मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ७७

3
दशमस्कन्धः (उत्तरार्धः) · 77

भगवता सौभसहितस्य शाल्वस्य विनाशः

श्रीशुक उवाच

( अनुष्टुप् ) स तूपस्पृश्य सलिलं दंशितो धृतकार्मुकः ।

नय मां द्युमतः पार्श्वं वीरस्येत्याह सारथिम्

॥१॥

विधमन्तं स्वसैन्यानि द्युमन्तं रुक्मिणीसुतः ।

प्रतिहत्य प्रत्यविध्यन् नाराचैरष्टभिः स्मयन्

॥२॥

चतुर्भिश्चतुरो वाहान् सूतमेकेन चाहनत् ।

द्वावाभ्यं धनुश्च केतुं च शरेणान्येन वै शिरः

॥३॥

गदसात्यकिसाम्बाद्या जघ्नुः सौभपतेर्बलम् ।

पेतुः समुद्रे सौभेयाः सर्वे संछिन्नकन्धराः

॥४॥

एवं यदूनां शाल्वानां निघ्नतामितरेतरम् ।

युद्धं त्रिणवरात्रं तद् अभूत् तुमुलमुल्बणम्

॥५॥

इन्द्रप्रस्थं गतः कृष्ण आहूतो धर्मसूनुना ।

राजसूयेऽथ निवृत्ते शिशुपाले च संस्थिते

॥६॥

कुरुवृद्धाननुज्ञाप्य मुनींश्च ससुतां पृथाम् ।

निमित्तान्यतिघोराणि पश्यन् द्वावारवतीं ययौ

॥७॥

आह चाहमिहायात आर्यमिश्राभिसङ्गतः ।

राजन्याश्चैद्यपक्षीया नूनं हन्युः पुरीं मम

॥८॥

वीक्ष्य तत्कदनं स्वानां निरूप्य पुररक्षणम् ।

सौभं च शाल्वराजं च दारुकं प्राह केशवः

॥९॥

रथं प्रापय मे सूत शाल्वस्यान्तिकमाशु वै ।

सम्भ्रमस्ते न कर्तव्यो मायावी सौभराडयम्

॥१०॥

इत्युक्तश्चोदयामास रथमास्थाय दारुकः ।

विशन्तं ददृशुः सर्वे स्वे परे चारुणानुजम्

॥११॥

शाल्वश्च कृष्णमालोक्य हतप्रायबलेश्वरः ।

प्राहरत् कृष्णसूताय शक्तिं भीमरवां मृधे

॥१२॥

तामापतन्तीं नभसि महोल्कामिव रंहसा ।

भासयन्तीं दिशः शौरिः सायकैः शतधाच्छिनत्

॥१३॥

तं च षोडशभिर्विद्ध्वा बाणैः सौभं च खे भ्रमत् ।

अविध्यच्छरसन्दोहैः खं सूर्य इव रश्मिभिः

॥१४॥

शाल्वः शौरेस्तु दोः सव्यं शार्ङ्गं शार्ङ्गधन्वनः ।

बिभेद न्यपतद् हस्तात् शार्ङ्गमासीत् तदद्भुतम्

॥१५॥

हाहाकारो महानासीद् भूतानां तत्र पश्यताम् ।

निनद्य सौभराडुच्चैः इदमाह जनार्दनम्

॥१६॥

यत्त्वया मूढ नः सख्युः भ्रातुर्भार्या हृतेक्षताम् ।

प्रमत्तः स सभामध्ये त्वया व्यापादितः सखा

॥१७॥

तं त्वाद्य निशितैर्बाणैः अपराजितमानिनम् ।

नयाम्यपुनरावृत्तिं यदि तिष्ठेर्ममाग्रतः

॥१८॥

श्रीभगवानुवाच

वृथा त्वं कत्थसे मन्द न पश्यस्यन्तिकेऽन्तकम् ।

पौरुषं दर्शयन्ति स्म शूरा न बहुभाषिणः

॥१९॥

इत्युक्त्वा भगवान् शाल्वं गदया भीमवेगया ।

तताड जत्रौ संरब्धः स चकम्पे वमन्नसृक्

॥२०॥

गदायां सन्निवृत्तायां शाल्वस्त्वन्तरधीयत ।

ततो मुहूर्त आगत्य पुरुषः शिरसाच्युतम् ।

देवक्या प्रहितोऽस्मीति नत्वा प्राह वचो रुदन्

॥२१॥

कृष्ण कृष्ण महाबाहो पिता ते पितृवत्सल ।

बद्ध्वापनीतः शाल्वेन सौनिकेन यथा पशुः

॥२२॥

निशम्य विप्रियं कृष्णो मानुषीं प्रकृतिं गतः ।

विमनस्को घृणी स्नेहाद् बभाषे प्राकृतो यथा

॥२३॥

कथं राममसम्भ्रान्तं जित्वाजेयं सुरासुरैः ।

शाल्वेनाल्पीयसा नीतः पिता मे बलवान् विधिः

॥२४॥

इति ब्रुवाणे गोविन्दे सौभराट् प्रत्युपस्थितः ।

वसुदेवमिवानीय कृष्णं चेदमुवाच सः

॥२५॥

एष ते जनिता तातो यदर्थमिह जीवसि ।

वधिष्ये वीक्षतस्तेऽमुं ईशश्चेत् पाहि बालिश

॥२६॥

एवं निर्भर्त्स्य मायावी खड्गेनानकदुन्दुभेः ।

उत्कृत्य शिर आदाय खस्थं सौभं समाविशत्

॥२७॥

( मिश्र ) ततो मुहूर्तं प्रकृतावुपप्लुतः स्वबोध आस्ते स्वजनानुषङ्गतः ।

महानुभावस्तदबुध्यदासुरीं मायां स शाल्वप्रसृतां मयोदिताम्

॥२८॥

न तत्र दूतं न पितुः कलेवरं प्रबुद्ध आजौ समपश्यदच्युतः ।

स्वाप्नं यथा चाम्बरचारिणं रिपुं सौभस्थमालोक्य निहन्तुमुद्यतः

॥२९॥

( अनुष्टुप् ) एवं वदन्ति राजर्षे ऋषयः के च नान्विताः ।

यत् स्ववाचो विरुध्येत नूनं ते न स्मरन्त्युत

॥३०॥

क्व शोकमोहौ स्नेहो वा भयं वा येऽज्ञसम्भवाः ।

क्व चाखण्डितविज्ञान ज्ञानैश्वर्यस्त्वखण्डितः

॥३१॥

( मिश्र ) यत्पादसेवोर्जितयाऽऽत्मविद्यया हिन्वन्त्यनाद्यात्मविपर्ययग्रहम् ।

लभन्त आत्मीयमनन्तमैश्वरं कुतो नु मोहः परमस्य सद्गतेः

॥३२॥

तं शस्त्रपूगैः प्रहरन्तमोजसा शाल्वं शरैः शौरिरमोघविक्रमः ।

विद्ध्वाच्छिनद् वर्म धनुः शिरोमणिं सौभं च शत्रोर्गदया रुरोज ह

॥३३॥

तत्कृष्णहस्तेरितया विचूर्णितं पपात तोये गदया सहस्रधा ।

विसृज्य तद् भूतलमास्थितो गदां उद्यम्य शाल्वोऽच्युतमभ्यगाद् द्रुतम्

॥३४॥

आधावतः सगदं तस्य बाहुं भल्लेन छित्त्वाथ रथाङ्गमद्भुतम् ।

वधाय शाल्वस्य लयार्कसन्निभं बिभ्रद् बभौ सार्क इवोदयाचलः

॥३५॥

जहार तेनैव शिरः सकुण्डलं किरीटयुक्तं पुरुमायिनो हरिः ।

वज्रेण वृत्रस्य यथा पुरन्दरो बभूव हाहेति वचस्तदा नृणाम्

॥३६॥

( अनुष्टुप् ) तस्मिन्निपतिते पापे सौभे च गदया हते ।

नेदुर्दुन्दुभयो राजन् दिवि देवगणेरिताः ।

सखीनां अपचितिं कुर्वन् दन्तवक्रो रुषाभ्यगात्

॥३७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे सौभवधो नाम सप्तसप्ततितमोऽध्यायः ॥ ७७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु