मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (उत्तरार्धः), अध्याय ६८

3
दशमस्कन्धः (उत्तरार्धः) · 68

हस्तिनपुरकर्षणरूपसंकर्षणविजयः

सांबविवाहः; बलरामेण हस्तिनापुरकर्षणं च श्रीशुक उवाच ।

( अनुष्टुप् ) दुर्योधनसुतां राजन् लक्ष्मणां समितिंजयः ।

स्वयंवरस्थामहरत् सांबो जाम्बवतीसुतः

॥१॥

कौरवाः कुपिता ऊचुः दुर्विनीतोऽयमर्भकः ।

कदर्थीकृत्य नः कन्यां अकामां अहरद् बलात्

॥२॥

बध्नीतेमं दुर्विनीतं किं करिष्यन्ति वृष्णयः ।

येऽस्मत् प्रसादोपचितां दत्तां नो भुञ्जते महीम्

॥३॥

निगृहीतं सुतं श्रुत्वा यद्येष्यन्तीह वृष्णयः ।

भग्नदर्पाः शमं यान्ति प्राणा इव सुसंयताः

॥४॥

इति कर्णः शलो भूरिः यज्ञकेतुः सुयोधनः ।

साम्बमारेभिरे बद्धुं कुरुवृद्धानुमोदिताः

॥५॥

दृष्ट्वानुधावतः साम्बो धार्तराष्ट्रान् महारथः ।

प्रगृह्य रुचिरं चापं तस्थौ सिंह इवैकलः

॥६॥

तं ते जिघृक्षवः क्रुद्धाः तिष्ठ तिष्ठेति भाषिणः ।

आसाद्य धन्विनो बाणैः कर्णाग्रण्यः समाकिरन्

॥७॥

सोऽपविद्धः कुरुश्रेष्ठ कुरुभिर्यदुनन्दनः ।

नामृष्यत् तदचिन्त्यार्भः सिंह क्षुद्रमृगैरिव

॥८॥

विस्फूर्ज्य रुचिरं चापं सर्वान् विव्याध सायकैः ।

कर्णादीन् षड्रथान् वीरः तावद्भिर्युगपत् पृथक्

॥९॥

चतुर्भिश्चतुरो वाहान् एकैकेन च सारथीन् ।

रथिनश्च महेष्वासान् तस्य तत्तेऽभ्यपूजयन्

॥१०॥

तं तु ते विरथं चक्रुः चत्वारश्चतुरो हयान् ।

एकस्तु सारथिं जघ्ने चिच्छेदान्यः शरासनम्

॥११॥

तं बद्ध्वा विरथीकृत्य कृच्छ्रेण कुरवो युधि ।

कुमारं स्वस्य कन्यां च स्वपुरं जयिनोऽविशन्

॥१२॥

तच्छ्रुत्वा नारदोक्तेन राजन् सञ्जातमन्यवः ।

कुरून् प्रत्युद्यमं चक्रुः उग्रसेनप्रचोदिताः

॥१३॥

सान्त्वयित्वा तु तान् रामः सन्नद्धान् वृष्णिपुङ्गवान् ।

नैच्छय् कुरूणां वृष्णीनां कलिं कलिमलापहः

॥१४॥

जगाम हास्तिनपुरं रथेनादित्यवर्चसा ।

ब्राह्मणैः कुलवृद्धैश्च वृतश्चन्द्र इव ग्रहैः

॥१५॥

गत्वा गजाह्वयं रामो बाह्योपवनमास्थितः ।

उद्धवं प्रेषयामास धृतराष्ट्रं बुभुत्सया

॥१६॥

सोऽभिवन्द्याम्बिकापुत्रं भीष्मं द्रोणं च बाह्लिकम् ।

दुर्योधनं च विधिवद् राममागतमब्रवीत्

॥१७॥

तेऽतिप्रीतास्तमाकर्ण्य प्राप्तं रामं सुहृत्तमम् ।

तमर्चयित्वाभिययुः सर्वे मङ्गलपाणयः

॥१८॥

तं सङ्गम्य यथान्यायं गामर्घ्यं च न्यवेदयन् ।

तेषां ये तत्प्रभावज्ञाः प्रणेमुः शिरसा बलम्

॥१९॥

बन्धून् कुशलिनः श्रुत्वा पृष्ट्वा शिवमनामयम् ।

परस्परमथो रामो बभाषेऽविक्लवं वचः

॥२०॥

उग्रसेनः क्षितीशेशो यद् व आज्ञापयत् प्रभुः ।

तद् अव्यग्रधियः श्रुत्वा कुरुध्वं माविलम्बितम्

॥२१॥

यद् यूयं बहवस्त्वेकं जित्वाधर्मेण धार्मिकम् ।

अबध्नीताथ तन्मृष्ये बन्धूनामैक्यकाम्यया

॥२२॥

वीर्यशौर्यबलोन्नद्धं आत्मशक्तिसमं वचः ।

कुरवो बलदेवस्य निशम्योचुः प्रकोपिताः

॥२३॥

अहो महच्चित्रमिदं कालगत्या दुरत्यया ।

आरुरुक्षत्युपानद् वै शिरो मुकुटसेवितम्

॥२४॥

एते यौनेन संबद्धाः सहशय्यासनाशनाः ।

वृष्णयस्तुल्यतां नीता अस्मद् दत्तनृपासनाः

॥२५॥

चामरव्यजने शङ्खं आतपत्रं च पाण्डुरम् ।

किरीटमासनं शय्यां भुञ्जन्त्यस्मदुपेक्षया

॥२६॥

( इंद्रवंशा ) अलं यदूनां नरदेवलाञ्छनैः दातुः प्रतीपैः फणिनामिवामृतम् ।

येऽस्मत्प्रसादोपचिता हि यादवा आज्ञापयन्त्यद्य गतत्रपा बत

॥२७॥

( अनुष्टुप् ) कथमिन्द्रोऽपि कुरुभिः भीष्मद्रोणार्जुनादिभिः ।

अदत्तमवरुन्धीत सिंहग्रस्तमिवोरणः

॥२८॥

श्रीबादरायणिरुवाच

जन्मबन्धुश्रीयोन्नद्ध मदास्ते भरतर्षभ ।

आश्राव्य रामं दुर्वाच्यं असभ्याः पुरमाविशन्

॥२९॥

दृष्ट्वा कुरूनां दौःशील्यं श्रुत्वावाच्यानि चाच्युतः ।

अवोचत् कोपसंरब्धो दुष्प्रेक्ष्यः प्रहसन् मुहुः

॥३०॥

नूनं नानामदोन्नद्धाः शान्तिं नेच्छन्त्यसाधवः ।

तेषां हि प्रशमो दण्डः पशूनां लगुडो यथा

॥३१॥

अहो यदून् सुसंरब्धाम् कृष्णं च कुपितं शनैः ।

सान्त्वयित्वाहमेतेषां शममिच्छन् इहागतः

॥३२॥

त इमे मन्दमतयः कलहाभिरताः खलाः ।

तं मामवज्ञाय मुहुः दुर्भाषान् मानिनोऽब्रुवन्

॥३३॥

नोग्रसेनः किल विभुः भोजवृष्ण्यन्धकेश्वरः ।

शक्रादयो लोकपाला यस्यादेशानुवर्तिनः

॥३४॥

सुधर्माऽऽक्रम्यते येन पारिजातोऽमराङ्घ्रिपः ।

आनीय भुज्यते सोऽसौ न किलाध्यासनार्हणः

॥३५॥

यस्य पादयुगं साक्षात् श्रीरुपास्तेऽखिलेश्वरी ।

स नार्हति किल श्रीशो नरदेवपरिच्छदान्

॥३६॥

( वसंततिलका ) यस्याङ्घ्रिपङ्कजरजोऽखिललोकपालैः मौल्युत्तमैर्धृतमुपासिततीर्थतीर्थम् ।

ब्रह्मा भवोऽहमपि यस्य कलाः कलायाः श्रीश्चोद्वहेम चिरमस्य नृपासनं क्व

॥३७॥

( अनुष्टुप् ) भुञ्जते कुरुभिर्दत्तं भूखण्डं वृष्णयः किल ।

उपानहः किल वयं स्वयं तु कुरवः शिरः

॥३८॥

अहो ऐश्वर्यमत्तानां मत्तानामिव मानिनाम् ।

असंबद्धा गिरो रुक्षाः कः सहेतानुशासीता

॥३९॥

अद्य निष्कौरवं पृथ्वीं करिष्यामीत्यमर्षितः ।

गृहीत्वा हलमुत्तस्थौ दहन्निव जगत्त्रयम्

॥४०॥

लाङ्गलाग्रेण नगरं उद्विदार्य गजाह्वयम् ।

विचकर्ष स गङ्गायां प्रहरिष्यन्नमर्षितः

॥४१॥

जलयानमिवाघूर्णं गङ्गायां नगरं पतत् ।

आकृष्यमाणमालोक्य कौरवाः जातसंभ्रमाः

॥४२॥

तमेव शरणं जग्मुः सकुटुम्बा जिजीविषवः ।

सलक्ष्मणं पुरस्कृत्य साम्बं प्राञ्जलयः प्रभुम्

॥४३॥

राम रामाखिलाधार प्रभावं न विदाम ते ।

मूढानां नः कुबुद्धीनां क्षन्तुमर्हस्यतिक्रमम्

॥४४॥

स्थित्युत्पत्त्यप्ययानां त्वमेको हेतुर्निराश्रयः ।

लोकान् क्रीडनकानीश क्रीडतस्ते वदन्ति हि

॥४५॥

( मिश्र ) त्वमेव मूर्ध्नीदमनन्त लीलया भूमण्डलं बिभर्षि सहस्रमूर्धन् ।

अन्ते च यः स्वात्मनि रुद्धविश्वः शेषेऽद्वितीयः परिशिष्यमाणः

॥४६॥

( अनुष्टुप् ) कोपस्तेऽखिलशिक्षार्थं न द्वेषान्न च मत्सरात् ।

बिभ्रतो भगवन् सत्त्वं स्थितिपालनतत्परः

॥४७॥

नमस्ते सर्वभूतात्मन् सर्वशक्तिधराव्यय ।

विश्वकर्मन् नमस्तेऽस्तु त्वां वयं शरणं गताः

॥४८॥

श्रीशुक उवाच

एवं प्रपन्नैः संविग्नैः वेपमानायनैर्बलः ।

प्रसादितः सुप्रसन्नो मा भैष्टेत्यभयं ददौ

॥४९॥

दुर्योधनः पारिबर्हं कुञ्जरान् षष्टिहायनान् ।

ददौ च द्वादशशतानि अयुतानि तुरङ्गमान्

॥५०॥

रथानां षट्सहस्राणि रौक्माणां सूर्यवर्चसाम् ।

दासीनां निष्ककण्ठीनां सहस्रं दुहितृवत्सलः

॥५१॥

प्रतिगृह्य तु तत्सर्वं भगवान् सात्वतर्षभः ।

ससुतः सस्नुषः प्रायात् सुहृद्भिरभिनन्दितः

॥५२॥

( मिश्र ) ततः प्रविष्टः स्वपुरं हलायुधः समेत्य बन्धूननुरक्तचेतसः ।

शशंस सर्वं यदुपुङ्गवानां मध्ये सभायां कुरुषु स्वचेष्टितम्

॥५३॥

( अनुष्टुप् ) अद्यापि च पुरं ह्येतत् सूचयद् रामविक्रमम् ।

समुन्नतं दक्षिणतो गङ्गायां अनुदृश्यते

॥५४॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे उत्तरार्धे हस्तिनपुरकर्षणरूपसंकर्षणविजयो नाम अष्टषष्टितमोऽध्यायः ॥ ६८ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु