मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ८४

3
दशमस्कन्धः (उत्तरार्धः) · 84

तीर्थयात्रानुवर्णनम्

ऋषिगणकृता भगवत्स्तुतिः; वसुदेवयज्ञोत्सवः; बन्धूनां प्रस्थापनादिकं च - श्रीशुक उवाच ।

( वसंततिलका ) श्रुत्वा पृथा सुबलपुत्र्यथ याज्ञसेनी माधव्यथ क्षितिपपत्न्य उत स्वगोप्यः ।

कृष्णेऽखिलात्मनि हरौ प्रणयानुबन्धं सर्वा विसिस्म्युरलमश्रुकलाकुलाक्ष्यः

॥१॥

( अनुष्टुप् ) इति सम्भाषमाणासु स्त्रीभिः स्त्रीषु नृभिर्नृषु ।

आययुर्मुनयस्तत्र कृष्णरामदिदृक्षया

॥२॥

द्वैपायनो नारदश्च च्यवनो देवलोऽसितः ।

विश्वामित्रः शतानन्दो भरद्वाजोऽथ गौतमः

॥३॥

रामः सशिष्यो भगवान् वसिष्ठो गालवो भृगुः ।

पुलस्त्यः कश्यपोऽत्रिश्च मार्कण्डेयो बृहस्पतिः

॥४॥

द्वितस्त्रितश्चैकतश्च ब्रह्मपुत्रास्तथाङ्गिराः ।

अगस्त्यो याज्ञवल्क्यश्च वामदेवादयोऽपरे

॥५॥

तान्दृष्ट्वा सहसोत्थाय प्रागासीना नृपादयः ।

पाण्डवाः कृष्णरामौ च प्रणेमुर्विश्ववन्दितान्

॥६॥

तान् आनर्चुर्यथा सर्वे सहरामोऽच्युतोऽर्चयत् ।

स्वागतासनपाद्यार्घ्य माल्यधूपानुलेपनैः

॥७॥

उवाच सुखमासीनान् भगवान् धर्मगुप्तनुः ।

सदसस्तस्य महतो यतवाचोऽनुश्रृण्वतः

॥८॥

श्रीभगवानुवाच

अहो वयं जन्मभृतो लब्धं कार्त्स्न्येन तत्फलम् ।

देवानामपि दुष्प्रापं यद् योगेश्वरदर्शनम्

॥९॥

किं स्वल्पतपसां नॄणां अर्चायां देवचक्षुषाम् ।

दर्शनस्पर्शनप्रश्न प्रह्वपादार्चनादिकम्

॥१०॥

न ह्यम्मयानि तीर्थानि न देवा मृच्छिलामयाः ।

ते पुनन्त्युरुकालेन दर्शनादेव साधवः

॥११॥

( मिश्र ) नाग्निर्न सूर्यो न च चन्द्रतारका न भूर्जलं खं श्वसनोऽथ वाङ्मनः ।

उपासिता भेदकृतो हरन्त्यघं विपश्चितो घ्नन्ति मुहूर्तसेवया

॥१२॥

यस्यात्मबुद्धिः कुणपे त्रिधातुके स्वधीः कलत्रादिषु भौम इज्यधीः ।

यत्तीर्थबुद्धिः सलिले न कर्हिचित् जनेष्वभिज्ञेषु स एव गोखरः

॥१३॥

श्रीशुक उवाच

( अनुष्टुप् ) निशम्येत्थं भगवतः कृष्णस्याकुण्थमेधसः ।

वचो दुरन्वयं विप्राः तूष्णीमासन् भ्रमद्धियः

॥१४॥

चिरं विमृश्य मुनय ईश्वरस्येशितव्यताम् ।

जनसङ्ग्रह इत्यूचुः स्मयन्तस्तं जगद्गुरुम्

॥१५॥

श्रीमुनय ऊचुः

( मिश्र ) यन्मायया तत्त्वविदुत्तमा वयं विमोहिता विश्वसृजामधीश्वराः ।

यदीशितव्यायति गूढ ईहया अहो विचित्रं भगवद् विचेष्टितम्

॥१६॥

अनीह एतद् बहुधैक आत्मना सृजत्यवत्यत्ति न बध्यते यथा ।

भौमैर्हि भूमिर्बहुनामरूपिणी अहो विभूम्नश्चरितं विडम्बनम्

॥१७॥

अथापि काले स्वजनाभिगुप्तये बिभर्षि सत्त्वं खलनिग्रहाय च ।

स्वलीलया वेदपथं सनातनं वर्णाश्रमात्मा पुरुषः परो भवान्

॥१८॥

( अनुष्टुप् ) ब्रह्म ते हृदयं शुक्लं तपःस्वाध्यायसंयमैः ।

यत्रोपलब्धं सद्व्यक्तं अव्यक्तं च ततः परम्

॥१९॥

तस्माद् ब्रह्मकुलं ब्रह्मन् शास्त्रयोनेस्त्वमात्मनः ।

सभाजयसि सद्धाम तद् ब्रह्मण्याग्रणीर्भवान्

॥२०॥

अद्य नो जन्मसाफल्यं विद्यायास्तपसो दृशः ।

त्वया सङ्गम्य सद्गत्या यदन्तः श्रेयसां परः

॥२१॥

नमस्तस्मै भगवते कृष्णायाकुण्ठमेधसे ।

स्वयोगमाययाच्छन्न महिम्ने परमात्मने

॥२२॥

न यं विदन्त्यमी भूपा एकारामाश्च वृष्णयः ।

मायाजवनिकाच्छन्नं आत्मानं कालमीश्वरम्

॥२३॥

यथा शयानः पुरुष आत्मानं गुणतत्त्वदृक् ।

नाममात्रेन्द्रियाभातं न वेद रहितं परम्

॥२४॥

एवं त्वा नाममात्रेषु विषयेष्विन्द्रियेहया ।

मायया विभ्रमच्चित्तो न वेद स्मृत्युपप्लवात्

॥२५॥

( वसंततिलका ) तस्याद्य ते ददृशिमाङ्घ्रिमघौघमर्ष तीर्थास्पदं हृदि कृतं सुविपक्वयोगैः ।

उत्सिक्तभक्त्युपहताशय जीवकोशा आपुर्भवद्गतिमथानुगृहान भक्तान्

॥२६॥

श्रीशुक उवाच

( अनुष्टुप् ) इत्यनुज्ञाप्य दाशार्हं धृतराष्ट्रं युधिष्ठिरम् ।

राजर्षे स्वाश्रमान् गन्तुं मुनयो दधिरे मनः

॥२७॥

तद् वीक्ष्य तानुपव्रज्य वसुदेवो महायशाः ।

प्रणम्य चोपसङ्गृह्य बभाषेदं सुयन्त्रितः

॥२८॥

श्रीवसुदेव उवाच

नमो वः सर्वदेवेभ्य ऋषयः श्रोतुमर्हथ ।

कर्मणा कर्मनिर्हारो यथा स्यान्नस्तदुच्यताम्

॥२९॥

श्रीनारद उवाच

नातिचित्रमिदं विप्रा वसुदेवो बुभुत्सया ।

कृष्णं मत्वार्भकं यन्नः पृच्छति श्रेय आत्मनः

॥३०॥

सन्निकर्षोऽत्र मर्त्यानां अनादरणकारणम् ।

गाङ्गं हित्वा यथान्याम्भः तत्रत्यो याति शुद्धये

॥३१॥

यस्यानुभूतिः कालेन लयोत्पत्त्यादिनास्य वै ।

स्वतोऽन्यस्माच्च गुणतो न कुतश्चन रिष्यति

॥३२॥

( वसंततिलका ) तं क्लेशकर्मपरिपाकगुणप्रवाहैः अव्याहतानुभवमीश्वरमद्वितीयम् ।

प्राणादिभिः स्वविभवैरुपगूढमन्यो मन्येत सूर्यमिव मेघहिमोपरागैः

॥३३॥

( अनुष्टुप् ) अथोचुर्मुनयो राजन् आभाष्यानकदुंदुभिम् ।

सर्वेषां श्रृणतां राज्ञां तथैवाच्युतरामयोः

॥३४॥

कर्मणा कर्मनिर्हार एष साधुनिरूपितः ।

यच्छ्रद्धया यजेद् विष्णुं सर्वयज्ञेश्वरं मखैः

॥३५॥

चित्तस्योपशमोऽयं वै कविभिः शास्त्रचक्षुषा ।

दर्शितः सुगमो योगो धर्मश्चात्ममुदावहः

॥३६॥

अयं स्वस्त्ययनः पन्था द्विजातेर्गृहमेधिनः ।

यच्छ्रद्धयाऽऽप्तवित्तेन शुक्लेनेज्येत पूरुषः

॥३७॥

वित्तैषणां यज्ञदानैः गृहैर्दारसुतैषणाम् ।

आत्मलोकैषणां देव कालेन विसृजेद्बुधः ।

ग्रामे त्यक्तैषणाः सर्वे ययुर्धीरास्तपोवनम्

॥३८॥

ऋणैस्त्रिभिर्द्विजो जातो देवर्षिपितॄणां प्रभो ।

यज्ञाध्ययनपुत्रैस्तानि अनिस्तीर्य त्यजन्पतेत्

॥३९॥

त्वं त्वद्य मुक्तो द्वाभ्यां वै ऋषिपित्रोर्महामते ।

यज्ञैर्देवर्णमुन्मुच्य निरृणोऽशरणो भव

॥४०॥

वसुदेव भवान्नूनं भक्त्या परमया हरिम् ।

जगतामीश्वरं प्रार्चः स यद्वां पुत्रतां गतः

॥४१॥

श्रीशुक उवाच

इति तद्वचनं श्रुत्वा वसुदेवो महामनाः ।

तान् ऋषीन् ऋत्विजो वव्रे मूर्ध्नाऽऽनम्य प्रसाद्य च

॥४२॥

त एनमृषयो राजन् वृता धर्मेण धार्मिकम् ।

तस्मिन् अयाजयन् क्षेत्रे मखैरुत्तमकल्पकैः

॥४३॥

तद्दीक्षायां प्रवृत्तायां वृष्णयः पुष्करस्रजः ।

स्नाताः सुवाससो राजन् राजानः सुष्ठ्वलङ्कृताः

॥४४॥

तन्महिष्यश्च मुदिता निष्ककण्ठ्यः सुवाससः ।

दीक्षाशालामुपाजग्मुः आलिप्ता वस्तुपाणयः

॥४५॥

नेदुर्मृदङ्गपटह शङ्खभेर्यानकादयः ।

ननृतुर्नटनर्तक्यः तुष्टुवुः सूतमागधाः ।

जगुः सुकण्ठ्यो गन्धर्व्यः संगीतं सहभर्तृकाः

॥४६॥

तमभ्यषिञ्चन् विधिवद् अक्तं अभ्यक्तमृत्विजः ।

पत्नीभिरष्टादशभिः सोमराजमिवोडुभिः

॥४७॥

ताभिर्दुकूलवलयैः हारनूपुरकुण्डलैः ।

स्वलङ्कृताभिर्विबभौ दीक्षितोऽजिनसंवृतः

॥४८॥

तस्यर्त्विजो महाराज रत्नकौशेयवाससः ।

ससदस्या विरेजुस्ते यथा वृत्रहणोऽध्वरे

॥४९॥

तदा रामश्च कृष्णश्च स्वैः स्वैः बन्धुभिरन्वितौ ।

रेजतुः स्वसुतैर्दारैः जीवेशौ स्वविभूतिभिः

॥५०॥

ईजेऽनुयज्ञं विधिना अग्निहोत्रादिलक्षणैः ।

प्राकृतैर्वैकृतैर्यज्ञैः द्रव्यज्ञानक्रियेश्वरम्

॥५१॥

अथर्त्विग्भ्योऽददात्काले यथाम्नातं स दक्षिणाः ।

स्वलङ्कृतेभ्योऽलङ्कृत्य गोभूकन्या महाधनाः

॥५२॥

पत्नीसंयाजावभृथ्यैः चरित्वा ते महर्षयः ।

सस्नू रामह्रदे विप्रा यजमानपुरःसराः

॥५३॥

स्नातोऽलङ्कारवासांसि वन्दिभ्योऽदात्तथा स्त्रियः ।

ततः स्वलङ्कृतो वर्णान् आश्वभ्योऽन्नेन पूजयत्

॥५४॥

बन्धून् सदारान् ससुतान् पारिबर्हेण भूयसा ।

विदर्भकोशलकुरून् काशिकेकय सृञ्जयान्

॥५५॥

सदस्यर्त्विक्सुरगणान् नृभूतपितृचारणान् ।

श्रीनिकेतमनुज्ञाप्य शंसन्तः प्रययुः क्रतुम्

॥५६॥

धृतराष्ट्रोऽनुजः पार्था भीष्मो द्रोणः पृथा यमौ ।

नारदो भगवान् व्यासः सुहृत्संबंधिबांधवाः

॥५७॥

बन्धून्परिष्वज्य यदून् सौहृदाक्लिन्नचेतसः ।

ययुर्विरहकृच्छ्रेण स्वदेशांश्चापरे जनाः

॥५८॥

नन्दस्तु सह गोपालैः बृहत्या पूजयार्चितः ।

कृष्णरामोग्रसेनाद्यैः न्यवात्सीद्बन्धुवत्सलः

॥५९॥

वसुदेवोऽञ्जसोत्तीर्य मनोरथमहार्णवम् ।

सुहृद्वृतः प्रीतमना नन्दमाह करे स्पृशन्

॥६०॥

श्रीवसुदेव उवाच

भ्रातरीशकृतः पाशो नृनां यः स्नेहसंज्ञितः ।

तं दुस्त्यजमहं मन्ये शूराणामपि योगिनाम्

॥६१॥

अस्मास्वप्रतिकल्पेयं यत्कृताज्ञेषु सत्तमैः ।

मैत्र्यर्पिताफला चापि न निवर्तेत कर्हिचित्

॥६२॥

प्रागकल्पाच्च कुशलं भ्रातर्वो नाचराम हि ।

अधुना श्रीमदान्धाक्षा न पश्यामः पुरः सतः

॥६३॥

मा राज्यश्रीरभूत्पुंसः श्रेयस्कामस्य मानद ।

स्वजनानुत बन्धून् वा न पश्यति ययान्धदृक्

॥६४॥

श्रीशुक उवाच

एवं सौहृदशैथिल्य चित्त आनकदुन्दुभिः ।

रुरोद तत्कृतां मैत्रीं स्मरन् अश्रुविलोचनः

॥६५॥

नन्दस्तु सख्युः प्रियकृत् प्रेम्णा गोविन्दरामयोः ।

अद्य श्व इति मासांस्त्रीन् यदुभिर्मानितोऽवसत्

॥६६॥

ततः कामैः पूर्यमाणः सव्रजः सहबान्धवः ।

परार्ध्याभरणक्षौम नानानर्घ्यपरिच्छदैः

॥६७॥

वसुदेवोग्रसेनाभ्यां कृष्णोद्धवबलादिभिः ।

दत्तमादाय पारिबर्हं यापितो यदुभिर्ययौ

॥६८॥

नन्दो गोपाश्च गोप्यश्च गोविन्दचरणाम्बुजे ।

मनः क्षिप्तं पुनर्हर्तुं अनीशा मथुरां ययुः

॥६९॥

बन्धुषु प्रतियातेषु वृष्णयः कृष्णदेवताः ।

वीक्ष्य प्रावृषमासन्नाद् ययुर्द्वारवतीं पुनः

॥७०॥

जनेभ्यः कथयां चक्रुः यदुदेवमहोत्सवम् ।

यदासीत् तीर्थयात्रायां सुहृत् संदर्शनादिकम्

॥७१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे तीर्थयात्रानुवर्णनं नाम चतुरशीतितमोऽध्यायः ॥ ८४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु