मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ६९

3
दशमस्कन्धः (उत्तरार्धः) · 69

देवर्षिनारदकर्तृकं भगवतो गृहचर्यादर्शनम्

श्रीशुक उवाच

( अनुष्टुप् ) नरकं निहतं श्रुत्वा तथोद्वाहं च योषिताम् ।

कृष्णेनैकेन बह्वीनां तद् दिदृक्षुः स्म नारदः

॥१॥

चित्रं बतैतदेकेन वपुषा युगपत् पृथक् ।

गृहेषु द्व्यष्टसाहस्रं स्त्रिय एक उदावहत्

॥२॥

इत्युत्सुको द्वारवतीं देवर्षिर्द्रष्टुमागमत् ।

पुष्पितोपवनाराम द्विजालिकुलनादिताम्

॥३॥

उत्फुल्लेन्दीवराम्भोज कह्लारकुमुदोत्पलैः ।

छुरितेषु सरःसूच्चैः कूजितां हंससारसैः

॥४॥

प्रासादलक्षैर्नवभिः जुष्टां स्फाटिकराजतैः ।

महामरकतप्रख्यैः स्वर्णरत्नपरिच्छदैः

॥५॥

( मिश्र ) विभक्तरथ्यापथचत्वरापणैः शालासभाभी रुचिरां सुरालयैः ।

संसिक्तमार्गाङ्गनवीथिदेहलीं पतत्पताका ध्वजवारितातपाम्

॥६॥

( अनुष्टुप् ) तस्यामन्तःपुरं श्रीमद् अर्चितं सर्वधिष्ण्यपैः ।

हरेः स्वकौशलं यत्र त्वष्ट्रा कार्त्स्न्येन दर्शितम्

॥७॥

तत्र षोडशभिः सद्म सहस्रैः समलङ्कृतम् ।

विवेशैकतमं शौरेः पत्नीनां भवनं महत्

॥८॥

विष्टब्धं विद्रुमस्तंभैः वैदूर्यफलकोत्तमैः ।

इन्द्रनीलमयैः कुड्यैः जगत्या चाहतत्विषा

॥९॥

वितानैर्निर्मितैस्त्वष्ट्रा मुक्तादामविलम्बिभिः ।

दान्तैरासनपर्यङ्कैः मण्युत्तमपरिष्कृतैः

॥१०॥

दासीभिर्निष्ककण्ठीभिः सुवासोभिरलङ्कृतम् ।

पुम्भिः सकञ्चुकोष्णीष सुवस्त्रमणिकुण्डलैः

॥११॥

( वसंततिलका ) रत्नप्रदीपनिकरद्युतिभिर्निरस्त ध्वान्तं विचित्रवलभीषु शिखण्डिनोऽङ्ग ।

नृत्यन्ति यत्र विहितागुरुधूपमक्षैः निर्यान्तमीक्ष्य घनबुद्धय उन्नदन्तः

॥१२॥

तस्मिन्समानगुणरूपवयःसुवेष दासीसहस्रयुतयानुसवं गृहिण्या ।

विप्रो ददर्श चमरव्यजनेन रुक्म दण्डेन सात्वतपतिं परिवीजयन्त्या

॥१३॥

तं सन्निरीक्ष्य भगवान् सहसोत्थितश्री पर्यङ्कतः सकलधर्मभृतां वरिष्ठः ।

आनम्य पादयुगलं शिरसा किरीट जुष्टेन साञ्जलिरवीविशदासने स्वे

॥१४॥

तस्यावनिज्य चरणौ तदपः स्वमूर्ध्ना बिभ्रज्जगद्गुरुतमोऽपि सतां पतिर्हि ।

ब्रह्मण्यदेव इति यद्गुणनाम युक्तं तस्यैव यच्चरणशौचमशेषतीर्थम्

॥१५॥

संपूज्य देवऋषिवर्यमृषिः पुराणो नारायणो नरसखो विधिनोदितेन ।

वाण्याभिभाष्य मितयामृतमिष्टया तं प्राह प्रभो भगवते करवाम हे किम्

॥१६॥

श्रीनारद उवाच

नैवाद्भुतं त्वयि विभोऽखिललोकनाथे मैत्री जनेषु सकलेषु दमः खलानाम् ।

निःश्रेयसाय हि जगत्स्थितिरक्षणाभ्यां स्वैरावतार उरुगाय विदाम सुष्ठु

॥१७॥

दृष्टं तवाङ्घ्रियुगलं जनतापवर्गं ब्रह्मादिभिर्हृदि विचिन्त्यमगाधबोधैः ।

संसारकूपपतितोत्तरणावलम्बं ध्यायंश्चराम्यनुगृहाण यथा स्मृतिः स्यात्

॥१८॥

( अनुष्टुप् ) ततोऽन्यदाविशद् गेहं कृष्णपत्न्याः स नारदः ।

योगेश्वरेश्वरस्याङ्ग योगमायाविवित्सया

॥१९॥

दीव्यन्तमक्षैस्तत्रापि प्रियया चोद्धवेन च ।

पूजितः परया भक्त्या प्रत्युत्थानासनादिभिः

॥२०॥

पृष्टश्चाविदुषेवासौ कदाऽऽयातो भवानिति ।

क्रियते किं नु पूर्णानां अपूर्णैरस्मदादिभिः

॥२१॥

अथापि ब्रूहि नो ब्रह्मन् जन्मैतच्छोभनं कुरु ।

स तु विस्मित उत्थाय तूष्णीमन्यदगाद् गृहम्

॥२२॥

तत्राप्यचष्ट गोविन्दं लालयन्तं सुतान् शिशून् ।

ततोऽन्यस्मिन्गृहेऽपश्यन् मज्जनाय कृतोद्यमम्

॥२३॥

जुह्वन्तं च वितानाग्नीन् यजन्तं पञ्चभिर्मखैः ।

भोजयन्तं द्विजान् क्वापि भुञ्जानमवशेषितम्

॥२४॥

क्वापि सन्ध्यामुपासीनं जपन्तं ब्रह्म वाग्यतम् ।

एकत्र चासिचर्माभ्यां चरन्तमसिवर्त्मसु

॥२५॥

अश्वैर्गजै रथैः क्वापि विचरन्तं गदाग्रजम् ।

क्वचिच्छयानं पर्यङ्के स्तूयमानं च वन्दिभिः

॥२६॥

मंत्रयन्तं च कस्मिंश्चित् मंत्रिभिश्चोद्धवादिभिः ।

जलक्रीडारतं क्वापि वारमुख्याबलावृतम्

॥२७॥

कुत्रचिद्द्विजमुख्येभ्यो ददतं गाः स्वलङ्कृताः ।

इतिहासपुराणानि श्रृण्वन्तं मङ्गलानि च

॥२८॥

हसन्तं हासकथया कदाचित् प्रियया गृहे ।

क्वापि धर्मं सेवमानं अर्थकामौ च कुत्रचित्

॥२९॥

ध्यायन्तमेकमासीनं पुरुषं प्रकृतेः परम् ।

शुश्रूषन्तं गुरून् क्वापि कामैर्भोगैः सपर्यया

॥३०॥

कुर्वन्तं विग्रहं कैश्चित् सन्धिं चान्यत्र केशवम् ।

कुत्रापि सह रामेण चिन्तयन्तं सतां शिवम्

॥३१॥

पुत्राणां दुहितॄणां च काले विध्युपयापनम् ।

दारैर्वरैस्तत्सदृशैः कल्पयन्तं विभूतिभिः

॥३२॥

प्रस्थापनोपनयनैः अपत्यानां महोत्सवान् ।

वीक्ष्य योगेश्वरेशस्य येषां लोका विसिस्मिरे

॥३३॥

यजन्तं सकलान् देवान् क्वापि क्रतुभिरूर्जितैः ।

पूर्तयन्तं क्वचिद् धर्मं कूर्पाराममठादिभिः

॥३४॥

चरन्तं मृगयां क्वापि हयमारुह्य सैन्धवम् ।

घ्नन्तं तत्र पशून् मेध्यान् परीतं यदुपुङ्गवैः

॥३५॥

अव्यक्तलिङ्गं प्रकृतिषु अन्तःपुरगृहादिषु ।

क्वचिच्चरन्तं योगेशं तत्तद्भावबुभुत्सया

॥३६॥

अथोवाच हृषीकेशं नारदः प्रहसन्निव ।

योगमायोदयं वीक्ष्य मानुषीं ईयुषो गतिम्

॥३७॥

विदाम योगमायास्ते दुर्दर्शा अपि मायिनाम् ।

योगेश्वरात्मन् निर्भाता भवत्पादनिषेवया

॥३८॥

अनुजानीहि मां देव लोकांस्ते यशसाऽऽप्लुतान् ।

पर्यटामि तवोद्गायन् लीला भुवनपावनीम्

॥३९॥

श्रीभगवानुवाच

ब्रह्मन्धन्नस्य वक्ताहं कर्ता तदनुमोदिता ।

तच्छिक्षयन्लोकमिमं आस्थितः पुत्र मा खिदः

॥४०॥

श्रीशुक उवाच

इत्याचरन्तं सद्धर्मान् पावनान् गृहमेधिनाम् ।

तमेव सर्वगेहेषु सन्तमेकं ददर्श ह

॥४१॥

कृष्णस्यानन्तवीर्यस्य योगमायामहोदयम् ।

मुहुर्दृष्ट्वा ऋषिरभूद् विस्मितो जातकौतुकः

॥४२॥

इत्यर्थकामधर्मेषु कृष्णेन श्रद्धितात्मना ।

सम्यक् सभाजितः प्रीतः तमेवानुस्मरन् ययौ

॥४३॥

( वसंततिलका ) एवं मनुष्यपदवीमनुवर्तमानो नारायणोऽखिलभवाय गृहीतशक्तिः ।

रेमेऽङ्ग षोडशसहस्रवराङ्गनानां सव्रीडसौहृदनिरीक्षणहासजुष्टः

॥४४॥

यानीह विश्वविलयोद्भववृत्तिहेतुः कर्माण्यनन्यविषयाणि हरीश्चकार यस्त्वङ्ग गायति श्रृणोत्यनुमोदते वा भक्तिर्भवेद्भगवति ह्यपवर्गमार्गे

॥४५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णगार्हस्थ्यदर्शनं नाम एकोनसप्ततिमोऽध्यायः ॥ ६९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु