दुर्योधनमानभंगः
राजसूयान्तेऽवभृथस्नानमहोत्सवः; मयनिर्मितायां युधिष्ठिरसभायां दुर्योधनस्यावमाननं च - श्रीराजोवाच ।
( अनुष्टुप् ) अजातशत्रोस्तं दृष्ट्वा राजसूयमहोदयम् ।
सर्वे मुमुदिरे ब्रह्मन् नृदेवा ये समागताः
॥१॥दुर्योधनं वर्जयित्वा राजानः सर्षयः सुराः ।
इति श्रुतं नो भगवन् तत्र कारणमुच्यताम्
॥२॥श्रीबादरायणिरुवाच
पितामहस्य ते यज्ञे राजसूये महात्मनः ।
बान्धवाः परिचर्यायां तस्यासन् प्रेमबंधनाः
॥३॥भीमो महानसाध्यक्षो धनाध्यक्षः सुयोधनः ।
सहदेवस्तु पूजायां नकुलो द्रव्यसाधने
॥४॥गुरुशुश्रूषणे जिष्णुः कृष्णः पादावनेजने ।
परिवेषणे द्रुपदजा कर्णो दाने महामनाः
॥५॥युयुधानो विकर्णश्च हार्दिक्यो विदुरादयः ।
बाह्लीकपुत्रा भूर्याद्या ये च सन्तर्दनादयः
॥६॥निरूपिता महायज्ञे नानाकर्मसु ते तदा ।
प्रवर्तन्ते स्म राजेन्द्र राज्ञः प्रियचिकीर्षवः
॥७॥( वसंततिलका ) ऋत्विक् सदस्यबहुवित्सु सुहृत्तमेषु स्विष्टेषु सूनृतसमर्हणदक्षिणाभिः ।
चैद्ये च सात्वतपतेश्चरणं प्रविष्टे चक्रुस्ततस्त्ववभृथ स्नपनं द्युनद्याम्
॥८॥( अनुष्टुप् ) मृदङ्गशङ्खपणव धुन्धुर्यानकगोमुखाः ।
वादित्राणि विचित्राणि नेदुरावभृथोत्सवे
॥९॥नर्तक्यो ननृतुर्हृष्टा गायका यूथशो जगुः ।
वीणावेणुतलोन्नादः तेषां स दिवमस्पृशत्
॥१०॥चित्रध्वजपताकाग्रैः इभेन्द्रस्यन्दनार्वभिः ।
स्वलङ्कृतैर्भटैर्भूपा निर्ययू रुक्ममालिनः
॥११॥यदुसृञ्जयकाम्बोज कुरुकेकयकोशलाः ।
कम्पयन्तो भुवं सैन्यैः यजनपुरःसराः
॥१२॥सदस्यर्त्विग्द्विजश्रेष्ठा ब्रह्मघोषेण भूयसा ।
देवर्षिपितृगन्धर्वाः तुष्टुवुः पुष्पवर्षिणः
॥१३॥स्वलंकृता नरा नार्यो गन्धस्रग् भूषणाम्बरैः ।
विलिंपन्त्यो अभिसिंच विजह्रुर्विविधै रसैः
॥१४॥तैलगोरसगन्धोद हरिद्रासान्द्रकुंकुमैः ।
पुम्भिर्लिप्ताः प्रलिंपन्त्यो विजह्रुर्वारयोषितः
॥१५॥( वसंततिलका ) गुप्ता नृभिर्निरगमन्नुपलब्धुमेतद् देव्यो यथा दिवि विमानवरैर्नृदेव्यः ।
ता मातुलेयसखिभिः परिषिच्यमानाः सव्रीडहासविकसद् वदना विरेजुः
॥१६॥ता देवरानुत सखीन् सिन्सिषिचुर्दृतीभिः क्लिन्नाम्बरा विवृतगात्रकुचोरुमध्याः ।
औत्सुक्यमुक्त कवरा च्च्यवमानमाल्याः क्षोभं दधुर्मलधियां रुचिरैर्विहारैः
॥१७॥( अनुष्टुप् ) स सम्राड् रथमारुढः सदश्वं रुक्ममालिनम् ।
व्यरोचत स्वपत्नीभिः क्रियाभिः क्रतुराडिव
॥१८॥पत्नीसंयाजावभृथ्यैः चरित्वा ते तमृत्विजः ।
आचान्तं स्नापयां चक्रुः गंगायां सह कृष्णया
॥१९॥देवदुन्दुभयो नेदुः नरदुंदुभिभिः समम् ।
मुमुचुः पुष्पवर्षाणि देवर्षिपितृमानवाः
॥२०॥सस्नुस्तत्र ततः सर्वे वर्णाश्रमयुता नराः ।
महापातक्यपि यतः सद्यो मुच्येत किल्बिषात्
॥२१॥अथ राजाहते क्षौमे परिधाय स्वलङ्कृतः ।
ऋत्विक् सदस्य विप्रादीन् आनर्चाभरणाम्बरैः
॥२२॥बन्धूञ्ज्ञातीन् नृपान् मित्र सुहृदोऽन्यांश्च सर्वशः ।
अभीक्ष्णं पूजयामास नारायणपरो नृपः
॥२३॥( वसंततिलका ) सर्वे जनाः सुररुचो मणिकुण्डलस्रग् उष्णीषकञ्चुक दुकूलमहार्घ्यहाराः ।
नार्यश्च कुण्डलयुगालकवृन्दजुष्ट वक्त्रश्रियः कनकमेखलया विरेजुः
॥२४॥( अनुष्टुप् ) अथ ऋत्विजो महाशीलाः सदस्या ब्रह्मवादिनः ।
ब्रह्मक्षत्रियविट्शुद्रा राजानो ये समागताः
॥२५॥देवर्षिपितृभूतानि लोकपालाः सहानुगाः ।
पूजितास्तं अनुज्ञाप्य स्वधामानि ययुर्नृप
॥२६॥हरिदासस्य राजर्षे राजसूयमहोदयम् ।
नैवातृप्यन् प्रशंसन्तः पिबन् मर्त्योऽमृतं यथा
॥२७॥ततो युधिष्ठिरो राजा सुहृत् संबंन्धि बान्धवान् ।
प्रेम्णा निवारयामास कृष्णं च त्यागकातरः
॥२८॥भगवानपि तत्राङ्ग न्यवात्सीत् तत्प्रियंकरः ।
प्रस्थाप्य यदुवीरांश्च साम्बादींश्च कुशस्थलीम्
॥२९॥इत्थं राजा धर्मसुतो मनोरथमहार्णवम् ।
सुदुस्तरं समुत्तीर्य कृष्णेनासीद् गतज्वरः
॥३०॥एकदान्तःपुरे तस्य वीक्ष्य दुर्योधनः श्रियम् ।
अतप्यद् राजसूयस्य महित्वं चाच्युतात्मनः
॥३१॥( वसंततिलका ) यस्मिन् नरेन्द्रदितिजेन्द्र सुरेन्द्रलक्ष्मीः नाना विभान्ति किल विश्वसृजोपकॢप्ताः ।
ताभिः पतीन्द्रुपदराजसुतोपतस्थे यस्यां विषक्तहृदयः कुरुराडतप्यत्
॥३२॥यस्मिन् तदा मधुपतेर्महिषीसहस्रं श्रोणीभरेण शनकैः क्वणदङ्घ्रिशोभम् ।
मध्ये सुचारु कुचकुङ्कुमशोणहारं श्रीमन्मुखं प्रचलकुण्डलकुन्तलाढ्यम्
॥३३॥( अनुष्टुप् ) सभायां मयकॢप्तायां क्वापि धर्मसुतोऽधिराट् ।
वृतोऽनुगैर्बन्धुभिश्च कृष्णेनापि स्वचक्षुषा
॥३४॥आसीनः काञ्चने साक्षात् आसने मघवानिव ।
पारमेष्ठ्यश्रीया जुष्टः स्तूयमानश्च वन्दिभिः
॥३५॥तत्र दुर्योधनो मानी परीतो भ्रातृभिर्नृप ।
किरीटमाली न्यविशद् असिहस्तः क्षिपन् रुषा
॥३६॥स्थलेऽभ्यगृह्णाद् वस्त्रान्तं जलं मत्वा स्थलेऽपतत् ।
जले च स्थलवद् भ्रान्त्या मयमायाविमोहितः
॥३७॥जहास भीमस्तं दृष्ट्वा स्त्रियो नृपतयोऽपरे ।
निवार्यमाणा अप्यङ्ग राज्ञा कृष्णानुमोदिताः
॥३८॥( मिश्र ) स व्रीडितोऽवाग्वदनो रुषा ज्वलन् निष्क्रम्य तूष्णीं प्रययौ गजाह्वयम् ।
हाहेति शब्दः सुमहानभूत् सतां अजातशत्रुर्विमना इवाभवत् ।
बभूव तूष्णीं भगवान्भुवो भरं समुज्जिहीर्षुर्भ्रमति स्म यद् दृशा
॥३९॥( अनुष्टुप् ) एतत्तेऽभिहितं राजन् यत्पृष्टोऽहमिह त्वया ।
सुयोधनस्य दौरात्म्यं राजसूये महाक्रतौ
॥४०॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे दुर्योधनमानभंगो नाम पञ्चसप्ततितमोऽध्यायः ॥ ७५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु