणांस्त्वम् आत्मप्रदीपो गुणिनश्च भूमन्

॥३९॥

( अनुष्टुप् ) यन्मायामोहितधियः पुत्रदारगृहादिषु ।

उन्मज्जन्ति निमज्जन्ति प्रसक्ता वृजिनार्णवे

॥४०॥

देवदत्तमिमं लब्ध्वा नृलोकमजितेन्द्रियः ।

यो नाद्रियेत त्वत्पादौ स शोच्यो ह्यात्मवञ्चकः

॥४१॥

यस्त्वां विसृजते मर्त्य आत्मानं प्रियमीश्वरम् ।

विपर्ययेन्द्रियार्थार्थं विषमत्त्यमृतं त्यजन्

॥४२॥

अहं ब्रह्माथ विबुधा मुनयश्चामलाशयाः ।

सर्वात्मना प्रपन्नास्त्वां आत्मानं प्रेष्ठमीश्वरम्

॥४३॥

( मिश्र ) तं त्वा जगत्स्थित्युदयान्तहेतुं समं प्रशान्तं सुहृदात्मदैवम् ।

अनन्यमेकं जगदात्मकेतं भवापवर्गाय भजाम देवम्

॥४४॥

अयं ममेष्टो दयितोऽनुवर्ती मयाभयं दत्तममुष्य देव ।

संपाद्यतां तद्भवतः प्रसादो यथा हि ते दैत्यपतौ प्रसादः

॥४५॥

श्रीभगवानुवाच

( अनुष्टुप् ) यदात्थ भगवन् त्वं नः करवाम प्रियं तव ।

भवतो यद्व्यवसितं तन्मे साध्वनुमोदितम्

॥४६॥

अवध्योऽयं ममाप्येष वैरोचनिसुतोऽसुरः ।

प्रह्रादाय वरो दत्तो न वध्यो मे तवान्वयः

॥४७॥

दर्पोपशमनायास्य प्रवृक्णा बाहवो मया ।

सूदितं च बलं भूरि यच्च भारायितं भुवः

॥४८॥

चत्वारोऽस्य भुजाः शिष्टा भविष्यत्यजरामरः ।

पार्षदमुख्यो भवतो न कुतश्चिद्भयोऽसुरः

॥४९॥

इति लब्ध्वाभयं कृष्णं प्रणम्य शिरसासुरः ।

प्राद्युम्निं रथमारोप्य सवध्वा समुपानयत्

॥५०॥

अक्षौहिण्या परिवृतं सुवासःसमलङ्कृतम् ।

सपत्नीकं पुरस्कृत्य ययौ रुद्रानुमोदितः

॥५१॥

( वंशस्था ) स्वराजधानीं समलङ्कृतां ध्वजैः सतोरणैरुक्षितमार्गचत्वराम् ।

विवेश शङ्खानकदुन्दुभिस्वनैः अभ्युद्यतः पौरसुहृद्द्विजातिभिः

॥५२॥

( अनुष्टुप् ) य एवं कृष्णविजयं शङ्करेण च संयुगम् ।

संस्मरेत् प्रातरुत्थाय न तस्य स्यात् पराजयः

॥५३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धानयनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु