मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ८६

3
दशमस्कन्धः (उत्तरार्धः) · 86

श्रुतदेवानुग्रहः

सुभद्राहरणं श्रीकृष्णस्य मिथिलागमनं तत्र बहुलाश्वश्रुतदेवयोः सद्मनि सकृदेव प्रवेशः - श्रीराजोवाच ।

( अनुष्टुप् ) ब्रह्मन् वेदितुमिच्छामः स्वसारं रामकृष्णयोः ।

यथोपयेमे विजयो या ममासीत् पितामही

॥१॥

श्रीशुक उवाच

अर्जुनस्तीर्थयात्रायां पर्यटन् अवनीं प्रभुः ।

गतः प्रभासमश्रृणोन् मातुलेयीं स आत्मनः

॥२॥

दुर्योधनाय रामस्तां दास्यतीति न चापरे ।

तल्लिप्सुः स यतिर्भूत्वा त्रिदण्डी द्वारकामगात्

॥३॥

तत्र वै वार्षिकान् मासान् अवात्सीत् स्वार्थसाधकः ।

पौरैः सभाजितोऽभीक्ष्णं रामेणाजानता च सः

॥४॥

एकदा गृहमानीय आतिथ्येन निमंत्र्य तम् ।

श्रद्धयोपहृतं भैक्ष्यं बलेन बुभुजे किल

॥५॥

सोऽपश्यत्तत्र महतीं कन्यां वीरमनोहराम् ।

प्रीत्युत्फुल्लेक्षणस्तस्यां भावक्षुब्धं मनो दधे

॥६॥

सापि तं चकमे वीक्ष्य नारीणां हृदयंगमम् ।

हसन्ती व्रीडितापाङ्गी तन्न्यस्तहृदयेक्षणा

॥७॥

तां परं समनुध्यायन् नन्तरं प्रेप्सुरर्जुनः ।

न लेभे शं भ्रमच्चित्तः कामेनातिबलीयसा

॥८॥

महत्यां देवयात्रायां रथस्थां दुर्गनिर्गतां ।

जहारानुमतः पित्रोः कृष्णस्य च महारथः

॥९॥

रथस्थो धनुरादाय शूरांश्चारुन्धतो भटान् ।

विद्राव्य क्रोशतां स्वानां स्वभागं मृगराडिव

॥१०॥

तच्छ्रुत्वा क्षुभितो रामः पर्वणीव महार्णवः ।

गृहीतपादः कृष्णेन सुहृद्भिश्चानुसाम्यत

॥११॥

प्राहिणोत्पारिबर्हाणि वरवध्वोर्मुदा बलः ।

महाधनोपस्करेभ रथाश्वनरयोषितः

॥१२॥

श्रीशुक उवाच

कृष्णस्यासीद् द्विजश्रेष्ठः श्रुतदेव इति श्रुतः ।

कृष्णैकभक्त्या पूर्णार्थः शान्तः कविरलम्पटः

॥१३॥

स उवास विदेहेषु मिथिलायां गृहाश्रमी ।

अनीहयागताहार्य निर्वर्तितनिजक्रियः

॥१४॥

यात्रामात्रं त्वहरहः दैवाद् उपनमत्युत ।

नाधिकं तावता तुष्टः क्रिया चक्रे यथोचिताः

॥१५॥

तथा तद्राष्ट्रपालोऽङ्ग बहुलाश्व इति श्रुतः ।

मैथिलो निरहम्मान उभावप्यच्युतप्रियौ

॥१६॥

तयोः प्रसन्नो भगवान् दारुकेणाहृतं रथम् ।

आरुह्य साकं मुनिभिः विदेहान् प्रययौ प्रभुः

॥१७॥

नारदो वामदेवोऽत्रिः कृष्णो रामोऽसितोऽरुणिः ।

अहं बृहस्पतिः कण्वो मैत्रेयश्च्यवनादयः

॥१८॥

तत्र तत्र तमायान्तं पौरा जानपदा नृप ।

उपतस्थुः सार्घ्यहस्ता ग्रहैः सूर्यमिवोदितम्

॥१९॥

( वसंततिलका ) आनर्तधन्वकुरुजाङ्गलकङ्कमत्स्य पाञ्चालकुन्तिमधुकेकयकोशलार्णाः ।

अन्ये च तन्मुखसरोजमुदारहास स्निग्धेक्षणं नृप पपुर्दृशिभिर्नृनार्यः

॥२०॥

तेभ्यः स्ववीक्षणविनष्टतमिस्रदृग्भ्यः क्षेमं त्रिलोकगुरुरर्थदृशं च यच्छन् ।

श्रृणवन् दिगन्तधवलं स्वयशोऽशुभघ्नं गीतं सुरैर्नृभिरगात् शनकैर्विदेहान्

॥२१॥

( अनुष्टुप् ) तेऽच्युतं प्राप्तमाकर्ण्य पौरा जानपदा नृप ।

अभीयुर्मुदितास्तस्मै गृहीतार्हणपाणयः

॥२२॥

दृष्ट्वा त उत्तमःश्लोकं प्रीत्युत्फुलाननाशयाः ।

कैर्धृताञ्जलिभिर्नेमुः श्रुतपूर्वान् तथा मुनीन्

॥२३॥

स्वानुग्रहाय सम्प्राप्तं मन्वानौ तं जगद्गुरुम् ।

मैथिलः श्रुतदेवश्च पादयोः पेततुः प्रभोः

॥२४॥

न्यमन्त्रयेतां दाशार्हं आतिथ्येन सह द्विजैः ।

मैथिलः श्रुतदेवश्च युगपत् संहताञ्जली

॥२५॥

भगवान् तदभिप्रेत्य द्वयोः प्रियचिकीर्षया ।

उभयोराविशद् गेहं उभाभ्यां तदलक्षितः

॥२६॥

श्रोतुमप्यसतां दूरान् जनकः स्वगृहागतान् ।

आनीतेष्वासनाग्र्येषु सुखासीनान् महामनाः

॥२७॥

प्रवृद्धभक्त्या उद्धर्ष हृदयास्राविलेक्षणः ।

नत्वा तदङ्घ्रीन् प्रक्षाल्य तदपो लोकपावनीः

॥२८॥

सकुटुम्बो वहन्मूर्ध्ना पूजयां चक्र ईश्वरान् ।

गन्धमाल्याम्बराकल्प धूपदीपार्घ्यगोवृषैः

॥२९॥

वाचा मधुरया प्रीणन् इदमाहान्नतर्पितान् ।

पादावङ्कगतौ विष्णोः संस्पृशञ्छनकैर्मुदा

॥३०॥

श्रीबहुलाश्व उवाच

भवान्हि सर्वभूतानां आत्मा साक्षी स्वदृग् विभो ।

अथ नस्त्वत्पदाम्भोजं स्मरतां दर्शनं गतः

॥३१॥

स्ववचस्तदृतं कर्तुं अस्मद्दृग्गोचरो भवान् ।

यदात्थैकान्तभक्तान् मे नानन्तः श्रीरजः प्रियः

॥३२॥

को नु त्वच्चरणाम्भोजं एवंविद् विसृजेत् पुमान् ।

निष्किञ्चनानां शान्तानां मुनीनां यस्त्वमात्मदः

॥३३॥

योऽवतीर्य यदोर्वंशे नृणां संसरतामिह ।

यशो वितेने तच्छान्त्यै त्रैलोक्यवृजिनापहम्

॥३४॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

नारायणाय ऋषये सुशान्तं तप ईयुषे

॥३५॥

दिनानि कतिचिद् भूमन् गृहान् नो निवस द्विजैः ।

समेतः पादरजसा पुनीहीदं निमेः कुलम्

॥३६॥

इत्युपामन्त्रितो राज्ञा भगवान् लोकभावनः ।

उवास कुर्वन् कल्याणं मिथिलानरयोषिताम्

॥३७॥

श्रुतदेवोऽच्युतं प्राप्तं स्वगृहाञ्जनको यथा ।

नत्वा मुनीन् सुसंहृष्टो धुन्वन् वासो ननर्त ह

॥३८॥

तृणपीठबृषीष्वेतान् आनीतेषूपवेश्य सः ।

स्वागतेनाभिनन्द्याङ्घ्रीन् सभार्योऽवनिजे मुदा

॥३९॥

तदम्भसा महाभाग आत्मानं सगृहान्वयम् ।

स्नापयां चक्र उद्धर्षो लब्धसर्वमनोरथः

॥४०॥

( मिश्र ) फलार्हणोशीरशिवामृताम्बुभिः मृदा सुरभ्या तुलसीकुशाम्बुजैः ।

आराधयामास यथोपपन्नया सपर्यया सत्त्वविवर्धनान्धसा

॥४१॥

स तर्कयामास कुतो ममान्वभूद् गृहान्धकुपे पतितस्य सङ्गमः ।

यः सर्वतीर्थास्पदपादरेणुभिः कृष्णेन चास्यात्मनिकेतभूसुरैः

॥४२॥

( अनुष्टुप् ) सूपविष्टान् कृतातिथ्यान् श्रुतदेव उपस्थितः ।

सभार्यस्वजनापत्य उवाचाङ्घ्र्यभिमर्शनः

॥४३॥

श्रुतदेव उवाच

नाद्य नो दर्शनं प्राप्तः परं परमपूरुषः ।

यर्हीदं शक्तिभिः सृष्ट्वा प्रविष्टो ह्यात्मसत्तया

॥४४॥

यथा शयानः पुरुषो मनसैवात्ममायया ।

सृष्ट्वा लोकं परं स्वाप्नं अनुविश्यावभासते

॥४५॥

श्रृण्वतां गदतां शश्वद् अर्चतां त्वाभिवन्दताम् ।

नृणां संवदतामन्तः हृदि भास्यमलात्मनाम्

॥४६॥

हृदिस्थोऽप्यतिदूरस्थः कर्मविक्षिप्तचेतसाम् ।

आत्मशक्तिभिरग्राह्योऽपि अन्त्युपेतगुणात्मनाम्

॥४७॥

( वंशस्था ) नमोऽस्तु तेऽध्यात्मविदां परात्मने अनात्मने स्वात्मविभक्तमृत्यवे ।

सकारणाकारणलिङ्गमीयुषे स्वमाययासंवृतरुद्धदृष्टये

॥४८॥

( अनुष्टुप् ) स त्वं शाधि स्वभृत्यान् नः किं देव करवामहे ।

एतदन्तो नृणां क्लेशो यद्भवानक्षिगोचरः

॥४९॥

श्रीशुक उवाच

तदुक्तमित्युपाकर्ण्य भगवान् प्रणतार्तिहा ।

गृहीत्वा पाणिना पाणिं प्रहसन् तमुवाच ह

॥५०॥

श्रीभगवानुवाच

ब्रह्मंस्तेऽनुग्रहार्थाय सम्प्राप्तान् विद्ध्यमून् मुनीन् ।

सञ्चरन्ति मया लोकान् पुनन्तः पादरेणुभिः

॥५१॥

देवाः क्षेत्राणि तीर्थानि दर्शनस्पर्शनार्चनैः ।

शनैः पुनन्ति कालेन तदप्यर्हत्तमेक्षया

॥५२॥

ब्राह्मणो जन्मना श्रेयान् सर्वेषां प्राणिनामिह ।

तपसा विद्यया तुष्ट्या किमु मत्कलया युतः

॥५३॥

न ब्राह्मणान्मे दयितं रूपमेतच्चतुर्भुजम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो ह्यहम्

॥५४॥

दुष्प्रज्ञा अविदित्वैवं अवजानन्त्यसूयवः ।

गुरुं मां विप्रमात्मानं अर्चादाविज्यदृष्टयः

॥५५॥

चराचरमिदं विश्वं भावा ये चास्य हेतवः ।

मद् रूपाणीति चेतस्य आधत्ते विप्रो मदीक्षया

॥५६॥

तस्माद् ब्रह्मऋषीनेतान् ब्रह्मन् मच्छ्रद्धयार्चय ।

एवं चेदर्चितोऽस्म्यद्धा नान्यथा भूरिभूतिभिः

॥५७॥

श्रीशुक उवाच

स इत्थं प्रभुनादिष्टः सहकृष्णान् द्विजोत्तमान् ।

आराध्यैकात्मभावेन मैथिलश्चाप सद्गतिम्

॥५८॥

एवं स्वभक्तयो राजन् भगवान् भक्तभक्तिमान् ।

उषित्वाऽऽदिश्य सन्मार्गं पुनर्द्वारवतीमगात्

॥५९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रुतदेवानुग्रहो नाम षडशीतितमोऽध्यायः ॥ ८६ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु