मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ८२

3
दशमस्कन्धः (उत्तरार्धः) · 82

कुरुक्षेत्रे सूर्योपरागपर्वणि यदुभिः सह कुरूणां नन्दादिगोपानां च समागमः

श्रीशुक उवाच

( अनुष्टुप् ) अथैकदा द्वारवत्यां वसतो रामकृष्णयोः ।

सूर्योपरागः सुमहानासीत्कल्पक्षये यथा

॥१॥

तं ज्ञात्वा मनुजा राजन्पुरस्तादेव सर्वतः ।

समन्तपञ्चकं क्षेत्रं ययुः श्रेयोविधित्सया

॥२॥

निःक्षत्रियां महीं कुर्वन्रामः शस्त्रभृतां वरः ।

नृपाणां रुधिरौघेण यत्र चक्रे महाह्रदान्

॥३॥

ईजे च भगवान्रामो यत्रास्पृष्टोऽपि कर्मणा ।

लोकं सङ्ग्राहयन्नीशो यथान्योऽघापनुत्तये

॥४॥

महत्यां तीर्थयात्रायां तत्रागन्भारतीः प्रजाः ।

वृष्णयश्च तथाक्रूर वसुदेवाहुकादयः

॥५॥

ययुर्भारत तत्क्षेत्रं स्वमघं क्षपयिष्णवः ।

गदप्रद्युम्नसाम्बाद्याः सुचन्द्रशुकसारणैः

॥६॥

आस्तेऽनिरुद्धो रक्षायां कृतवर्मा च यूथपः ।

ते रथैर्देवधिष्ण्याभैः हयैश्च तरलप्लवैः

॥७॥

गजैर्नदद्भिरभ्राभैः नृभिर्विद्याधरद्युभिः ।

व्यरोचन्त महातेजाः पथि काञ्चनमालिनः

॥८॥

दिव्यस्रग्वस्त्रसन्नाहाः कलत्रैः खेचरा इव ।

तत्र स्नात्वा महाभागा उपोष्य सुसमाहिताः

॥९॥

ब्राह्मणेभ्यो ददुर्धेनूः वासःस्रग्रुक्ममालिनीः ।

रामह्रदेषु विधिवत् पुनराप्लुत्य वृष्णयः

॥१०॥

ददुः स्वन्नं द्विजाग्र्येभ्यः कृष्णे नो भक्तिरस्त्विति ।

स्वयं च तदनुज्ञाता वृष्णयः कृष्णदेवताः

॥११॥

भुक्त्वोपविविशुः कामं स्निग्धच्छायाङ्घ्रिपाङ्घ्रिषु ।

तत्रागतांस्ते ददृशुः सुहृत्संबन्धिनो नृपान्

॥१२॥

मत्स्योशीनरकौशल्य विदर्भकुरुसृञ्जयान् ।

काम्बोजकैकयान् मद्रान् कुन्तीनानर्तकेरलान्

॥१३॥

अन्यांश्चैवात्मपक्षीयान् परांश्च शतशो नृप ।

नन्दादीन् सुहृदो गोपान् गोपीश्चोत्कण्ठिताश्चिरम्

॥१४॥

( मिश्र ) अन्योन्यसन्दर्शनहर्षरंहसा प्रोत्फुल्लहृद्वक्त्रसरोरुहश्रियः ।

आश्लिष्य गाढं नयनैः स्रवज्जला हृष्यत्त्वचो रुद्धगिरो ययुर्मुदम्

॥१५॥

स्त्रियश्च संवीक्ष्य मिथोऽतिसौहृद स्मितामलापाङ्गदृशोऽभिरेभिरे ।

स्तनैः स्तनान् कुङ्कुमपङ्करूषितान् निहत्य दोर्भिः प्रणयाश्रुलोचनाः

॥१६॥

( अनुष्टुप् ) ततोऽभिवाद्य ते वृद्धान् यविष्ठैरभिवादिताः ।

स्वागतं कुशलं पृष्ट्वा चक्रुः कृष्णकथा मिथः

॥१७॥

पृथा भ्रातॄन् स्वसॄर्वीक्ष्य तत्पुत्रान् पितरावपि ।

भ्रातृपत्नीर्मुकुन्दं च जहौ सङ्कथया शुचः

॥१८॥

कुन्त्युवाच

आर्य भ्रातरहं मन्ये आत्मानमकृताशिषम् ।

यद्वा आपत्सु मद्वार्तां नानुस्मरथ सत्तमाः

॥१९॥

सुहृदो ज्ञातयः पुत्रा भ्रातरः पितरावपि ।

नानुस्मरन्ति स्वजनं यस्य दैवमदक्षिणम्

॥२०॥

श्रीवसुदेव उवाच

अम्ब मास्मानसूयेथा दैवक्रीडनकान् नरान् ।

ईशस्य हि वशे लोकः कुरुते कार्यतेऽथ वा

॥२१॥

कंसप्रतापिताः सर्वे वयं याता दिशं दिशम् ।

एतर्ह्येव पुनः स्थानं दैवेनासादिताः स्वसः

॥२२॥

श्रीशुक उवाच

वसुदेवोग्रसेनाद्यैः यदुभिस्तेऽर्चिता नृपाः ।

आसन् अच्युतसन्दर्श परमानन्दनिर्वृताः

॥२३॥

भीष्मो द्रोणोऽम्बिकापुत्रो गान्धारी ससुता तथा ।

सदाराः पाण्डवाः कुन्ती सञ्जयो विदुरः कृपः

॥२४॥

कुन्तीभोजो विराटश्च भीष्मको नग्नजिन्महान् ।

पुरुजिद् द्रुपदः शल्यो धृष्टकेतुः सकाशिराट्

॥२५॥

दमघोषो विशालाक्षो मैथिलो मद्रकेकयौ ।

युधामन्युः सुशर्मा च ससुता बाह्लिकादयः

॥२६॥

राजानो ये च राजेन्द्र युधिष्ठिरमनुव्रताः ।

श्रीनिकेतं वपुः शौरेः सस्त्रीकं वीक्ष्य विस्मिताः

॥२७॥

अथ ते रामकृष्णाभ्यां सम्यक् प्राप्तसमर्हणाः ।

प्रशशंसुर्मुदा युक्ता वृष्णीन् कृष्णपरिग्रहान्

॥२८॥

अहो भोजपते यूयं जन्मभाजो नृणामिह ।

यत् पश्यथासकृत् कृष्णं दुर्दर्शमपि योगिनाम्

॥२९॥

( वसंततिलका ) यद्विश्रुतिः श्रुतिनुतेदमलं पुनाति पादावनेजनपयश्च वचश्च शास्त्रम् ।

भूः कालभर्जितभगापि यदङ्घ्रिपद्म स्पर्शोत्थशक्तिरभिवर्षति नोऽखिलार्थान्

॥३०॥

तद्दर्शनस्पर्शनानुपथप्रजल्प शय्यासनाशनसयौनसपिण्डबन्धः ।

येषां गृहे निरयवर्त्मनि वर्ततां वः स्वर्गापवर्गविरमः स्वयमास विष्णुः

॥३१॥

श्रीशुक उवाच

( अनुष्टुप् ) नन्दस्तत्र यदून् प्राप्तान् ज्ञात्वा कृष्णपुरोगमान् ।

तत्रागमद्वृतो गोपैः अनः स्थार्थैः दिदृक्षया

॥३२॥

तं दृष्ट्वा वृष्णयो हृष्टाः तन्वः प्राणमिवोत्थिताः ।

परिषस्वजिरे गाढं चिरदर्शनकातराः

॥३३॥

वसुदेवः परिष्वज्य सम्प्रीतः प्रेमविह्वलः ।

स्मरन् कंसकृतान् क्लेशान् पुत्रन्यासं च गोकुले

॥३४॥

कृष्णरामौ परिष्वज्य पितरावभिवाद्य च ।

न किञ्चनोचतुः प्रेम्णा साश्रुकण्ठौ कुरूद्वह

॥३५॥

तावात्मासनमारोप्य बाहुभ्यां परिरभ्य च ।

यशोदा च महाभागा सुतौ विजहतुः शुचः

॥३६॥

रोहिणी देवकी चाथ परिष्वज्य व्रजेश्वरीम् ।

स्मरन्त्यौ तत्कृतां मैत्रीं बाष्पकण्ठ्यौ समूचतुः

॥३७॥

का विस्मरेत वां मैत्रीं अनिवृत्तां व्रजेश्वरि ।

अवाप्याप्यैन्द्रमैश्वर्यं यस्या नेह प्रतिक्रिया

॥३८॥

( वसंततिलका ) एतावदृष्टपितरौ युवयोः स्म पित्रोः सम्प्रीणनाभ्युदयपोषणपालनानि ।

प्राप्योषतुर्भवति पक्ष्म ह यद्वदक्ष्णोः न्यस्तावकुत्र च भयौ न सतां परः स्वः

॥३९॥

श्रीशुक उवाच

गोप्यश्च कृष्णमुपलभ्य चिरादभीष्टं यत्प्रेक्षणे दृशिषु पक्ष्मकृतं शपन्ति ।

दृग्भिर्हृदीकृतमलं परिरभ्य सर्वाः तद्भावमापुरपि नित्ययुजां दुरापम्

॥४०॥

( अनुष्टुप् ) भगवांस्तास्तथाभूता विविक्त उपसङ्गतः ।

आश्लिष्यानामयं पृष्ट्वा प्रहसन् इदमब्रवीत्

॥४१॥

अपि स्मरथ नः सख्यः स्वानामर्थचिकीर्षया ।

गतांश्चिरायिताञ्छत्रु पक्षक्षपणचेतसः

॥४२॥

अप्यवध्यायथास्मान् स्विदकृतज्ञाविशङ्कया ।

नूनं भूतानि भगवान् युनक्ति वियुनक्ति च

॥४३॥

वायुर्यथा घनानीकं तृणं तूलं रजांसि च ।

संयोज्याक्षिपते भूयः तथा भूतानि भूतकृत्

॥४४॥

मयि भक्तिर्हि भूतानां अमृतत्वाय कल्पते ।

दिष्ट्या यदासीत् मत्स्नेहो भवतीनां मदापनः

॥४५॥

अहं हि सर्वभूतानां आदिरन्तोऽन्तरं बहिः ।

भौतिकानां यथा खं वार्भूर्वायुर्ज्योतिरङ्गनाः

॥४६॥

एवं ह्येतानि भूतानि भूतेष्वात्माऽऽत्मना ततः ।

उभयं मय्यथ परे पश्यताभातमक्षरे

॥४७॥

श्रीशुक उवाच

अध्यात्मशिक्षया गोप्य एवं कृष्णेन शिक्षिताः ।

तदनुस्मरणध्वस्त जीवकोशास्तमध्यगन्

॥४८॥

( वसंततिलका ) आहुश्च ते नलिननाभ पदारविन्दं योगेश्वरैर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं गेहं जुषामपि मनस्युदियात् सदा नः

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे वृष्णीगोपसंगमो नाम द्व्यशीतितमोऽध्यायः ॥ ८२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु