मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ६२

3
दशमस्कन्धः (उत्तरार्धः) · 62

अनिरुद्धबन्धः

ऊषा-अनिरुद्ध समागमः; अनिरुद्धस्य बंधनं च - श्रीराजोवाच ।

( अनुष्टुप् ) बाणस्य तनयां ऊषां उपयेमे यदूत्तमः ।

तत्र युद्धमभूद् घोरं हरिशङ्करयोर्महत् ।

एतत्सर्वं महायोगिन् समाख्यातुं त्वमर्हसि

॥१॥

श्रीशुक उवाच

बाणः पुत्रशतज्येष्ठो बलेरासीन् महात्मनः ।

येन वामनरूपाय हरयेऽदायि मेदिनी

॥२॥

तस्यौरसः सुतो बानः शिवभक्तिरतः सदा ।

मान्यो वदान्यो धीमांश्च सत्यसन्धो दृढव्रतः

॥३॥

शोणिताख्ये पुरे रम्ये स राज्यं अकरोत्पुरा ।

तस्य शम्भोः प्रसादेन किङ्करा इव तेऽमराः ।

सहस्रबाहुर्वाद्येन ताण्डवेऽतोषयन्मृडम्

॥४॥

भगवान् सर्वभूतेशः शरण्यो भक्तवत्सलः ।

वरेण छन्दयामास स तं वव्रे पुराधिपम्

॥५॥

स एकदाऽऽह गिरिशं पार्श्वस्थं वीर्यदुर्मदः ।

किरीटेनार्कवर्णेन संस्पृशन् तत्पदाम्बुजम्

॥६॥

नमस्ये त्वां महादेव लोकानां गुरुमीश्वरम् ।

पुंसां अपूर्णकामानां कामपूरामराङ्घ्रिपम्

॥७॥

दोःसहस्रं त्वया दत्तं परं भाराय मेऽभवत् ।

त्रिलोक्यां प्रतियोद्धारं न लभे त्वदृते समम्

॥८॥

कण्डूत्या निभृतैर्दोर्भिः युयुत्सुर्दिग्गजानहम् ।

आद्यायां चूर्णयन्नद्रीन् भीतास्तेऽपि प्रदुद्रुवुः

॥९॥

तत् श्रुत्वा भगवान् क्रुद्धः केतुस्ते भज्यते यदा ।

त्वद्दर्पघ्नं भवेन्मूढ संयुगं मत्समेन ते

॥१०॥

इत्युक्तः कुमतिर्हृष्टः स्वगृहं प्राविशन्नृप ।

प्रतीक्षन् गिरिशादेशं स्ववीर्यनशनं कुधीः

॥११॥

तस्योषा नाम दुहिता स्वप्ने प्राद्युम्निना रतिम् ।

कन्यालभत कान्तेन प्राग् अदृष्टश्रुतेन सा

॥१२॥

सा तत्र तमपश्यन्ती क्वासि कान्तेति वादिनी ।

सखीनां मध्य उत्तस्थौ विह्वला व्रीडिता भृशम्

॥१३॥

बाणस्य मंत्री कुम्भाण्डः चित्रलेखा च तत्सुता ।

सख्यपृच्छत् सखीं ऊषां कौतूहलसमन्विता

॥१४॥

कं त्वं मृगयसे सुभ्रु कीदृशस्ते मनोरथः ।

हस्तग्राहं न तेऽद्यापि राजपुत्र्युपलक्षये

॥१५॥

दृष्टः कश्चिन्नरः स्वप्ने श्यामः कमललोचनः ।

पीतवासा बृहद् बाहुः योषितां हृदयंगमः

॥१६॥

तमहं मृगये कान्तं पाययित्वाधरं मधु ।

क्वापि यातः स्पृहयतीं क्षिप्त्वा मां वृजिनार्णवे

॥१७॥

चित्रलेखोवाच

व्यसनं तेऽपकर्षामि त्रिलोक्यां यदि भाव्यते ।

तं आनेष्ये वरं यस्ते मनोहर्ता तमादिश

॥१८॥

इत्युक्त्वा देवगन्धर्व सिद्धचारणपन्नगान् ।

दैत्यविद्याधरान् यक्षान् मनुजांश्च यथालिखत्

॥१९॥

मनुजेषु च सा वृष्नीन् शूरं आनकदुन्दुभिम् ।

व्यलिखद् रामकृष्णौ च प्रद्युम्नं वीक्ष्य लज्जिता

॥२०॥

अनिरुद्धं विलिखितं वीक्ष्योषावाङ्मुखी ह्रिया ।

सोऽसावसाविति प्राह स्मयमाना महीपते

॥२१॥

चित्रलेखा तमाज्ञाय पौत्रं कृष्णस्य योगिनी ।

ययौ विहायसा राजन् द्वारकां कृष्णपालिताम्

॥२२॥

तत्र सुप्तं सुपर्यङ्के प्राद्युम्निं योगमास्थिता ।

गृहीत्वा शोणितपुरं सख्यै प्रियमदर्शयत्

॥२३॥

सा च तं सुन्दरवरं विलोक्य मुदितानना ।

दुष्प्रेक्ष्ये स्वगृहे पुम्भी रेमे प्राद्युम्निना समम्

॥२४॥

परार्ध्यवासःस्रग्गन्ध धूपदीपासनादिभिः ।

पानभोजन भक्ष्यैश्च वाक्यैः शुश्रूषणार्चितः

॥२५॥

गूढः कन्यापुरे शश्वत् प्रवृद्धस्नेहया तया ।

नाहर्गणान् स बुबुधे ऊषयापहृतेन्द्रियः

॥२६॥

तां तथा यदुवीरेण भुज्यमानां हतव्रताम् ।

हेतुभिर्लक्षयाञ्चक्रुः आप्रीतां दुरवच्छदैः

॥२७॥

भटा आवेदयाञ्चक्रू राजंस्ते दुहितुर्वयम् ।

विचेष्टितं लक्षयाम कन्यायाः कुलदूषणम्

॥२८॥

अनपायिभिरस्माभिः गुप्तायाश्च गृहे प्रभो ।

कन्याया दूषणं पुम्भिः दुष्प्रेक्ष्याया न विद्महे

॥२९॥

ततः प्रव्यथितो बाणो दुहितुः श्रुतदूषणः ।

त्वरितः कन्यकागारं प्राप्तोऽद्राक्षीद् यदूद्वहम्

॥३०॥

( मिश्र ) कामात्मजं तं भुवनैकसुन्दरं श्यामं पिशङ्गाम्बरमम्बुजेक्षणम् ।

बृहद्भुजं कुण्डलकुन्तलत्विषा स्मितावलोकेन च मण्डिताननम्

॥३१॥

दीव्यन्तमक्षैः प्रिययाभिनृम्णया तदङ्गसङ्गस्तनकुङ्कुमस्रजम् ।

बाह्वोर्दधानं मधुमल्लिकाश्रितां तस्याग्र आसीनमवेक्ष्य विस्मितः

॥३२॥

स तं प्रविष्टं वृतमाततायिभिः भटैरनीकैरवलोक्य माधवः ।

उद्यम्य मौर्वं परिघं व्यवस्थितो यथान्तको दण्डधरो जिघांसया

॥३३॥

जिघृक्षया तान् परितः प्रसर्पतः शुनो यथा शूकरयूथपोऽहनत् ।

ते हन्यमाना भवनाद् विनिर्गता निर्भिन्नमूर्धोरुभुजाः प्रदुद्रुवुः

॥३४॥

तं नागपाशैर्बलिनन्दनो बली घ्नन्तं स्वसैन्यं कुपितो बबन्ध ह ।

ऊषा भृशं शोकविषादविह्वला बद्धं निशम्याश्रुकलाक्ष्यरौदिषीत्

॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे अनिरुद्धबन्धो नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु