श्रीकृष्णचरितानुवर्णनम्
श्रीकृष्णलीलानां संक्षेपतोऽवर्णनं, तन्महिषीणां तस्मिन् अनुरागाधिक्यं यदुवंशीयानामसख्येयत्व प्रतिपादनं च - श्रीशुक उवाच ।
( अनुष्टुप् ) सुखं स्वपुर्यां निवसन् द्वारकायां श्रियः पतिः ।
सर्वसम्पत्समृद्धायां जुष्टायां वृष्णिपुङ्गवैः
॥१॥स्त्रीभिश्चोत्तमवेषाभिः नवयौवनकान्तिभिः ।
कन्दुकादिभिर्हर्म्येषु क्रीडन्तीभिस्तडिद्द्युभिः
॥२॥नित्यं सङ्कुलमार्गायां मदच्युद्भिर्मतङ्गजैः ।
स्वलङ्कृतैर्भटैरश्वै रथैश्च कनकोज्ज्वलैः
॥३॥उद्यानोपवनाढ्यायां पुष्पितद्रुमराजिषु ।
निर्विशद्भृङ्गविहगैः नादितायां समन्ततः
॥४॥रेमे षोडशसाहस्र पत्नीनां एकवल्लभः ।
तावद्विचित्ररूपोऽसौ तद्गेहेषु महर्द्धिषु
॥५॥प्रोत्फुल्लोत्पलकह्लार कुमुदाम्भोजरेणुभिः ।
वासितामलतोयेषु कूजद्द्विजकुलेषु च
॥६॥विजहार विगाह्याम्भो ह्रदिनीषु महोदयः ।
कुचकुङ्कुमलिप्ताङ्गः परिरब्धश्च योषिताम्
॥७॥उपगीयमानो गन्धर्वैः मृदङ्गपणवानकान् ।
वादयद्भिर्मुदा वीणां सूतमागधवन्दिभिः
॥८॥सिच्यमानोऽच्युतस्ताभिः हसन्तीभिः स्म रेचकैः ।
प्रतिषिञ्चन् विचिक्रीडे यक्षीभिर्यक्षराडिव
॥९॥( वसंततिलका ) ताः क्लिन्नवस्त्रविवृतोरुकुचप्रदेशाः सिञ्चन्त्य उद्धृतबृहत्कवरप्रसूनाः ।
कान्तं स्म रेचकजिहीर्षययोपगुह्य जातस्मरोत्स्मयलसद् वदना विरेजुः
॥१०॥कृष्णस्तु तत्स्तनविषत् जितकुङ्कुमस्रक् क्रीडाभिषङ्गधुतकुन्तलवृन्दबन्धः ।
सिञ्चन् मुन्मुहुर्युवतिभिः प्रतिषिच्यमानो रेमे करेणुभिरिवेभपतिः परीतः
॥११॥( अनुष्टुप् ) नटानां नर्तकीनां च गीतवाद्योपजीविनाम् ।
क्रीडालङ्कारवासांसि कृष्णोऽदात्तस्य च स्त्रियः
॥१२॥कृष्णस्यैवं विहरतो गत्यालापेक्षितस्मितैः ।
नर्मक्ष्वेलिपरिष्वङ्गैः स्त्रीणां किल हृता धियः
॥१३॥ऊचुर्मुकुन्दैकधियो गिर उन्मत्तवज्जडम् ।
चिन्तयन्त्योऽरविन्दाक्षं तानि मे गदतः श्रृणु
॥१४॥महिष्य ऊचुः
( मालिनी ) कुररि विलपसि त्वं वीतनिद्रा न शेषे स्वपिति जगति रात्र्यामीश्वरो गुप्तबोधः ।
वयमिव सखि कच्चिद्गाढनिर्विद्धचेता नलिननयनहासोदारलीलेक्षितेन
॥१५॥( वसंततिलका ) नेत्रे निमीलयसि नक्तमदृष्टबन्धुः त्वं रोरवीषि करुणं बत चक्रवाकि ।
दास्यं गत वयमिवाच्युतपादजुष्टां किं वा स्रजं स्पृहयसे कबरेण वोढुम्
॥१६॥( मिश्र ) भो भोः सदा निष्टनसे उदन्वन् अलब्धनिद्रोऽधिगतप्रजागरः ।
किं वा मुकुन्दापहृतात्मलाञ्छनः प्राप्तां दशां त्वं च गतो दुरत्ययाम्
॥१७॥( वसंततिलका ) त्वं यक्ष्मणा बलवतासि गृहीत इन्दो क्षीणस्तमो न निजदीधितिभिः क्षिणोषि ।
कच्चिन् गकुन्दगदितानि यथा वयं त्वं विस्मृत्य भोः स्थगितगीरुपलक्ष्यसे नः
॥१८॥( अनुष्टुप् ) किं न्वाचरितमस्माभिः मलयानिल तेऽप्रियम् ।
गोविन्दापाङ्गनिर्भिन्ने हृदीरयसि नः स्मरम्
॥१९॥( मंदाक्रान्ता ) मेघ श्रीमन् त्वमसि दयितो यादवेन्द्रस्य नूनं श्रीवत्साङ्कं वयमिव भवान् ध्यायति प्रेमबद्धः ।
अत्युत्कण्ठः शबलहृदयोऽस्मद्विधो बाष्पधाराः स्मृत्वा स्मृत्वा विसृजसि मुहुर्दुःखदस्तत्प्रसङ्गः
॥२०॥( वियोगिनि ) प्रियरावपदानि भाषसे मृत सञ्जीविकयानया गिरा करवाणि किमद्य ते प्रियं वद मे वल्गितकण्ठ कोकिल
॥२१॥( पुष्पिताग्रा ) न चलसि न वदस्युदारबुद्धे क्षितिधर चिन्तयसे महान्तमर्थम् ।
अपि बत वसुदेवनन्दनाङ्घ्रिं वयमिव कामयसे स्तनैर्विधर्तुम्
॥२२॥( वसंततिलका ) शुष्यद्ध्रदाः करशिता बत सिन्धुपत्न्यः सम्प्रत्यपास्तकमलश्रिय इष्टभर्तुः ।
यद्वद् वयं मधुपतेः प्रणयावलोकम् अप्राप्य मुष्टहृदयाः पुरुकर्शिताः स्म
॥२३॥( शार्दूलविक्रिडित ) हंस स्वागतमास्यतां पिब पयो ब्रूह्यङ्ग शौरेः कथां दूतं त्वां नु विदाम कच्चिदजितः स्वस्त्यास्त उक्तं पुरा ।
किं वा नश्चलसौहृदः स्मरति तं कस्माद्भजामो वयं क्षौद्रालापय कामदं श्रियमृते सैवैकनिष्ठा स्त्रियाम्
॥२४॥श्रीशुक उवाच
( अनुष्टुप् ) इतीदृशेन भावेन कृष्णे योगेश्वरेश्वरे ।
क्रियमाणेन माधव्यो लेभिरे परमां गतिम्
॥२५॥श्रुतमात्रोऽपि यः स्त्रीणां प्रसह्याकर्षते मनः ।
उरुगायोरुगीतो वा पश्यन्तीनां कुतः पुनः
॥२६॥याः सम्पर्यचरन् प्रेम्णा पादसंवाहनादिभिः ।
जगद्गुरुं भर्तृबुद्ध्या तासां किं वर्ण्यते तपः
॥२७॥एवं वेदोदितं धर्मं अनुतिष्ठन् सतां गतिः ।
गृहं धर्मार्थकामानां मुहुश्चादर्शयत् पदम्
॥२८॥आस्थितस्य परं धर्मं कृष्णस्य गृहमेधिनाम् ।
आसन् षोडशसाहस्रं महिष्यश्च शताधिकम्
॥२९॥तासां स्त्रीरत्नभूतानां अष्टौ याः प्रागुदाहृताः ।
रुक्मिणीप्रमुखा राजन् तत्पुत्राश्चानुपूर्वशः
॥३०॥एकैकस्यां दश दश कृष्णोऽजीजनदात्मजान् ।
यावत्य आत्मनो भार्या अमोघगतिरीश्वरः
॥३१॥तेषां उद्दामवीर्याणां अष्टादश महारथाः ।
आसन्नुदारयशसः तेषां नामानि मे शृणु
॥३२॥प्रद्युम्नश्चानिरुद्धश्च दीप्तिमान् भानुरेव च ।
साम्बो मधुर्बृहद्भानुः चित्रभानुर्वृकोऽरुणः
॥३३॥पुष्करो वेदबाहुश्च श्रुतदेवः सुनन्दनः ।
चित्रबाहुर्विरूपश्च कविर्न्यग्रोध एव च
॥३४॥एतेषां अपि राजेन्द्र तनुजानां मधुद्विषः ।
प्रद्युम्न आसीत् प्रथमः पितृवद् रुक्मिणीसुतः
॥३५॥स रुक्मिणो दुहितरं उपयेमे महारथः ।
तस्यां ततोऽनिरुद्धोऽभूत् नागायतबलान्वितः
॥३६॥स चापि रुक्मिणः पौत्रीं दौहित्रो जगृहे ततः ।
वज्रस्तस्याभवद् यस्तु मौषलादवशेषितः
॥३७॥प्रतिबाहुरभूत्तस्मात् सुबाहुस्तस्य चात्मजः ।
सुबाहोः शान्तसेनोऽभूत् शतसेनस्तु तत्सुतः
॥३८॥न ह्येतस्मिन्कुले जाता अधना अबहुप्रजाः ।
अल्पायुषोऽल्पवीर्याश्च अब्रह्मण्याश्च जज्ञिरे
॥३९॥यदुवंशप्रसूतानां पुंसां विख्यातकर्मणाम् ।
सङ्ख्या न शक्यते कर्तुं अपि वर्षायुतैर्नृप
॥४०॥तिस्रः कोट्यः सहस्राणां अष्टाशीतिशतानि च ।
आसन्यदुकुलाचार्याः कुमाराणां इति श्रुतम्
॥४१॥सङ्ख्यानं यादवानां कः करिष्यति महात्मनाम् ।
यत्रायुतानां अयुत लक्षेणास्ते स आहुकः
॥४२॥देवासुराहवहता दैतेया ये सुदारुणाः ।
ते चोत्पन्ना मनुष्येषु प्रजा दृप्ता बबाधिरे
॥४३॥तन्निग्रहाय हरिणा प्रोक्ता देवा यदोः कुले ।
अवतीर्णाः कुलशतं तेषां एकाधिकं नृप
॥४४॥तेषां प्रमाणं भगवान् प्रभुत्वेनाभवद्धरिः ।
ये चानुवर्तिनस्तस्य ववृधुः सर्वयादवाः
॥४५॥शय्यासनाटनालाप क्रीडास्नानादिकर्मसु ।
न विदुः सन्तमात्मानं वृष्णयः कृष्णचेतसः
॥४६॥( स्रग्धरा ) तीर्थं चक्रे नृपोनं यदजनि यदुषु स्वःसरित्पादशौचं ।
विद्विट्स्निग्धाः स्वरूपं ययुरजितपरा श्रीर्यदर्थेऽन्ययत्नः ।
यन्नामामङ्गलघ्नं श्रुतमथ गदितं यत्कृतो गोत्रधर्मः कृष्णस्यैतन्न चित्रं क्षितिभरहरणं कालचक्रायुधस्य
॥४७॥( मालिनी ) जयति जननिवासो देवकीजन्मवादो यदुवरपरिषत्स्वैर्दोर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन व्रजपुरवनितानां वर्धयन् कामदेवम्
॥४८॥( वसंततिलका ) इत्थं परस्य निजवर्त्मरिरक्षयात्त लीलातनोस्तदनुरूपविडम्बनानि ।
कर्माणि कर्मकषणानि यदूत्तमस्य श्रूयादमुष्य पदयोरनुवृत्तिमिच्छन्
॥४९॥मर्त्यस्तयानुसवमेधितया मुकुन्द श्रीमत्कथाश्रवणकीर्तनचिन्तयैति ।
तद्धाम दुस्तरकृतान्तजवापवर्गं ग्रामाद्वनं क्षितिभुजोऽपि ययुर्यदर्थाः
॥५०॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे श्रीकृष्णचरितानुवर्णनं नाम नवतितमोऽध्यायः ॥ ९० ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु