मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ७२

3
दशमस्कन्धः (उत्तरार्धः) · 72

जरासन्धवधः

राजसूयोपक्रमे पाण्डवानां दिग्विजयः; भीमेन जरासंध वधश्च - श्रीशुक उवाच ।

( अनुष्टुप् ) एकदा तु सभामध्य आस्थितो मुनिभिर्वृतः ।

ब्राह्मणैः क्षत्रियैर्वैश्यैः भ्रातृभिश्च युधिष्ठिरः

॥१॥

आचार्यैः कुलवृद्धैश्च ज्ञातिसंबन्धिबान्धवैः ।

श्रृण्वतामेव चैतेषां आभाष्येदमुवाच ह

॥२॥

श्रीयुधिष्ठिर उवाच

( वसंततिलका ) क्रतुराजेन गोविन्द राजसूयेन पावनीः ।

यक्ष्ये विभूतीर्भवतः तत्संपादय नः प्रभो

॥३॥

त्वत्पादुके अविरतं परि ये चरन्ति ध्यायन्त्यभद्रनशने शुचयो गृणन्ति ।

विन्दन्ति ते कमलनाभ भवापवर्गम् आशासते यदि त आशिष ईश नान्ये

॥४॥

तद्देवदेव भवतश्चरणारविन्द सेवानुभावमिह पश्यतु लोक एषः ।

ये त्वां भजन्ति न भजन्त्युत वोभयेषां निष्ठां प्रदर्शय विभो कुरुसृञ्जयानाम्

॥५॥

न ब्रह्मणः स्वपरभेदमतिस्तव स्यात् सर्वात्मनः समदृशः स्वसुखानुभूतेः ।

संसेवतां सुरतरोरिव ते प्रसादः सेवानुरूपमुदयो न विपर्ययोऽत्र

॥६॥

श्रीभगवानुवाच

( अनुष्टुप् ) सम्यग् व्यवसितं राजन् भवता शत्रुकर्शन ।

कल्याणी येन ते कीर्तिः लोकान् अनुभविष्यति

॥७॥

ऋषीणां पितृदेवानां सुहृदामपि नः प्रभो ।

सर्वेषामपि भूतानां ईप्सितः क्रतुराडयम्

॥८॥

विजित्य नृपतीन् सर्वान् कृत्वा च जगतीं वशे ।

सम्भृत्य सर्वसम्भारान् आहरस्व महाक्रतुम्

॥९॥

एते ते भ्रातरो राजन् लोकपालांशसंभवाः ।

जितोऽस्म्यात्मवता तेऽहं दुर्जयो योऽकृतात्मभिः

॥१०॥

न कश्चिन्मत्परं लोके तेजसा यशसा श्रिया ।

विभूतिभिर्वाभिभवेद् देवोऽपि किमु पार्थिवः

॥११॥

श्रीशुक उवाच

निशम्य भगवद्गीतं प्रीतः फुल्लमुखाम्बुजः ।

भ्रातॄन् दिग्विजयेऽयुङ्क्त विष्णुतेजोपबृंहितान्

॥१२॥

सहदेवं दक्षिणस्यां आदिशत् सह सृञ्जयैः ।

दिशि प्रतीच्यां नकुलं उदीच्यां सव्यसाचिनम् ।

प्राच्यां वृकोदरं मत्स्यैः केकयैः सह मद्रकैः

॥१३॥

ते विजित्य नृपान् वीरा आजह्रुर्दिग्भ्य ओजसा ।

अजातशत्रवे भूरि द्रविणं नृप यक्ष्यते

॥१४॥

श्रुत्वाजितं जरासन्धं नृपतेर्ध्यायतो हरिः ।

आहोपायं तमेवाद्य उद्धवो यमुवाच ह

॥१५॥

भीमसेनोऽर्जुनः कृष्णो ब्रह्मलिङ्गधरास्त्रयः ।

जग्मुर्गिरिव्रजं तात बृहद्रथसुतो यतः

॥१६॥

ते गत्वाऽऽतिथ्यवेलायां गृहेषु गृहमेधिनम् ।

ब्रह्मण्यं समयाचेरन् राजन्या ब्रह्मलिङ्गिनः

॥१७॥

राजन् विद्ध्यतिथीन् प्राप्तान् अर्थिनो दूरमागतान् ।

तन्नः प्रयच्छ भद्रं ते यद् वयं कामयामहे

॥१८॥

किं दुर्मर्षं तितिक्षूणां किं अकार्यं असाधुभिः ।

किं न देयं वदान्यानां कः परः समदर्शिनाम्

॥१९॥

योऽनित्येन शरीरेण सतां गेयं यशो ध्रुवम् ।

नाचिनोति स्वयं कल्पः स वाच्यः शोच्य एव सः

॥२०॥

हरिश्चन्द्रो रन्तिदेव उञ्छवृत्तिः शिबिर्बलिः ।

व्याधः कपोतो बहवो ह्यध्रुवेण ध्रुवं गताः

॥२१॥

श्रीशुक उवाच

स्वरैराकृतिभिस्तांस्तु प्रकोष्ठैर्ज्याहतैरपि ।

राजन्यबन्धून् विज्ञाय दृष्टपूर्वानचिन्तयत्

॥२२॥

राजन्यबन्धवो ह्येते ब्रह्मलिङ्गानि बिभ्रति ।

ददानि भिक्षितं तेभ्य आत्मानमपि दुस्त्यजम्

॥२३॥

बलेर्नु श्रूयते कीर्तिः वितता दिक्ष्वकल्मषा ।

ऐश्वर्याद् भ्रंशितस्यापि विप्रव्याजेन विष्णुना

॥२४॥

श्रियं जिहीर्षतेन्द्रस्य विष्णवे द्विजरूपिणे ।

जानन्नपि महीं प्रादाद् वार्यमाणोऽपि दैत्यराट्

॥२५॥

जीवता ब्राह्मणार्थाय को न्वर्थः क्षत्रबन्धुना ।

देहेन पतमानेन नेहता विपुलं यशः

॥२६॥

इत्युदारमतिः प्राह कृष्णार्जुनवृकोदरान् ।

हे विप्रा व्रियतां कामो ददाम्यात्मशिरोऽपि वः

॥२७॥

श्रीभगवानुवाच

युद्धं नो देहि राजेन्द्र द्वन्द्वशो यदि मन्यसे ।

युद्धार्थिनो वयं प्राप्ता राजन्या नान्यकाङ्क्षिणः

॥२८॥

असौ वृकोदरः पार्थः तस्य भ्रातार्जुनो ह्ययम् ।

अनयोर्मातुलेयं मां कृष्णं जानीहि ते रिपुम्

॥२९॥

एवमावेदितो राजा जहासोच्चैः स्म मागधः ।

आह चामर्षितो मन्दा युद्धं तर्हि ददामि वः

॥३०॥

न त्वया भीरुणा योत्स्ये युधि विक्लवतेजसा ।

मथुरां स्वपुरीं त्यक्त्वा समुद्रं शरणं गतः

॥३१॥

अयं तु वयसा तुल्यो नातिसत्त्वो न मे समः ।

अर्जुनो न भवेद् योद्धा भीमस्तुल्यबलो मम

॥३२॥

इत्युक्त्वा भीमसेनाय प्रादाय महतीं गदाम् ।

द्वितीयां स्वयमादाय निर्जगाम पुराद् बहिः

॥३३॥

ततः समे खले वीरौ संयुक्तावितरेतरौ ।

जघ्नतुर्वज्रकल्पाभ्यां गदाभ्यां रणदुर्मदौ

॥३४॥

मण्डलानि विचित्राणि सव्यं दक्षिणमेव च ।

चरतोः शुशुभे युद्धं नटयोरिव रङ्गिणोः

॥३५॥

ततश्चटचटाशब्दो वज्रनिष्पेषसन्निभः ।

गदयोः क्षिप्तयो राजन् दन्तयोरिव दन्तिनोः

॥३६॥

( वसंततिलका ) ते वै गदे भुजजवेन निपात्यमाने अन्योन्यतोंऽसकटिपादकरोरुजत्रून् ।

चूर्णीबभूवतुरुपेत्य यथार्कशाखे संयुध्यतोर्द्विरदयोरिव दीप्तमन्व्योः

॥३७॥

इत्थं तयोः प्रहतयोर्गदयोर्नृवीरौ क्रुद्धौ स्वमुष्टिभिरयःस्परशैरपिष्टाम् ।

शब्दस्तयोः प्रहरतोरिभयोरिवासीन् निर्घातवज्रपरुषस्तलताडनोत्थः

॥३८॥

( अनुष्टुप् ) तयोरेवं प्रहरतोः समशिक्षाबलौजसोः ।

निर्विशेषमभूद् युद्धं अक्षीणजवयोर्नृप

॥३९॥

एवं तयोर्महाराज युध्यतोः सप्तविंशतिः ।

दिनानि निरगंस्तत्र सुहृद्वन् निशि तिष्ठतोः

॥४०॥

एकदा मातुलेयं वै प्राह राजन् वृकोदरः ।

न शक्तोऽहं जरासन्धं निर्जेतुं युधि माधव

॥४१॥

शत्रोर्जन्ममृती विद्वान् जीवितं च जराकृतम् ।

पार्थमाप्याययन् स्वेन तेजसाचिन्तयद्धरिः

॥४२॥

सञ्चिन्त्यारिवधोपायं भीमस्यामोघदर्शनः ।

दर्शयामास विटपं पाटयन्निव संज्ञया

॥४३॥

तद्विज्ञाय महासत्त्वो भीमः प्रहरतां वरः ।

गृहीत्वा पादयोः शत्रुं पातयामास भूतले

॥४४॥

एकं पादं पदाक्रम्य दोर्भ्यामन्यं प्रगृह्य सः ।

गुदतः पाटयामास शाखमिव महागजः

॥४५॥

एकपादोरुवृषण कटिपृष्ठस्तनांसके ।

एकबाह्वक्षिभ्रूकर्णे शकले ददृशुः प्रजाः

॥४६॥

हाहाकारो महानासीत् निहते मगधेश्वरे ।

पूजयामासतुर्भीमं परिरभ्य जयाच्यतौ

॥४७॥

सहदेवं तत्तनयं भगवान्भूतभावनः ।

अभ्यषिञ्चदमेयात्मा मगधानां पतिं प्रभुः ।

मोचयामास राजन्यान् संरुद्धा मागधेन ये

॥४८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे जरासन्ध वधो नाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु