मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ७१

3
दशमस्कन्धः (उत्तरार्धः) · 71

उद्धवमंत्रणया श्रीकृष्णस्येन्द्रप्रस्थगमनम्

श्रीशुक उवाच

( अनुष्टुप् ) इत्युदीरितमाकर्ण्य देवऋषेरुद्धवोऽब्रवीत् ।

सभ्यानां मतमाज्ञाय कृष्णस्य च महामतिः

॥१॥

श्रीउद्धव उवाच

यदुक्तं ऋषिणा देव साचिव्यं यक्ष्यतस्त्वया ।

कार्यं पैतृष्वसेयस्य रक्षा च शरणैषिणाम्

॥२॥

यष्टव्यम्राजसूयेन दिक् चक्रजयिना विभो ।

अतो जरासुतजय उभयार्थो मतो मम

॥३॥

अस्माकं च महानर्थो ह्येतेनैव भविष्यति ।

यशश्च तव गोविन्द राज्ञो बद्धान् विमुञ्चतः

॥४॥

स वै दुर्विषहो राजा नागायुतसमो बले ।

बलिनामपि चान्येषां भीमं समबलं विना

॥५॥

द्वैरथे स तु जेतव्यो मा शताक्षौहिणीयुतः ।

ब्रह्मण्योऽभ्यर्थितो विप्रैः न प्रत्याख्याति कर्हिचित्

॥६॥

ब्रह्मवेषधरो गत्वा तं भिक्षेत वृकोदरः ।

हनिष्यति न सन्देहो द्वैरथे तव सन्निधौ

॥७॥

निमित्तं परमीशस्य विश्वसर्गनिरोधयोः ।

हिरण्यगर्भः शर्वश्च कालस्यारूपिणस्तव

॥८॥

( वसंततिलका ) गायन्ति ते विशदकर्म गृहेषु देव्यो राज्ञां स्वशत्रुवधमात्मविमोक्षणं च ।

गोप्यश्च कुञ्जरपतेर्जनकात्मजायाः पित्रोश्च लब्धशरणा मुनयो वयं च

॥९॥

( अनुष्टुप् ) जरासन्धवधः कृष्ण भूर्यर्थायोपकल्पते ।

प्रायः पाकविपाकेन तव चाभिमतः क्रतुः

॥१०॥

श्रीशुक उवाच

इत्युद्धव वचो राजन् सर्वतोभद्रमच्युतम् ।

देवर्षिर्यदुवृद्धाश्च कृष्णश्च प्रत्यपूजयन्

॥११॥

अथादिशत् प्रयाणाय भगवान् देवकीसुतः ।

भृत्यान् दारुकजैत्रादीन् अनुज्ञाप्य गुरून् विभुः

॥१२॥

निर्गमय्यावरोधान् स्वान् ससुतान् सपरिच्छदान् ।

सङ्कर्षणमनुज्ञाप्य यदुराजं च शत्रुहन् ।

सूतोपनीतं स्वरथं आरुहद् गरुडध्वजम्

॥१३॥

( प्रभावती ) ततो रथद्विपभटसादिनायकैः करालया परिवृत आत्मसेनया ।

मृदङ्ग भेर्यानक शङ्खगोमुखैः प्रघोषघोषितककुभो निराक्रमत्

॥१४॥

नृवाजिकाञ्चन शिबिकाभिरच्युतं सहात्मजाः पतिमनु सुव्रता ययुः ।

वरांबराभरणविलेपनस्रजः सुसंवृता नृभिरसिचर्मपाणिभिः

॥१५॥

नरोष्ट्रगोमहिषखराश्वतर्यनः करेणुभिः परिजनवारयोषितः ।

स्वलङ्कृताः कटकुटिकम्बलाम्बराद् उपस्करा ययुरधियुज्य सर्वतः

॥१६॥

बलं बृहद्ध्वजपटछत्रचामरैः वरायुधाभरणकिरीटवर्मभिः ।

दिवांशुभिस्तुमुलरवं बभौ रवेः यथार्णवः क्षुभिततिमिङ्गिलोर्मिभिः

॥१७॥

अथो मुनिर्यदुपतिना सभाजितः प्रणम्य तं हृदि विदधद् विहायसा ।

निशम्य तद्व्यवसितमाहृतार्हणो मुकुन्दसन्दर्शननिर्वृतेन्द्रियः

॥१८॥

( अनुष्टुप् ) राजदूतमुवाचेदं भगवान् प्रीणयन् गिरा ।

मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम्

॥१९॥

इत्युक्तः प्रस्थितो दूतो यथावद् अवदन् नृपान् ।

तेऽपि सन्दर्शनं शौरेः प्रत्यैक्षन् यन्मुमुक्षवः

॥२०॥

आनर्तसौवीरमरून् तीर्त्वा विनशनं हरिः ।

गिरीन् नदीरतीयाय पुरग्रामव्रजाकरान्

॥२१॥

ततो दृषद्वतीं तीर्त्वा मुकुन्दोऽथ सरस्वतीम् ।

पञ्चालानथ मत्स्यांश्च शक्रप्रस्थमथागमत्

॥२२॥

तमुपागतमाकर्ण्य प्रीतो दुर्दर्शनं नृणाम् ।

अजातशत्रुर्निरगात् सोपाध्यायः सुहृद्वृतः

॥२३॥

गीतवादित्रघोषेण ब्रह्मघोषेण भूयसा ।

अभ्ययात् स हृषीकेशं प्राणाः प्राणमिवादृतः

॥२४॥

दृष्ट्वा विक्लिन्नहृदयः कृष्णं स्नेहेन पाण्डवः ।

चिराद् दृष्टं प्रियतमं सस्वजेऽथ पुनः पुनः

॥२५॥

( मिश्र ) दोर्भ्यां परिष्वज्य रमामलालयं मुकुन्दगात्रं नृपतिर्हताशुभः ।

लेभे परां निर्वृतिमश्रुलोचनो हृष्यत्तनुर्विस्मृत लोकविभ्रमः

॥२६॥

तं मातुलेयं परिरभ्य निर्वृतो भीमः स्मयन् प्रेमजलाकुलेन्द्रियः ।

यमौ किरीटी च सुहृत्तमं मुदा प्रवृद्धबाष्पाः परिरेभिरेऽच्युतम्

॥२७॥

( अनुष्टुप् ) अर्जुनेन परिष्वक्तो यमाभ्यामभिवादितः ।

ब्राह्मणेभ्यो नमस्कृत्य वृद्धेभ्यश्च यथार्हतः

॥२८॥

मानिनो मानयामास कुरुसृञ्जयकैकयान् ।

सूतमागधगन्धर्वा वन्दिनश्चोपमंत्रिणः

॥२९॥

मृदङ्गशङ्खपटह वीणापणवगोमुखैः ।

ब्राह्मणाश्चारविन्दाक्षं तुष्टुवुर्ननृतुर्जगुः

॥३०॥

एवं सुहृद्भिः पर्यस्तः पुण्यश्लोकशिखामणिः ।

संस्तूयमानो भगवान् विवेशालङ्कृतं पुरम्

॥३१॥

( वसंततिलका ) संसिक्तवर्त्म करिणां मदगन्धतोयैः चित्रध्वजैः कनकतोरणपूर्णकुम्भैः ।

मृष्टात्मभिर्नवदुकूलविभूषणस्रग् गन्धैर्नृभिर्युवतिभिश्च विराजमानम्

॥३२॥

उद्दीप्तदीपबलिभिः प्रतिसद्म जाल निर्यातधूपरुचिरं विलसत्पताकम् ।

मूर्धन्यहेमकलशै रजतोरुशृङ्गैः जुष्टं ददर्श भवनैः कुरुराजधाम

॥३३॥

प्राप्तं निशम्य नरलोचनपानपात्रम् औत्सुक्यविश्लथितकेश दुकूलबन्धाः ।

सद्यो विसृज्य गृहकर्म पतींश्च तल्पे द्रष्टुं ययुर्युवतयः स्म नरेन्द्रमार्गे

॥३४॥

तस्मिन् सुसङ्कुल इभाश्वरथद्विपद्भिः कृष्णंसभार्यमुपलभ्य गृहाधिरूढाः ।

नार्यो विकीर्य कुसुमैर्मनसोपगुह्य सुस्वागतं विदधुरुत्स्मयवीक्षितेन

॥३५॥

ऊचुः स्त्रियः पथि निरीक्ष्य मुकुन्दपत्नीः तारा यथोडुपसहाः किमकार्यमूभिः ।

यच्चक्षुषां पुरुषमौलिरुदारहास लीलावलोककलयोत्सवमातनोति

॥३६॥

तत्र तत्रोपसङ्गम्य पौरा मङ्गलपाणयः ।

( अनुष्टुप् ) चक्रुः सपर्यां कृष्णाय श्रेणीमुख्या हतैनसः

॥३७॥

अन्तःपुरजनैः प्रीत्या मुकुन्दः फुल्ललोचनैः ।

ससम्भ्रमैरभ्युपेतः प्राविशद् राजमन्दिरम्

॥३८॥

पृथा विलोक्य भ्रात्रेयं कृष्णं त्रिभुवनेश्वरम् ।

प्रीतात्मोत्थाय पर्यङ्कात् सस्नुषा परिषस्वजे

॥३९॥

गोविन्दं गृहमानीय देवदेवेशमादृतः ।

पूजायां नाविदत् कृत्यं प्रमोदोपहतो नृपः

॥४०॥

पितृस्वसुर्गुरुस्त्रीणां कृष्णश्चक्रेऽभिवादनम् ।

स्वयं च कृष्णया राजन् भगिन्या चाभिवन्दितः

॥४१॥

श्वश्र्वा सञ्चोदिता कृष्णा कृष्णपत्नीश्च सर्वशः ।

आनर्च रुक्मिणीं सत्यां भद्रां जाम्बवतीं तथा

॥४२॥

कालिन्दीं मित्रविन्दां च शैब्यां नाग्नजितीं सतीम् ।

अन्याश्चाभ्यागता यास्तु वासःस्रङ्मण्डनादिभिः

॥४३॥

सुखं निवासयामास धर्मराजो जनार्दनम् ।

ससैन्यं सानुगामत्यं सभार्यं च नवं नवम्

॥४४॥

तर्पयित्वा खाण्डवेन वह्निं फाल्गुनसंयुतः ।

मोचयित्वा मयं येन राज्ञे दिव्या सभा कृता

॥४५॥

उवास कतिचिन् मासान् राज्ञः प्रियचिकीर्षया ।

विहरन् रथमारुह्य फाल्गुनेन भटैर्वृतः

॥४६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे कृष्णस्य इंद्रप्रस्थगमनं नाम एकसप्ततितमोऽध्यायः ॥ ७१ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु